अध्यायः 119

सात्यकिपराक्रमवर्णनम् ॥ 1 ॥

`सञ्जय उवाच ।
निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे ।
स सात्यकिः सत्यधृतिर्महात्मा शिनिपुङ्गवः ॥
*दुर्योधनं च निर्जित्य शूरं चैव सुयोधनम् ।
जलसन्धं निहत्याजौ शूरसेनं च पार्थिवम् ॥
म्लेच्छांश्च बहुधा राजन्काश्यपुत्रं च संयुगे ।
निषादांस्तङ्कणांश्चैव कलिङ्गान्मगधानपि ॥
केकयाञ्छूरसेनांश्च तथा पर्वतवासिनः ।
काम्भोजान्यवनांश्चैव वसातींश्च शिबीनपि ॥
कोसलान्मगधांश्चैव यातुधानान्सतित्तिरान् ।
एतांश्चान्यान्रणे हत्वाऽगच्छद्युद्धे स सात्यकिः ॥
रुधिरौघनदीं घोरां केशशैवालशाद्वलाम् ।
शक्तिग्राहसमाकीर्णां छत्रहंसोपशोभिताम् ॥
दुस्तरां भीरुभिर्नित्यं शूरलोकप्रवाहिनीम् ।
प्रवर्त्य हृषितो राजन्पुनर्यन्तारमब्रवीत् ॥
ध्वजनागाश्वकलिलं शरशक्त्यूर्मिमालिनम्' ।
खङ्कमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥
प्राणापहारिणं रौद्रं वादित्रोद्धुष्टनादितम् । शूराणां सुखसंस्पर्शमस्पृश्यमथ भीरुणाम् ।
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ॥
जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ।
अतोऽन्यत्पृतनाशेषं मन्ये कुनदिकामिव ॥
तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् ।
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् ॥
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ।
हार्दिक्यं योधवर्यं च मन्ये प्राप्तं धनञ्जयम् ॥
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ।
वह्नेरिव प्रदीप्तस्य वने शुष्कतृणालयम् ॥
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना ।
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥
द्रवते तद्यथा सैन्यं तेन भग्नं महात्मना । रथैर्विपरिधावद्भिर्गजैरश्वैश्च सारथे ।
कौशेयारुणसंकाशमेतदुद्वूयते रजः ॥
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ॥
श्रूयते ह्येष निर्घोषो जलदस्येव गर्जतः ।
विष्फार्यमाणस्य रणे गाण्डीवस्यामितौजसः ॥
अभ्याशस्थमहं मन्ये सैन्धवस्य किरीटिनम् ।
तादृशः श्रूयते शब्दः सैन्यानां सागरोपमः ॥
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै ।
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः ॥
शनैर्विस्रम्भयन्नश्वान्याहि यत्रारिवाहिनी ॥
यत्रैते सतलत्रामाः सुयोधनपुरोगमाः ।
दंशिताः क्रूरकर्माणः काम्भोजा युद्धदुर्मदाः ॥
शरबाणासनधरा यवनाश्च प्रहारिणः ।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ॥
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः ।
इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥
सूत उवाच ।
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।
यद्यपि स्यात्तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा ।
तथापि सम्भ्रामो न स्यात्त्वामाश्रित्य महाभुज ॥
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन ।
दंशिताःक्रूरकर्माणः काम्भोजा युद्धदुर्मदाः ॥
शरवाणासनधरा यवनाश्च प्रहारिणः । शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ।
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ॥
न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कथञ्चन ।
किमुतैतत्समासाद्य धीरं संयुगगोष्पदम् ॥
आयुष्मन्कतरेण त्वां प्रापयामि धनञ्जयम् ।
केभ्यः क्रुद्धोऽसि वार्ष्णेय कान्स्विन्मृत्युरुपस्थितः ॥
केषां सङ्घमनीकस्य हन्तुमुत्सहते मनः ।
केत्वां युधि पराक्रान्तं कालान्तकयमोपमम् ॥
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे ।
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥
सात्यकिरुवाच ।
मुण्डानेतान्हनिष्यामि दानवानिव वासवः ।
प्रतिज्ञां पारयिष्यामि काम्भोजानेव मां वह ॥
xxxxxकदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥
xxxxxयन्ति मे वीर्यं कौरवाः ससुयोधनाः ।
xxxxxxनाके हते सूत सर्वसैन्येषु चासकृत् ॥
अद्य कौरवसैन्यस्य दीर्घमाणस्य संयुगे ।
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ॥
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः ।
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः ।
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् ।
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥
मत्सायकचिताङ्गानां रुधिरं स्रवतां मुहुः ।
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ॥
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् ।
द्विफल्गुनामिमं लोकं मंस्यतेऽद्य सुयोधनः ॥
अद्य राजसहस्राणि निहतानि मया रणे ।
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ॥
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु ।
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥
बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः ॥
सञ्जय उवाच ।
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः ।
शशाङ्कसन्निकाशान्वै वाजिनो व्यनुदद्भृशम् ॥
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः ।
प्रापयन्यवनाञ्शनीघ्रं मनः पवनरंहसः ॥
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् ।
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥
तेषामिषूनथास्त्राणि वेगवान्नतपर्वभिः ।
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः ।
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः ।
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ।
शतशोऽभ्यपतंस्तत्र व्यसवो वसुधातले ॥
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः ।
पञ्च षट् सप्त चाष्टौ च भिभेद यवनाञ्शरैः ॥
काम्भोजानां सहस्रैश्च शकानां च विशाम्पते ।
शबराणां किरातानां बर्बराणां तथैव च ॥
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् ।
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धदौः ।
दीर्घकूर्चैर्मही कीर्णा विबर्हैरण्डजैरिव ॥
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ।
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः ।
ते सात्वतेन निहताः समावव्रुर्वसुन्धराम् ॥
`तेषामस्त्राणि बाणांश्च शैनेयो नतपर्वभिः ।
निचकर्त महाराज यवनानां शिरोधराः ॥
ते शरा नतपर्वाणो युयुधानप्रचोदिताः ।
हित्वा देहांस्तथा तेषां पतन्ति स्म महीतले ॥
ते हन्यमाना वीरास्तु वृष्णिवीरेण संयुगे ।
शस्त्राहताः पतन्त्युर्व्यां काम्भोजाः सपदानुगाः ॥
काम्भोजानां भुजैश्छिन्नैर्यवनानां च भारत ।
तत्रतत्र मही भाति पञ्चास्यैरिव पन्नगैः' ॥
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः ।
जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ॥
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् ।
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥
काम्भोजसैन्यं विद्राव्य दुर्जयं युधि भारत ।
यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥
ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः ।
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥
तत्तस्य समरे कर्म दृष्ट्वाऽन्यैरकृतं पुरा ।
चारणाः सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम् ॥
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते ।
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

5-119-* एतदादिसार्धसप्तश्लोकस्थाने वक्ष्यमाणः सार्धएव श्लोकः झ.पुस्तकेऽस्ति । सञ्जय उवाच । ततः स सात्यकिर्धामीन्महात्मा वृष्णिपुङ्गवः । सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत् ॥ रथाश्वनागकलिलं शरशत्तयूर्मिमालिनम् । 5-119-20 विस्रम्भयन् आश्वासयन् ॥ 5-119-33 पारयिष्यामि समापयिष्यामि ॥ 5-119-50 वैक्यायसानि शोणितायोमयानि ॥ 5-119-52 सुपूर्णयतमुक्तैराकर्णज्योत्सृष्टैः । अव्यवच्छिन्नपिण्डितैरनवच्छिन्नसंहतैः ॥ 5-119-119 एकोनविंशत्यधिकशततमोऽध्यायः ॥

श्रीः