अध्यायः 100
श्रीकृष्णेनार्जुननिर्मितसरसि स्नापनादिनाऽऽप्यायितानां तुरगाणां
पुना रथे योजनम् ॥ 1 ॥ पुना रथमारूढयोः कृष्णः र्जुनयोर्जयद्रथम्प्रति गमनम् ॥ 3 ॥
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।
मोचयामास तुरगान्विनुन्नान्कङ्कपत्रिभिः ॥
अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत् ।
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥
पदातिनं तु कौन्तेयं युध्यमानं महारथाः ।
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥
आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥
शतानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥
अस्त्रवेगेन महता पार्थो बाहुबलेन च ।
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।
अपूजयन्महाराज कौरवा महदद्भुतम् ॥
कौरवा ऊचुः ।
किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत् ।
यदश्वान्पार्थ गोविन्दौ पाययामासतू रणे ॥
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।
तेजो विदधतुश्चोग्रं यत्सैन्यं तावकं विभो ।
`दधारैको रणे पार्थो वेलेवोद्वृत्तमर्णवम् ॥
पार्थस्य शरसञ्छन्ने तस्मिन्सद्मनि भारत ।
आकाशमिव सम्प्राप्य विचेरुस्तत्र पक्षिणः ॥
न चैनं युधि तिष्ठन्तं सैन्येषु तव मारिष ।
अभ्यद्रवत्सुसङ्क्रुद्धः पुमान्कश्चित्तु तावकः ॥
सर्वे विमनसोऽभूवंस्तव योधा विशाम्पते ।
सम्प्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनञ्जयम्' ॥
अथ स्मयन्हृषीकेशः स्त्रीमध्य इव भारत ।
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते ॥
`उपावृत्त्योत्थितानश्वान्पाणिभ्यां पुष्करेक्षणः ।
सम्मार्जयन्रणे राजन्पश्यतां सर्वयोधिनाम्' ॥
तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान् ।
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।
उपावर्त्य यथान्यायं पाययामास वारि सः ॥
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् ।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥
`योजयित्वा हयांस्तस्य विधिदृष्टेन कर्मणा ।
रणे चचार गोविन्दस्तृणीकृत्य महारथान्' ॥
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥
विनिःस्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।
घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥
तत्सैन्यं सर्वतो दृष्ट्वा रोमहर्षणमद्भुतम् ।
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चावुवन् ॥
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥
क्रोशतां यतमानानामसंसक्तौ परन्तपौ ।
दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु ॥
`यथा देवासुरे युद्धे तृणीकृत्य च दानवान् ।
इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ' ॥
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन् ।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः ।
अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम् ॥
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।
दुर्योधनापराघेन क्षत्रं कृत्स्ना च मेदिनी ॥
विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत् ॥
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।
तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः ॥
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् ।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम् ।
दुर्योधनोऽत्वयात्पार्थं त्वरमाणो महाहवे ॥
वातोद्धूतपताकं तं रथं जलदनिःस्वनम् ।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।
शरार्ताश्चरणे योधाः शेकुः कृष्णौ न वीक्षितुम् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
शततमोऽध्यायः ॥ 100 ॥
5-100-5 पुरुषानति पुरुषेभ्योऽतिशयः । असम्भ्रमत् ।
उपसर्गात्पूर्वमार्षोऽट् ॥ 5-100-11 विदधतुर्दर्शितवन्तौ ॥ 5-100-16
उपावर्तयत्परिलोडितवान् ॥ 5-100-18 श्रमं मनःकायखेदम् । ग्लानि बलापचयम् । वमथुं
फेनोद्रमम् ॥ 5-100-39 प्रावहन् अत्यक्रामन् ॥ 5-100-49 धिष्ठितं
किञ्चिदवस्थितम् ॥ 5-100-100 शततमोऽध्यायः ॥
श्रीः