अध्यायः 109

घटोत्कचेनालम्बुसवधः ॥ 1 ॥

सञ्जय उवाच ।
`किरन्तं शरवर्षाणि रोषाद्दोणं महाहवे ।
वित्रासयन्तं तां सेनां कौन्तेयानां महीपते ॥
दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान्भृशम् ।
घटोत्कचो महाबाहू रणायाभिजगाम ह ॥
पिशाचवदनैर्युक्तं रथं काञ्चनभूषितम् ।
समास्थाय महाराज नानाप्रहरणैर्युतः ॥
दंशितस्तपनीयेन कवचेन सुवर्चसा ।
भूषणैराचिताङ्गश्च नदन्निव च तोयदः ॥
हैडिम्बेयः सुसङ्क्रुद्धो द्रोणमभ्यद्रवद्बली ।
तमभ्यधावदायान्तं क्रद्धरूपलम्बुसः ॥
ऋक्षचर्मपरिक्षिप्तं रथमास्थाय दंशितः ।
रक्तोष्ठः सधनुष्पाणिः प्रांशुः कल्प इव स्थितः ॥
क्षिपञ्छतघ्नीर्विपुला मुसलोपमतोमरान् ।
मुसण्ठीर्बहुलाश्चैव त्रिशूलानपि पट्टसान् ॥
कर्पराञ्छतधारांश्च पिनाकान्विविधांस्तथा ।
चक्राणि च क्षुरप्राणि क्षेपणीश्च कटङ्कटान् ॥
नारायान्विविधानस्यन्सकङ्कोलूकवायसान् ।
चिक्षेप धनुरादाय निनदन्भैरवान्रवान् ॥
तं रौद्रं क्रूरमायान्तं दृष्ट्वा कालमिवागतम् ।
प्राद्रवद्भयसंविग्ना राजन्पाण्डववाहिनी ॥
सात्यकिस्तु रथव्याघ्रो दृष्ट्वा तं राक्षसं युधि ।
अभ्ययादमरप्रख्यो भ्रामयित्वा महद्धनुः ॥
अभ्यद्रवच्च तद्रक्षस्तिष्ठतिष्ठेति चाब्रवीत् ।
अलम्बुसं राक्षसेन्दरं सोऽस्त्रवर्षैरवाकिरत् ॥
ततः पाण्डवसैन्यानि विद्रुतान्यथ भारत ।
निरीक्ष्याभ्यद्रवत्तूर्णं त्वरमाणो घटोत्कचः ॥
चिक्षेप च गदाशक्तीस्तोमरानथ पट्टसान् ।
हेमचित्रत्सरूनुग्रान्खङ्गानाकाशसप्रभान् ॥
अन्योन्यमरादालोक्य राक्षसौ तौ महाबलौ ।
भैरवं नदतुर्नादान्सतोयाविव तोयदौ ॥
ततः प्रववृते युद्धं घोरं राक्षससिंहयोः ।
यादृगेव पुरा वृत्तं रामरावणयोर्मृधे ॥
स शक्तीश्च पिनाकांश्च वज्रान्खङ्गान्परश्वथान् ।
अन्योन्यमभिसङ्क्रुद्धौ तदा व्यसृजतामुभौ ॥
आकृष्यमाणे धनुषि तयोर्बाहुबलेन च ।
यन्त्रेणेव तदा राजन्भृशं नादान्प्रचक्रतुः ॥
अलम्बुसस्ततश्चक्रं कृतान्तज्वलनप्रभम् ।
घटोत्कचाय चिक्षेप यत्नमास्थाय वीर्यवान् ॥
तद्भैमसेनिः सम्प्रेक्ष्य चक्रं वेगवदन्तरे ।
गदया ताडयामास तद्दीर्णं शतधाऽभवत् ॥
ततोऽग्निचूर्णैः सहसा चक्रघातविनिःसृतैः ।
दंशकैरिव सा सेना पतद्भिर्भृशसंकुला ॥
ततः प्रतिहते चक्रे स वीरो रोषसंकुलः ।
प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा ॥ ।
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः ।
युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः ॥
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः ।
अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः ॥
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः ।
शरवर्षं महाघोरं घटोत्कचरथं प्रति' ॥
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः ।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् ॥
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः ।
यादृगेव पुरा वृत्तं रामरावणयोः प्रभो ॥
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ।
अलम्बुसमथो विद्धा सिंहवद्व्यनदन्मुहुः ॥
तथैवालम्बुसो राजन्हैडिम्बिं युद्धदुर्मदम् ।
विद्व्वा विद्वृऽनदद्वृष्टः पूरयन्खं समन्ततः ॥
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ ।
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम् ।
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम् ॥
यांयां घटोत्कचो युद्धे मायां दर्शयते नृप ।
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥
तं तथा युध्यमानं तु मायायुद्धविशारदम् ।
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः ॥
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः ।
अभ्यद्रवन्त सङ्कुद्धा भीमसेनादयो नृप ॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ।
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥
स विष्फार्य अनुर्धोरमिन्द्राशनिसमस्वनम् ।
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ॥
युधिष्ठिरं त्रिभिर्विद्धा सहदेवं च सप्तभिः । नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष ।
पञ्चभिःपञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः । युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ।
नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ।
पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥
तस्य नादेन महता कम्पितेयं वसुन्धरा ।
सपर्वतवना राजन्सपादपजलाशया ॥
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः ।
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ।
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ।
व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान् ॥
ते शऱा नतपर्वाणो भैमसेनिविनिर्भिदः ।
रुषिताः पन्नगा यद्वद्योधमुख्यानुपागमन् ॥
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् ।
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः ।
`*नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः ॥
घटोत्कचं महाराज शरवर्षैरवाकिरत् ।
दग्धाद्रिकूटसदृशं तमञ्जनचयोपरमम् ॥
घटोत्कचोऽप्यसम्भ्रान्तः शरवर्षं महत्तरम् ।
अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन् ॥
अलम्बुसवधाच्चोग्राद्धटोत्कचवधादपि ।
शराः प्रादुर्भवन्ति स्म द्विरेफा इव शाखिनः ॥
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर ।
न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः ॥
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः ।
अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः ॥
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः ।
अक्षमीषां युगं चैव चिच्छेद युधि ताडयन् ॥
अवस्कन्द्य रथात्तूर्णं कैर्मीरः क्रोधमूर्च्छितः ।
तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह ॥
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य स तमेव च ।
मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः ॥
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसोऽद्रवत् ।
अन्तर्हितो महाराज घटोत्कचमयोधयत् ॥
अन्तर्धानगतं दृष्ट्वा तत्रतत्र घटोत्कचः ।
गदया ताडयामास वेगवत्या महाबलः ॥
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः ।
अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराडिव ॥
घटोत्कचोऽप्यसम्भ्रान्तः खङ्गपाणिरथोत्पतत् ।
ततो वेगेन महता विवर्षिषुरिवाम्बुदः ॥
तमापतन्तं सम्प्रेक्ष्य कैर्मीरी राक्षसोत्तमः ।
अभिदुद्राव वेगेन सिंहः सिंहमिव स्थितम् ॥
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा ।
अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः ॥
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ ।
अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा ॥
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः ।
शैलेनाभिहतस्येव शैलस्याभून्महास्वनः ॥
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम् ।
चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ ॥
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः ।
वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव ॥
ततः सैन्यानि ददृशुस्तद्युद्धमतिदारुणम् ।
युद्धं तयो राक्षसयोरामिषे श्येनयोरिव ॥
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ ।
तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ ॥
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः ।
उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ ॥
भ्रामयित्वा तु तं खङ्गं पाण्डोः किर्मीरनन्दनः ।
चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः ॥
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि ।
पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम् ॥
शीर्षाघातांसधातैश्च परस्परमथाहतौ ।
पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः ॥
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः ।
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च ।
भैमसेनिरथ क्रुद्धः सर्वसैन्यस्य पश्यतः ॥
असृक्क्षरितसर्वाङ्गश्चूर्णितास्थिविभूषणः ।
घटोत्कचेन निष्पिष्टो हतः सालकटङ्कटः ॥
पाण्डवानां ततः सेना तं दृष्ट्वा विनिपातितम् ।
ननाद सुमहानादं हर्षवेगसमाप्लुता ॥
ततस्तु निपपाताशु गतासुर्भुवि राक्षसः ।
शिखरं पर्वतस्येव वज्रवेगेन पातितम् ॥
पतता तेन महता रथिनां दन्तिनां दश ।
तव सैन्ये महाराज निहताः सुबृहत्तया ॥
ततो घटोत्कचो हत्वा तद्रक्षो वृत्रसन्निभम् ।
पुनः स रथमास्थाय विजिगीषुर्ननादह' ॥
ततः सुमनसः पार्था हते तस्मिन्निशाचरे ।
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् । अलम्बुसं तथा शूरा विशीर्णमिव पर्वतम् ।
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ ॥
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः ।
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् ।
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥
स पूज्यमानः पितृभिः सबान्धवै-- र्घटोत्कचः कर्मणि दुष्करे कृते ।
रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुसं पक्वमलम्बुषं यथा ॥
ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् ।
निशम्य तं प्रत्यनदंस्तु पाण्डवा-- स्ततो ध्वनिर्भुवनमथाऽस्पृशद्भृशम् ॥
`ततोऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम् ।
स्वकर्मावेदयन्मूर्ध्ना प्राञ्जलिर्निपपात ह ॥
मूर्ध्न्युपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः ।
प्रितोऽस्मीत्यब्रवीद्राजन्हर्षादुत्फुल्ललोचनः ॥
घटोत्कचेन निष्पिष्टे हते सालकटङ्कटे ।
बभूवुर्मुदिताः सर्वे हते तस्मिन्निशाचरे' ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे नवाधिकशततमोऽध्यायः ॥ 109 ॥

5-109-1 रक्षोग्रामणिमुख्ययोः रक्षःपतिप्रघानयोः ॥ 5-109-* नाभ्यपद्यतेत्यारभ्य विजिगीषुर्ननादहेति 79 तमश्लोकपर्यन्तं विद्यमानानां श्लोकानां स्थाने अधोलिखिताः सार्धषट््श्लोका एव झ.पुस्तके सन्ति । मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत । ततःसमरशौण्डो वै भैमसेनिर्महाबलः ॥ समीक्ष्य तदवस्थं तं वधायास्य मनो दधे । वेगं चक्रे महान्तं च राक्षसेन्द्रथं प्रति ॥ दग्धाद्रिकूटशृङ्गाभं भिन्नाञ़्जनचयोपमम् । रथाद्रथमभिद्रुत्य क्रुद्धो हैडिम्बिराक्षिपत् ॥ उद्वबर्ह रथाच्चापि पन्नागं गरुडो यथा । समुत्क्षिप्य च बाहुभ्यामाविद्व्य च पुनः पुनः ॥ निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि । बललाघवसम्पन्नः सम्पन्नो विक्रमेण च ॥ भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् । स विष्फारितसर्वाङ्गश्चूर्णितास्थिर्विभीषणः ॥ घटोत्कचेन वीरेण हतः सालकटङ्कटः । 5-109-15 भुवनं स्वर्लोकम् ॥ 5-109-109 नवाधिकशततमोऽध्यायः ॥

श्रीः