अध्यायः 111

अर्जुनम्प्रति गच्छेति युधिष्ठिरचोदितेन सात्यकिना तम्प्रति स्वस्यार्जुनेन तद्रक्षणाय नियोगाभिधानपूर्वकं स्वेन तस्यापरित्याज्यत्वकथनम् ॥ 1 ॥ युधिष्ठिरेण भीमादिभिः स्वस्य रक्षणकथनपूर्वकं पुनः सात्यकेरर्जुनम्प्रति गमने नियोजनम् ॥ 2 ॥

सञ्जय उवाच ।
प्रीतियुक्तं च हृद्यं च माननीयं च सर्वशः ।
कालयुक्तं च चित्रं च स्वधिया चाभिभाषितम् ॥
धर्मराजस्य तद्वाक्यं निश्यम्य शिनिपुङ्गवः ।
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाऽच्युत ।
न्याययुक्तं च सत्यं च फल्गुनार्थे यशस्करम् ॥
एवंविधे तथा काले मादृशं प्रेक्ष्य सत्तम ।
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ॥
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन ।
त्वत्प्रयुक्तः पुनरहं किं नकुर्यां महाहवे ॥
लोकत्रयं योधयेयं सदेवासुरमानुषम् ।
त्वत्प्रयुक्तो नरेन्द्रेन्द्र किम्पुनस्तान्सुदुर्बलान् ॥
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः ।
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥
कुशल्यहं कुंशलिनं समासाद्य धनञ्जयम् ।
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप ।
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥
दृढं त्वभिहितश्चाहमर्जुनेन पुनःपुनः ।
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥
अद्य माधव राजानमप्रमत्तोऽनुपालय ।
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥
त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे ।
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥
जानीषे हि रणे द्रोणं कुरुषु श्रेष्ठसम्मतम् ।
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥
ग्रहमे धर्मराजस्य भारद्वाजोऽपि गृध्यति ।
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम् ॥
एवं त्वयि समाघाय धर्मराजं नरोत्तमम् ।
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ॥
`स त्वमद्य रणे यत्तो रक्ष माधव पाण्डवम् ।
रक्षेणे धर्मराजस्य ध्रुवो हि विजयो मम' ॥
जयद्रथं च हत्वाऽहं द्रुतमेष्यामि माधव ।
धर्मराजं न चेद्द्रोणो निगृह्णीयाद्रणे बलात् ॥
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव ।
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥
एवङ्गते नरश्रेष्ठे पाण्डवे सत्यवादिति ।
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ॥
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति ।
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥
स त्वमद्य महाबाहो प्रियार्थं मम माधव ।
जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना ।
भारद्वाजाद्भयं नित्यं मन्यमानेन वै प्रभो ॥
तस्यापि च महाबाहो नित्यं पश्यामि संयुगे ।
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ॥
मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः । सोऽहं संभावनानं चैतामाचार्यवचनं च तत् ।
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ॥
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः ।
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः ।
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथाऽर्जुनः ॥
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।
यः प्रतीयाद्रमे द्रोणं यावद्गच्छामि पाण्डवम् ॥
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् ।
न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥
ये च सौवीरका योधास्तथा सैन्धवपौरवाः ।
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ॥
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तितः ।
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥
उद्युक्ताः पृथिवीपाल ससुरासुरमानुषाः ।
सराक्षसगणा राजन्सकिन्नरमहोरगाः ॥
जङ्गमस्थावरैः सार्धं नालं पार्थस्य संयुगे ।
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ॥
एवं वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ । न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते ।
दैवं कृतास्त्रतां योगममर्षं शौर्यमाहवे ।
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥
मयि चापि सहाये ते गच्छमानेऽर्जुनं प्रति ।
द्रोणे चित्रास्त्रतां सह्ख्ये राजंस्त्वमनुचिन्तय ॥
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति ।
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।
यस्याहं प्रत्ययात्पार्थं गच्छेयं फल्गुनं प्रति ॥
न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे ।
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥
`न पश्यामि रथं कञ्चिद्यस्ते गोप्ता भवेदिह ।
शक्तं यं मन्यसे राजन्गोप्तारं प्रति पाण्डव' ॥
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर ।
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ॥
युधिष्ठिर उवाच ।
एवमेतन्महाबाहो यथा वदसि माधव ।
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष ॥
करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम् ।
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ॥
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति ।
विचार्यैतत्स्वयं बुद्ध्या गमनं तत्र रोचये ॥
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः ।
ममापि रक्षणं भीमः करिष्यति महाबलः ॥
पार्षतश्च ससोदर्यः पार्थिवाश्च मबाहलाः ।
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ।
विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मातुलः । नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ।
एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे ।
समासादयितुं शक्तो न च मां धर्षयिष्यति ॥
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः ।
वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा ।
न द्रोणस्य बलं तात क्रमेत्तत्र कथञ्चन ॥
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् ।
कवची स शरी खङ्गी धन्वी च वरभूषणः ॥
`एष द्रोणं रणे क्रुद्धं वारयेत स वै प्रभो ।
पाञ्चालः सहितैः सर्वैः पाण्डवानां च धन्विभिः' ॥
विक्रुधं गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् ।
धृष्टद्युम्नो रणे क्रुद्धं द्रोणमावारयिष्यति ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ॥ 111 ॥

5-111-15 एवमीदृश्यामपि कार्यगतौ । समाधाय निक्षिप्य ॥ 5-111-19 एवङ्गते ग्रहणं प्राप्ते । अस्माकं चिन्तितं व्यक्तं व्यर्थमेव भवेद्युधि इति. क.ख.ङ.पाठः ॥ 5-111-27 यावद्रच्छामि गमिष्यामि ॥ 5-111-28 अर्जुनसम्भवमर्जुनविषयम् ॥ 5-111-34 दैवममानुषताम् । योगमभिज्ञानम् ॥ 5-111-38 क्वचित्कस्मिंश्चित् अनिक्षिप्येत्यन्वयः ॥ 5-111-40 दृष्ट्वा निश्चित्य ॥ 5-111-44 आतिष्ठ प्रक्रमस्व ॥ 5-111-47 मातुलः पुरुजित् ॥ 5-111-53 मयि मामधिकृत्य । सम्भ्रममुद्वेगम् ॥ 5-111-111 एकादशाधिकशततमोऽध्यायः ॥

श्रीः