अध्यायः 118

सात्यकिना सुदर्शननाम्नो राज्ञो वधः ॥ 1 ॥

सञ्जय उवाच ।
द्रोणं स जित्वा पुरुषप्रवीर-- स्तथैव हार्दिक्यमुखांस्त्वदीयान् ।
प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुङ्गवाग्र्य ॥
निमित्तमात्रं वयमद्य सूत दग्धा रथाः केशवफल्गुनाभ्याम् ।
हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेत ॥
सञ्जय उवाच ।
तमेवमुक्त्वा शिनिपुङ्गवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा ।
किरन्समन्तात्सहसा शरान्बली समापतच्छयेन इवामिषाशया ॥
तं यान्तमश्वैः शशिशङ्खवर्णै-- र्विगाह्य सैन्यं पुरुषप्रवीरम् ।
नाशक्नुवन्वारयितुं समन्ता-- दादित्यरश्मिप्रतिमं रथाग्र्यम् ॥
असह्यविक्रान्तमदीनसत्वं सर्वे गणा भारत ये त्वदीयाः ।
सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये ॥
अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी ।
सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य ॥
तयोरभूद्भारतसम्प्रहारः सुदारुणस्तं समतिप्रशंसन् ।
योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य-- त्सुदर्शनः सात्वतमुख्यमाजौ ।
अनागतानेव तु तान्पृषत्कां-- श्चिच्छेद राजञ्शिनिपुङ्गवोऽपि ॥
तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान्क्षिपति स्म सायकान् ।
द्विधा त्रिधा तानकरोत्सुदर्शनः शरोत्तमैः स्यन्दनवर्यमास्थितः ॥
तान्वीक्ष्य बाणान्निहतांस्तदानीं सुदर्शनः सात्यकिबाणवेगैः ।
क्रोधाद्दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत्तपनीयचित्रान् ॥
पुनः स बाणैस्त्रिभिरग्निकल्पै-- राकर्णपूर्णैर्निशितैः सुपुङ्खैः ।
विव्याध देहावरणं विभिद्य ते सात्यकेराविविशुः शरीरम् ॥
तथैव तस्यावनिपालपुत्रः सन्धाय बाणैरपरैर्ज्वलद्भिः ।
आजघ्निवांस्तान्रजतप्रकाशां-- श्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥
तथा तु तेमाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः ।
सुदर्शनस्येषुगणैः सुतीक्ष्णै-- र्हयान्निहत्याशु ननाद नादम् ॥
अथास्य सूतस्य शिरो निकृत्य भल्लेन शक्राशनिसन्निभेन ।
सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण कालानलसन्निभेन ॥
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं विचकर्त देहात् ।
यथा पुरा वज्रधरः प्रसह्य बलस्य सङ्ख्येऽतिबलस्य राजन् ॥
निहत्य तं पार्थिवपुत्रपौत्रं रणे यदूनामृषभस्तरस्वी ।
मुदा समेतः परया महात्मा रराज राजन्सुरराजकल्पः ॥
ततो ययावर्जुनमेव वीरो निवार्य सैन्यं तव मार्गणौघैः ।
सदश्वयुक्तेन रथेन राजँ-- ल्लोकं विसिस्मापयिषुर्नृवीरः ॥
तत्तस्य विस्मापयनीयमग्र्य-- मपूजयन्योधवराः समेताः ।
प्रवर्तमानानिषुगोचरेऽरी-- न्ददाह बाणैर्हुतभुग्यथैव ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

श्रीः