अध्यायः 127

कतिचन धार्तराष्ट्रान्निहत्य निर्गच्छता भीमेन स्वपथं निरुन्धानस्य द्रोणस्य रथभञ्जनम् ॥ 1 ॥

भीमसेन उवाच ।
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः ।
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥
तवाज्ञां शिरसा बिभ्रदेष गच्छामि मा शुचः ।
समेत्य तान्नरव्याघ्रास्तव दास्यामि संविदम् ॥
सञ्जय उवाच ।
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् । धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनःपुनः ।
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥
विदितं ते महाबाहो यथा द्रोणो महारथः ।
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥
न च मे गमने कृत्यं तादृक्पार्षत विद्यते ।
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे ।
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥
धर्मराजस्य वचने स्थातव्यमविशङ्कया ।
यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः ॥
सोऽद्य यत्तो रणे रार्थं परिरक्ष युधिष्ठिरम् ।
एतद्धि सर्वकार्याणां परमं कृत्समाहवे ॥
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् ।
ईप्सितं ते करिष्यामि गच्छ पार्थाविचारयन् ॥
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन ।
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥
सञ्जय उवाच ।
ततो निक्षिप्य राजानं धृष्टद्युम्ने च पाण्डवम् ।
अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फल्गुनः ॥
परिष्वक्तश्च कौन्तेयो धर्मराजेन मारुतिः ।
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥
[कृत्वा प्रदक्षिणान्विप्रानर्चितांस्तुष्टमानसान् ।
आलभ्य मङ्गलान्यष्टौ पीत्वा कैरातकं मधु ॥
द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः ।
विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः ॥
पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम् ।
अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः ॥
भीमसेनो महाबाहुः कवची शुभकुण्डली । सगदः सतलत्राणः सशरी रथिनां वरः ।
रथमारुह्य निर्युक्तं सर्वोपकरणान्वितम्' ॥
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् ।
विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः ॥
पीतरक्तासितसितैर्वासौभिश्च सुवेष्टितः ।
कण्ठसूत्रेण विबभौ सेन्द्रायुध इवाम्बुदः ॥
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया ।
पाञ्चजन्यरवो घोरः पुनरासीद्विशाम्पते ॥
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् ।
पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत ॥
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ।
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि ।
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥
नूनमार्या महत्कुन्ती पापं व्यसनमीदृशम् । द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ।
तद्भीम त्वरया युक्तो याहि यत्र धनञ्जयः ॥
मुह्यतीव हि मे चित्तं धनञ्जयदिदृक्षया ।
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात् ॥
गच्छगच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः ।
ततः पाण्डुसुतो राजन्भीमसेनः प्रतापवान् ॥
बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः ।
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ॥
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माप्य चासकृत् ।
विनद्य सिंहनादेन ज्यां विकर्षन्पुनःपुनः ॥
तेन शब्देन वीराणां पातयित्वा मनांस्युत ।
दर्शयन्घोरमात्मानममित्रान्सहसाऽभ्ययात् ॥
तमूहुर्जवना दान्ता विरुवन्तो हयोत्तमाः ।
विशोकेन सुसंयत्ता मनोमारुतरंहसः ॥
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना ।
सम्प्रकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः ।
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥
तं समेत्य महाराज तावकाः पर्यवारयन् ।
दुःशासनश्चित्रसेनः कुण्डभेदी विविंशतिः ॥
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा ।
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः ।
अभयो रौद्रकर्णा च सुवर्मा दुर्विमोचनः ॥
शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः ।
संयत्ताः समरे वीरा भीमसेनमुपाद्रवन् ॥
तैः समन्ताद्वृतः शूरैः समरेषु महारथः । तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी ।
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् ।
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी ।
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥
ते वध्यमानाः समरे तव पुत्रा महारथाः ।
भीमं भीमबला युद्धे योधयन्ति जयैषिणः ॥
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् ।
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥
आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम् ।
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥
अथान्यैर्विशिखैस्तीक्ष्णैः सङ्क्रुद्धः कुण्डभेदिनम् ।
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥
अभयं रौद्रकर्माणं दुर्विमोचनमेव च ।
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥
वध्यमाना महाराज पुत्रास्तव बलीयसा ।
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥
ते शरैर्भीमकर्माणं ववर्षुः पाण्डवं युधि ।
मेघा इवातपापाये धाराभिर्धरणीधरम् ॥
स तद्बाणमयं वर्षमश्मवर्षमिवाचलः ।
प्रतीच्छन्पाण्डुदायादो न प्राव्यथत शत्रुहा ॥
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् ।
प्रहसन्नेव कौन्तेयः शरैर्निन्यं यमक्षयम् ॥
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ ।
विव्याध समरे तूर्णं स पपात ममार च ॥
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः ।
दिशः सर्वाः समालोक्य व्यधमत्पाण्डुनन्दनः ॥
ततो वै रथघोषेण गर्जितेन मृगा इव । भज्यमानाश्च समरे तव पुत्रा विशाम्पते ।
प्राद्रवन्सहसा सर्वे भीमसेनभयर्दिताः ॥
अनुयायाच्च कौन्तेयः पुत्राणां ते महद्बलम् ।
विव्याध समरे राजन्कौरवेयान्समन्ततः ॥
वध्यमाना महाराज भीमसेनेन तावकाः । त्यक्त्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान् ।
तांस्तु निर्जित्य समरे भीमसेनो महाबलः ।
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥
*महान्तं तलशब्दं च कृत्वा द्रोणान्तिकं ययौ ।
तमावारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥
तस्य द्रोणो रथं राजञ्छादयामास संयुगे ।
साश्वसूतध्वजं तूर्णं तदद्भुतमिवाभवत् ॥
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव ।
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा ।
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् ।
मामनिर्जित्य समरे शत्रुमद्य महाबल ॥
यदि ते सानुजः कृष्णः प्रविष्टोऽनुमते मम ।
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया ॥
सञ्जय उवाच ।
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमशेषतः ।
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥
तवार्जुनो नानुमते ब्रह्बन्धो रमाजिरम् ।
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥
येन त्वं परमां पूजां कुर्वता मानितो ह्यसि ।
नार्जुनोऽहं घृणी विप्र भीमसेनोऽस्मि ते रिपुः ॥
पिता नस्त्वं गुरुर्बन्धुस्तदा पुत्रा हि र्ते वयम् ।
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥
तदद्य विपरीतं ते वदतोऽस्मासु दृश्यते । यदि शत्रुं त्वमात्मानं मन्यसे तत्तथाऽस्त्विह ।
एष ते सदृशं कर्म शत्रोर्भीमः करिष्यति ॥
सञ्जय उवाच ।
अथोद्धाम्य गदां वीरः कालदण्डमिवान्तकः ।
द्रोणायावासृजद्राजन्स रथादवपुप्लुवे ॥
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा ।
तदद्भुतमपश्याम पाण्डवेयस्य विक्रमम् ॥
द्रोणं तु विरथं कृत्वा भीमसेनो महाबलः ।
अभ्यवर्तत सैन्यानि तावकानि समन्ततः ॥
स मृद्रंस्तरसा योधान्वायुर्वृक्षानिवौजसा ।
विचचार रणे राजन्वायुतुल्यपराक्रमः ॥
निर्जितस्तु तदा तेन पाण्डवेन महात्मना ।
अन्यं तु रथमातिष्ठद्द्रोणः प्रहरतां वरः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

5-127-1 संविदं ज्ञापनम् ॥ 5-127- आत्ययिकं अतिशयितम् ॥ 5-127- इदं श्लोकत्रयं झ. पुस्तक एव वर्तते । अनलो गोहिरण्यं च दूर्वागोरोचनामृतम् । अक्षतं दधि चेत्यष्टौ मङ्गलानि प्रचक्षते ॥ 5-127- विजयोत्पादसूचितः सूचितविजयोत्पादः ॥ 5-127- रथमारुह्य प्रययाविति पूर्वेणान्वयः ॥ 5-127- आह कुन्ती नूनमार्या पापमद्य निदर्शनम् । द्रोपद्री च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः । इति झ. पाठः ॥ 5-127- आरुजन् कृन्तन् । विरुजन्विष्यन् । विकर्षन् अत्यर्थं कर्षन् । सम्प्रकर्षन् सम्यक्प्रकर्षेण विलिखन् । विकर्षन् विक्षिपन् ॥ 5-127-* इयं कथा झ. पाठे पूर्वाध्याये 37 तमश्लोकादनन्तरं कथितास्ति ।

श्रीः