अध्यायः 103

अर्जुनेन दुर्योधनपराजयः ॥ 1 ॥

सञ्जय उवाच ।
एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे ।
प्रतोदं चास्य भल्लेन च्छित्त्वा भूमावपातयत् ॥
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः ।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि ॥
तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च ।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥
अष्टाविंशांस्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् ।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥
कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ ।
मुष्टिश्च ते यथा पूर्वं भुजयोश्च बलं तव ॥
न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः ।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।
व्यर्थान्निपतितान्सङ्खे दुर्योधनरथं प्रति ॥
वज्राशनिसमा घोराः परकायावभेदिनः ।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना ॥
अर्जुन उवाच ।
द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निदर्शितम् ।
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।
एको द्रोणो हि वैदैतदहं तस्माच्च सत्तमात् ॥
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन ।
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् ।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥
यथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन ।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् ।
तस्माद्वृहस्पतिः प्राप ततः प्राप पुरन्दरः ॥
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् । दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ।
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥
सञ्जय उवाच ।
एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।
मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना ॥
विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान् ।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना ।
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ।
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम ॥
ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः ।
अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ । शरवर्षेण महता ततोऽहृष्यन्त तावकाः ।
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥
ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन् ।
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः ।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान् ।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥
[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः । स वेदनाभिराविग्नः पलायनपरायणः ॥]
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत ।
अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ ॥
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः ॥
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् ।
स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः ॥
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।
धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् ।
महता शरवर्षेण तलशब्देन चार्जुनः ॥
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः ।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥
`तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिःसृतेन ।
नादेन सासुरवियत्सुरलोकपाल-- मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्' ॥
तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च ।
निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः ॥
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम् ॥
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः ।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।
प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ ॥
तेन शब्देन महता पूरितेयं वसुन्धरा ।
सशैला सार्णवद्वीपा सपाताला विशाम्पते ॥
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश ।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ ।
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः ॥
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ ।
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

5-103-7 गाण्डीवतो बाणाः इति ड.पाठः । गण्डीवतः प्राणा इति क.ट.पाठः ॥ 5-103-17 युक्तां अन्यप्रयुक्ताम् ॥ 5-103-20 ससङ्ग्रहं सोपदेशम् । दैवं दैवः कृतम् ॥ 5-103-28 निर्देहान् निकृत्तावयवान् ॥ 5-103-31 नखमांसान्तरे इषुभिराविद्ध्यदिति पूर्वेणान्वयः । सन्धिरार्षः । अयं श्लोकः झ.पाठ एवास्ति ॥ 5-103-36 क्रोशमात्रे सैंधवतोर्थात् ॥ 5-103-103 त्र्यधिकशततमोऽध्यायः ॥

श्रीः