अध्यायः 122

सात्यकिभयात्पलायमानस्य दुश्शासनस्य द्रोणेनोपालम्भः ॥ 1 ॥ द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 2 ॥

सञ्जय उवाच ।
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् ।
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥
दुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः ।
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥
राजपुत्रो भवानत्र राजभ्राता महारथः ।
किमर्थं द्रवते युद्धे यौवराज्यमवाप्य च ॥
दासी जिताऽसि द्यूते त्वं यथा कामचरी भव ।
वाससां वाहिका राज्ञो भ्रातुर्ज्येष्ठस्य मे भव ॥
न सन्ति पतयः सर्वे तेऽद्य षण्ढतिलैः समाः ।
दुःशासनैवं कस्मात्त्वं पूर्वमुक्त्वा पलायसे ॥
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह ।
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे ।
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥
अप्रियाणां हि वचनं पाण्डवस्य विशेषतः ।
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥
क्व ते मानश्च दर्पश्च क्व ते वीर्यं क्व गर्जितम् ।
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥
शोच्येयं भारती सेना राज्यं चैव सुयोधनः ।
यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥
ननु नाम त्वया वीर दार्यमाणा भयार्दिता ।
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥
स त्वमद्य रणं हित्वा भीतो हर्षयसे परान् । विद्रुते त्वयि सैन्यस्य नायके शत्रुमूदन ।
कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ॥
एकेन सात्वतेनाद्य युध्यमानस्य तेन वै ।
पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ॥
यदा गाण्डीवधन्वानं भीमसेनं च कौरव ।
यमौ च द्रक्ष्यसि रणे तदा वै किं करिष्यसि ॥
युधि फल्गुनबाणानां मूर्याग्निसमवर्चसाम् ।
न तुल्याः सात्यकिशरा येभ्यो भीतः पलायसे ॥
त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश ।
पृथिव्यां धावमानस्य नान्यत्पश्यामि जीवनम् ॥
यदि तावत्कृता बुद्धिः पलायनपरायणा ।
पृथिवी धर्मराजाय शमेनैव प्रदीयताम् ॥
यावत्फल्गुननाराचा निर्मुक्तोरगसन्निभाः ।
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे ।
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः ।
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् ।
सोदरांस्ते न मृद्राति तावत्संशाम्य पाण्डवैः ॥
पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः ।
अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य तैः सह ॥
`मया शमवता चोक्तो रक्ष शेषं सुयोधन ।
संशाम्य पार्थैस्त्वं रक्ष वीर सर्वान्महीक्षितः' ॥
न च तत्कृतवान्मन्दस्तव भ्रातां सुयोधनः ।
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः ॥
तवापि शोणितं भीमः पास्यतीति मया श्रुतम् ।
तच्चाप्यवितथं तस्य तत्तथैव भविष्यति ॥
किं भीमस्य न जानासि विक्रमं त्वं सुबालिश ।
यत्त्वया वैरमारब्धं संयुगे प्रपलायिना ॥
गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः ।
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत ॥
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥
सञ्जय उवाच ।
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ ।
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् ।
आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा ।
अभ्यद्रवत सङ्क्रुद्धौ जवमास्थाय मध्यमम् ॥
प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम् ।
द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥
ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥
तं जयन्तमनीकानि भारद्वाजं ततस्ततः ।
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥
स द्रोणं पञ्चभिर्विद्व्वा शरैः सन्नतपर्वभिः ।
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥
तत्राद्भुतं महाराज दृष्ट्वानस्मि संयुगे ।
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नात्यवर्तत ॥
सन्निरुद्धं रमे द्रोणं पाञ्चला वीक्ष्य मारिष ।
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥
ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः ।
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥
निवार्य तान्बाणगणान्द्रोणो राजन्समन्ततः ।
महाजलधरान्व्योम्नि मातरिश्वेव चाबभौ ॥
ततः शरं महाघोरं मूर्यपावकसन्निभम् ।
सन्दधे परवीरघ्नो वीरकेतो रथं प्रति ॥
स भित्त्वा तु शरो राजन्पाञ्चालकुलनन्दनम् ।
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥
ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः ।
पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥
तस्मिन्हते महेष्वासे राजपुत्रे महाबले ।
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत ।
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः ॥
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः ।
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥
`अदृश्यं समरे चक्रुर्भारद्वाजं सुधन्विनः' ॥
स वध्यमानो बहुधा राजपुत्रैर्महारथैः ।
क्रोधमाहारयत्तेषामभावाय द्विजर्षभः ॥
ततः शरमयं जालं द्रोणस्तेषामवासृजत् । ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः ।
कर्तव्यं नाभ्यजानन्वै कुमारा राजसत्तम ॥
तान्विमूढान्रणे द्रोणः प्रहसन्निव भारत ।
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥
अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः ।
पुष्पाणीव विवान्वायुः सोत्तमाङ्गान्यपातयत् ॥
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः ।
देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् ।
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥
`तदस्य भ्राजते राजन्मेघमध्ये तडिद्यथा' ॥
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् । धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम् ।
अभ्यवर्तत सङ्गारमे क्रुद्धो द्रोणरथं प्रति ॥
ततो हाहेति सहसा नादः समभवन्नृप ।
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥
से च्छाद्यमानो बहुधा पार्षतेन महात्मना ।
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः ।
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥
स गाढविद्धो बलिना भारद्वाजो महायशाः ।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी ।
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान् ॥
अवप्लुत्य रथाच्चापि त्वरितः स महारथः । आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ।
हर्तुमिच्छञ्शिरः कायात्क्रोधसंरक्रलोचनः ॥
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महारवम् ।
आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया ॥
शरैर्वैतस्तिकै राजन्विव्याधासन्नवेधिभिः ।
योधयामास समरे धृष्टद्युम्नं महारथम् ॥
ते हि वैतस्तिका नाम शरा आमन्नयोधिनः ।
द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत् ॥
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः ।
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः ।
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥
द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम् ॥
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तदा ।
त्रैलोक्यकाङ्क्षिणोरासीच्छक्रप्रह्लादयोरिव ॥
मण्डलानि विचित्राणि यमकानीतराणि च ।
चरन्तौ युद्धमार्गज्ञौ ततक्षतुरथेषुभिः ॥
मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ । सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ ।
छादयन्तौ महात्मानौ शरैर्व्योम दिशो महीम् ॥
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् ।
क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः ॥
अवश्यं समरे द्रोणो दृष्टद्युम्नेन सङ्गतः ।
वशमेष्यति नो राजन्पाञ्चाला इति चुक्रुशुः ॥
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः ।
शिरः प्रच्यावयामास फलं पक्वं तरोरिव ॥
ततस्तु प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा ।
अयोधयद्रणे द्रोणस्तत्रतत्र पराक्रमी ॥
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् । स्वं व्यूहं पुनरास्थाय स्थितोऽभवदरिन्दमः ।
न चैनं पाण़्डवा युद्धे जेतुमुत्सेहिरे प्रभो ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

5-122-48 विशेषेण वातीति विवान् । पुष्पाणीव वनाद्वायुः इति ट.पाठः । पुष्पाणीव विचन्वन्हि इति झ.ञ. पाठः ॥ 5-122-61 द्रोणस्य विविधा राजन् इति ट. पाठः । द्रोणस्य विदिता इति क. पाठः ॥ 5-122-122 द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

श्रीः