अध्यायः 105

सञ्जयेन रथानां ध्वजवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया ।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् ।
रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः ।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः ।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥
अनेकवर्णा विविधा ध्वजाः परमशोभनाः । ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः ।
नानावर्णविराणाभिः शुशुभुः सर्वतो वृताः ॥
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ।
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ ।
दोधूयमाना रथिनां शोभयन्ति महारथान् ॥
सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः ।
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत ॥
स वानरध्वजो राजन्पताकाभिरलङ्कृतः ।
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत ।
ध्वजाघ्रं समपश्याम बालसूर्यसमप्रभम् ॥
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ।
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम् ॥
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः ।
आहवे खं महाराज ददृशे पूरयन्निव ॥
पताकी काञ्चनः स्रग्वी ध्वजः कर्णस्य संयुगे ।
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः ।
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥
स तेन भ्राजते राजन्गोवृषेण महारथः ।
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता ॥
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् ।
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमुपशोभयन् ॥
तेन तस्य रथो भाति मयूरेण महात्मनः ।
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ।
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥
सा सीता भ्राजते तस्य रथमास्थाय मारिष ।
सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥
वराहः सिन्धुराजस्य राजतोऽभिविराजते ।
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः ॥
शुशुभे केतुना तेन राजतेन जयद्रथः ।
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ।
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते ।
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥
शलस्य तु महाराज राजतो द्विरदो महान् ।
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥
स केतुः शोभयामास सैन्यं ते भरतर्षभ ।
यथा श्वेतो महानागो देवराजचमूं तथा ॥
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ।
किङ्किणीशतसंहादो भ्राजंश्चित्रो रथोत्तमे ॥
व्यभ्राजत भृशं राजन्पुत्रस्तव विशाम्पते ।
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ।
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः ॥
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ।
अदीप्यतार्जुनो येन हिमवानिव शम्भुना ॥
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ।
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः ।
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥
तवापराधाद्राजानो निहता बहुशो युधि ।
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥
तेषामासीद्व्यातिक्षेपो गजर्तामितरेतरम् ।
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः ।
यदेको बहुभिः सार्घं समागच्छदभीतवत् ॥
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः ।
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम् ॥
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः ।
अदृश्यांस्तावकान्योधान्प्रचक्रे शत्रुतापनः ॥
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ।
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥
संवृते नरसिंहैस्तु कूरूणामृषभेऽर्जुने ।
महानासीत्समुद्भूतस्तस्य सैन्यस्य निःस्वनः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

5-105-2 रूपमाकारः ॥ 5-105-10 ध्वजाग्रं ध्वजमुख्यम् ॥ 5-105-11 काञ्चनम् काञ्चनमयम् ॥ 5-105-16 व्याहरिष्यन्वदिष्यन् ॥ 5-105-33 व्यतिक्षेपः अन्योन्याभिघातः ॥ 5-105-105 पञ्चाधिकशततमोऽध्यायः ॥

श्रीः