अध्यायः 115

सात्यकिना जलसन्धस्य वधः ॥ 1 ॥

सञ्जय उवाच ।
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि ।
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ॥
लज्जयावनते चापि परिहृष्टे च तावके ।
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥
श्रुत्वा स निनदं भीमं तावकानां महाहवे ।
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥
उवाच सारथिं तत्र क्रोधामर्षसमन्वितः ।
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम् ॥
कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः ।
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति ॥
एवमुक्ते तु वचने सूतस्तस्य महामते ।
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात् ॥
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः ।
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः ॥
अथाशु निशितं भल्लुं शैनेयः कृतवर्मणः ।
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः ।
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः ॥
अभज्यताथ पृतना शैनेयशरपीडिता । `पलायनकृतोत्साहा भ्रमन्ती तत्रतत्र ह' ।
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः ॥
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् ।
अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥
पराजित्य तु संहृष्टः कृतवर्माणमाहवे ।
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ॥
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्वि पसङ्कुलम् ।
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ॥
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः ।
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥
एते हि बहवः सूत दुर्निवार्याश्च संयुगे ।
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ।
`न चाजित्वा रणे ह्येताञ्शक्यः प्राप्तुं जयद्रथः ॥
नापि सूत मया पार्थः शक्यः प्राप्तुं कथञ्चन ।
एते तिष्ठन्ति सहिताः सर्वविद्यासु निष्ठिताः' ॥
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः ।
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे ।
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥
सञ्जय उवाच ।
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः ।
रथेनादित्यवर्णेन भास्वरेण पताकिना ॥
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः ।
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ॥
आपतन्तं रणे तं तु शङ्खवर्णैर्हयोत्तमैः । परिववुस्ततः शूरा गजानीकेन सर्वतः ।
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ॥
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् ।
पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः ।
प्राद्रवन्रणमुत्सृज्य शिनिवीरसमीरितैः ॥
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः ।
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥
सम्भिन्नवर्मघण्टाश्च विनिकृत्तमहाध्वजाः ।
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥
रुवन्तो विविधान्नादाञ्जलदोपमनिःस्वनाः ।
नारचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा ॥
क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः । क्षरन्तोऽसृक्तथा मूत्रं पुरीषं च प्रदुद्रुवुः ।
बभ्रुमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे ॥
एवं तत्कुञ्जरानीकं युयुधानेन पीडितम् ।
शरैरग्न्यर्कसङ्काशैः प्रदुद्राव समन्ततः ॥
तस्मिन्हते गजानीके जलसन्धो महाबलः ।
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ॥
रुक्मवर्मधरः शूरस्तपनीयाङ्गदः शुचिः ।
कुण्डली मकुटी खङ्गी रक्तचन्दनरूषितः ॥
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् ।
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि ।
अशोभत महाराज सविद्युदिव तोयदः ॥
तमापतन्तं सहसा मागधस्य गजोत्तमम् ।
सात्यकिर्वारयामास वेलेव मकरालयम् ॥
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः ।
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ॥
ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः ।
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ॥
ततोऽपरेण भल्लेन पीतेन निशितेन च ।
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥
सात्यकिं छिन्नधन्वानां प्रहसन्निव भारत ।
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् ।
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली ।
धनुरन्यत्समादाय तिष्ठतिष्ठेत्युवाच ह ॥
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि ।
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥
क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः ।
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् ।
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥
स निर्भिद्य भुजं सव्यं माधवस्य महारणे ।
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः ।
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ॥
प्रगृह्य तु ततः खङ्गं जलसन्धो महाबलः । आर्षभं चर्म च महच्छतचन्द्रकसङ्कुलम् ।
आविध्य च ततः खङ्गं सात्वतायोत्ससर्ज ह ॥
शैनेयस्य धनुश्छित्त्वा स खङ्गो न्यपतन्महीम् ।
अलातचक्रवच्चैव व्यरोचत महीं गतः ॥
अथान्यद्धनुरादाय सर्वकायावदारणम् ।
`जलसन्धमभिप्रेक्ष्य उत्स्मयित्वा च माधवः' ॥
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ।
विष्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ॥
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः ।
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ॥
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् ।
वसुन्धराधराद्धष्टौ पञ्चशीर्षाविवोरगौ ॥
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमण्डितम् ।
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ॥
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् ।
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ॥
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः ।
विमानं पातयामास गजस्कन्धाद्विशांपते ॥
रुधिरेणावसिक्ताङ्गौ जलसन्धस्य कुञ्जरः ।
विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् ।
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥
हाहाकारो महानासीत्तव सैन्यस्य मारिष ।
जलसन्धं हतं दृष्ट्वा वृष्णीनामृपभेण तु ॥
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः ।
पलायनकृतोत्साहा निरुत्साहा द्विषञ्जये ॥
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः ।
`सन्न्यस्य भारं सुमहत्कृतवर्मणि भारत ॥
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ।
स हि पार्थान्रणे यत्तान्दधारैको महाबलः' ॥
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः ।
द्रोणेनैव सह क्रुद्धा सात्यकिं समुपाद्रवन् ॥
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च ।
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥

5-115-23 द्रोणo 5-115-26 पिण्डिक्रा गण्डः ॥ 5-115-33 कण्ठसूत्रं हारम् ॥ 5-115-47 ततो ग्रहणानन्तरम् । आविध्य भ्रामयित्वा ॥ 5-115-52 वसुन्धराधरात् पर्वताम् ॥ 5-115-115 पञ्चदशाधिकशततमोऽध्याय ॥

श्रीः