अध्यायः 110

रणाङ्कणो पाञ्चजन्यस्वने श्रुते अश्रुतेच गाण्डीवघोषे अर्जुनस्य विपदमाशङ्कमानेन युधिष्ठिरेण सात्यकिम्प्रति अर्जुनवृत्तान्तपरिज्ञानाय गमनचोदना ॥ 1 ॥

धृतराष्ट्र उवाच ।
भारद्वाजं कथं युद्धे युयुधानो न्यवारयत् ।
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥
सञ्जय उवाच ।
शृणु राजन्महाप्राज्ञ सङ्ग्रामं रोमहर्षणम् ।
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष ।
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥
तमापतन्तं सहसा भारद्वाजं महारथम् ।
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः ।
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शरैः शितैः ॥
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः ।
अभ्ययुर्धरणीं राजन्वल्मीकमिव पन्नगाः ॥
दीर्घबाहुरभिक्रुद्धस्तोत्रार्दित इव द्विपः ।
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः ॥
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् ।
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥
ततः क्रुद्धो महेष्वासो भूय एव महाबलः ।
सात्वतं पीडयामास व्रातेन नतपर्वणाम् ॥
स वध्यमानः समरे भारद्वाजेन सात्यकिः ।
नान्वपद्यत कर्तव्यं किञ्चिदेव विशाम्पते ॥
विषण्णवदनश्चापि युयुधानोऽभवन्नृप ।
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशाम्पते ।
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् ।
युधिष्ठिरोऽब्रवीद्राजा सर्वसैन्यानि भारत ॥
एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः । ग्रस्यते युधि वीरेण भानुमानिव राहुणा ।
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥
अभिद्रवत गच्छद्वं सात्यकिर्यत्र युध्यते ॥ धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः ।
`द्रोणं वारय सुक्षित्रं सात्यकिं मावधीद्द्विजः' ॥
अभिद्रव द्रुतं द्रोणं किमु तिष्ठसि पार्पत ।
न पश्यसि भयं द्रोणाद्धोरं नः समुपस्थितम् ॥
असौ द्रोणो महेष्वासो युयुधानेन संयुगे ।
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥
तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः ।
त्वयैव सहिताः सर्वे युयुधानरथं प्रति ॥
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः ।
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥
सञ्जय उवाच ।
एवमुक्त्वा ततो राजा सर्वसैन्येन भारत ।
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् ।
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् ।
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् ।
अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः ।
आतिथेयं गृहं प्राप्य तर्प्यन्तेऽतिथयो यथा ॥
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् ।
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः ।
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥
वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा ।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः ।
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः ।
महारथाः समाख्याता धृष्टद्युम्नस्य सम्मताः ॥
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च ।
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥
केकयानां शतं हत्वा विद्राव्य च समन्ततः ।
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयांश्च नराधिप ।
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥
तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः ।
वनौकसामिवारण्ये व्याप्तानां धृमकेतुना ॥
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप ।
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥
तं तथा समरे द्रोणं निघ्नन्तं सौमकान्रणे ।
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये ।
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निःस्वनम् ॥
पूरिते वासुदेवेन शङ्खराजे महात्मना ।
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ।
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ॥
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ।
न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट् ॥
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ।
`व्यक्तमद्य विनश्यन्ति सर्वलोकमहारथाः' ॥
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना ।
अजताशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः ।
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥
युधिष्ठिर उवाच ।
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः ।
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव ।
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः ।
स कार्ये साम्पराये तु नियोज्य इति मे मतिः ॥
यथा च केशवो नित्यं पाण्डवानानं परायणम् ।
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि ।
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे ।
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः ।
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् ।
पृथिवीं च द्विजातिभ्यो यो दद्यात्स समो भवेत् ॥
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः ।
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥
`दीयमाना च बहुभिर्दास्यते च मुहुर्मही ।
न हि कश्चिद्रणे प्राणान्मित्रार्थे त्यक्तवानिह' ॥
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः ।
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥
एक एव सदा कृष्णो मित्राणामभयङ्करः ।
रणे सन्तजति प्राणान्द्वितीयस्त्वं च सात्यके ॥
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः ।
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥
ईदृशे तु परामर्दे वर्तमानस्य माधव ।
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः ।
मम सञ्चनयन्हर्षं पुनः पुनरकीर्तयत् ॥
लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः ।
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥
महास्कन्धो महोरस्को महाबाहुर्महाहनुः ।
महाबलो महावीर्यः स महात्मा महारथः ॥
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे ।
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥
अस्मदर्थं च राजेन्द्र सन्नह्येद्यदि केशवः ।
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥
गदो वा मारणो वापि साम्वो वा सह वृष्णिभिः ।
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ॥
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् ।
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्योहि तत्समः ॥
इति द्वैतवने तात मामुवाच धनञ्जयः ।
परोक्षे त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि ।
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति ।
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥
न तन्सौहृदनन्येपु मया शैनेय लक्षितम् ।
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च ।
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥
सत्यस्य च महावाहो अनुकम्पार्थमेव च ।
अनुरूपं महेप्वास कर्म त्वं कर्तुमर्हसि ॥
सुयोधनो हि सहसा गतो द्रोणेन दंशितः ।
पूर्वमेवानुयातास्ते कौरवाणां महारथाः ॥
सुमहान्निनदश्चैव श्रूयते विजयं प्रति ।
स शैनेय जवेनाशु गन्तुमर्हसि मानद ॥
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः ।
द्रोणमावारयिष्यामो यदि त्वां प्रतियोत्स्यते ॥
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे ।
महान्तं चरणे शब्दं दीर्यमाणां च भारतीम् ॥
महामारुतवेगेन समुद्रमिव पर्वसु ।
धार्तराष्टबलं तात विक्षिप्तं सव्यसाचिना ॥
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह ।
सैन्यं रजःसमुद्भूतमेतत्सम्परिवर्तते ॥
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः ।
अत्यन्तोपचितैः शूरैः फल्गुनः परवीरहा ॥
नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः ।
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥
शरशक्तिध्वजवरं हयनागसमाकुलम् ।
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् ।
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः ।
सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥
पुरस्तात्सैन्धवानीकं द्रोणानीकं च पृष्ठतः ।
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् ।
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥
सर्वथा समनुप्राप्तः सुकृच्छ्रं त्वयि जीवति ।
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ॥
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्यात भारतीम् ।
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ॥
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ।
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् ।
अविपह्यां महाबाहुः सुरैरपि महाहवे ॥
न हि मे वर्तते बुद्धिरद्य युद्धे कथञ्चन ।
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥
प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः । युगपच्च समेतानां कार्याणां त्वं विचक्षणः ।
महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद ॥
तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत् ।
अर्जुनस्य परित्राणां कर्तव्यमिति संयुगे ॥
नाहं शोचामि दाशार्हं गोप्तारं जगतः पतिम् ।
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ॥
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते ।
किम्पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि ।
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ।
तादृशस्येदृशे काले मादृशेनाभिनोदितः ॥
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ ।
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥
अस्त्रे नारायणसमः सङ्कर्षणसमो बले ।
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ॥
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् ।
त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥
`सदेवासुरगन्धर्वान्सकिन्नरमहोरगान् ।
योधयेच्च जगत्सर्वं विजयेत रिपून्बहून् ॥
इति ब्रुवन्ति लोकेषु जनास्तव गुणांस्तथा । समागमेषु सर्वेषु पृथगेव च सर्वदा' ।
नाशक्यं विद्यते लोके सात्यकेरिति माधव ॥
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥
सम्भावना हि लोकस्य मम पार्थस्य चोभयोः ।
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ॥
परित्यज्य प्रियान्प्राणान्रणे चर विभीतवत् ।
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् ।
भीरूणामसतां मार्गे नैष दाशार्हसेवितः ॥
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गच ।
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम् ।
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥
वासुदेवमतं चैव मम चैवार्जुनस्य च ।
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ॥
एतद्वचनमाज्ञाय मम सत्यपराक्रम ।
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः ।
यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे दशाधिकशततमोऽध्यायः ॥ 110 ॥

5-110-29 तस्मिन्नवसरे ॥ 5-110-42 कृत्यस्य जयद्रथवधस्यानन्तरापेक्षी अविघ्नाकाङ्क्षी ॥ 5-110-43 यः स धर्मो मैत्रीलक्षणः । साम्पराये आपत्काले ॥ 5-110-47 वयस्यस्य स्रिग्धस्य । सहायार्थं सहायरूपप्रयोजनम् ॥ 5-110-67 उपप्लुवे विमर्दे ॥ 5-110-68 सख्यादेरनुरूपमित्यनेनान्वयः ॥ 5-110-69 सत्यस्याङ्गीकारस्य । अनुकम्पार्थमर्जुनानुपालननिमित्तम् ॥ 5-110-79 श्रूयते हि रणं प्रति इति क.पाठः ॥ 5-110-88 महार्थं महान्तमर्थम् । लघुसंयुक्तमविलम्बसम्पन्नम् ॥ 5-110-101 विभीतवदभीतः ॥ 5-110-102 अनबस्थानमस्थैर्यम् ॥ 5-110-110 दशाधिकशततमोऽध्यायः ॥

श्रीः