अध्यायः 129

भीमेन कर्णपराजयो दुःशलवधश्च ॥ 1 ॥

धृतराष्ट्र उवाच ।
निनदन्तं तथा तं तु भीमसेनं महाबलम् ।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥
न हि पश्याम्यहं तं वै त्रिषु लोकेषु कञ्चन ।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥
गदां युयुत्समानस्य कालस्येवेह सञ्चय ।
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान् ॥
रथं रथेन यो हन्यात्कुञ्जरं कुञ्चरेण च ।
कस्तस्य समरे स्थाता साक्षादपि पुरन्दरः ॥
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः ।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥
भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोलपम् ।
प्रधक्ष्यतो रणमुखे केऽतिष्ठन्नग्रतो नराः ॥
काल्यमानांस्तु पुत्रान्मे दृष्ट्वा भीमस्य संयुगे ।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥
न मेऽर्जुनाद्भयं तादृक्कृष्णान्नापि च सात्वतात् ।
हुतभुग्जन्मनो नैव यादृग्भीमाद्भयं मम ॥
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥
सञ्चय उवाच ।
तथा तु नर्दमानं तं भीमसेनं महाबलम् ।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली ॥
व्याक्षिपन्सुमहच्चापमतिमात्रममर्षणः ।
कर्णः सुयुद्धमाकाङ्क्षन्दर्शयिष्यन्बलं मृधे ॥
रुरोध मार्गं भीमस्य वातस्येव महीरुहः ।
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम् ॥
चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान् ।
तान्प्रत्यगृह्णात्कर्णोऽपि प्रतीपं प्रापयच्छरान् ॥
ततस्तु सर्वयोधानां यतनां प्रेक्षतां तदा ।
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ॥
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ।
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे ॥
खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः ।
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ॥
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ।
शस्त्राणि न्यपतन्दोर्भ्यः केषाञ्चिच्चासवोऽद्रवन् ॥
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
वाहनानि च सर्वाणि बभूवुर्विमनांसि च ॥
प्रादुरासन्निमित्तानि घोराणि सुबहून्युत ।
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम् ॥
तस्मिन्सुतुमुले राजन्कर्णभीमसमागमे ।
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ॥
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ।
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे ॥
सायकानां चतुः षष्ट्या क्षिप्रकारी महायशाः ।
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ॥
असम्प्राप्तांश्च तान्भीमः सायकैर्नतपर्वभिः ।
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥
तं कर्णश्चादयामास शरव्रातैरनेकशः ।
सञ्छाद्यमानः कर्णेन बहुधा पाण़्डुनन्दनः ॥
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः ।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥
अथान्यद्धनुरादाय सञ्यं कृत्वा च सूतजः ।
विव्याध समरे भीमं भीमकर्मा महारथः ॥
तस्य बीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः ।
निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः ॥
तैः कर्णोऽराजत शरैरुरोमध्यगतैः सदा ।
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकधातवः ॥
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः ।
आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः ॥
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः । स शरैरर्दितस्तेन कर्णेन दृढधन्विना ।
धनुर्ज्यामच्छिनत्तूर्णं भीमस्तस्य क्षुरेण ह ॥
सारथिं चास्य भल्लेन रथनीडादपातयत् ।
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः ॥
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशाम्पते ।
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात् ॥
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।
ननाद बलवान्नादं पर्जन्यनिनदोपमम् ॥
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः ।
कर्णं पराजितं मत्वा भीमसेनेन संयुगे ॥
समन्ताच्छङ्खनिनदं पाण्डुसेनाऽकरोत्तदा ।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यनदन्भृशम् ॥
स शङ्खबाणनिनदैर्हर्षाद्राजा स्ववाहिनीम् ।
चक्रे युधिष्ठिरः सङ्ख्ये हर्षनादैश्च सङ्कुलाम् ॥
गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत्
तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः ।
अश्रूयत तदा राजन्सर्वसैन्येषु दारुणः ॥
ततो व्यायच्छतामस्त्रैः पृथक्पृथगजिह्मगैः ।
मृदुपूर्वं तु राधेयो दृढपूर्वं तु पाण्डवः ॥
`भीमोऽपि च महाराज वैकर्तनमुपाद्रवत् ।
आसुरे तु महासैन्ये तारकं पावकिर्यथा ॥
तयोरेवं महद्युद्धमभवद्भीमकर्णयोः ।
तं भीमसेनो महता शरवर्षेण वारयन् ॥
विव्याध सारथिं चास्य हयांश्च चतुरः शरैः । ध्वजं चास्य पताकां च भल्लैः सन्नतपर्वभिः ।
रथं च चक्ररक्षौ च भीमश्चिच्छेद मारिष ॥
कर्णोऽपि रथिनां श्रेष्ठो भीमसेनेन कम्पितः ।
खङ्गचर्मधरो राजन्भीममभ्यद्रवद्बली ॥
भीमश्चिच्छेद खङ्गं च चर्मणा सह मारिष ॥
दृष्ट्वा कर्णं च पार्थेन बाधितं बहुभिः शरैः । दुर्योधनो महाराज दुश्शलं प्रत्यभाषत । कर्णं कृच्छ्रगतं पश्य शीघ्रं यानं प्रयच्छह ॥
सञ्जय उवाच ।
एवमुक्तस्ततो राज्ञा दुश्शलः समुपाद्रवत् ।
दुश्शलस्य रथं कर्णश्चारुरोह महारथः ॥
तौ पार्थः सहसा गत्वा विव्याध दशभिः शरैः ।
पुनश्च कर्णं विद्ध्वाऽपि दुश्शलस्य शिरोऽहरत् ॥
दुश्शलं निहतं दृष्ट्वा भीमसेनेन मारिष ।
तस्यैव धनुरादाय कर्णो विव्याध पाण्डवम् ॥
अन्योन्यं समरे वीरौ युयुधाते महाबलौ ।
शत्रुघ्नौ शत्रुमध्ये तु बलवज्रभृताविव ॥
भीमो विद्धा हयांश्चैव सारथिं च पुनः पुनः ।
कर्णमभ्यद्रवत्पार्थः प्रहसंश्च महाबलः ॥
ततो व्यायच्छमानस्य भीमसेनस्य संयुगे ।
तत्सैन्यं कलिलीभूतं न प्राज्ञायत किञ्चन ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

5-129-1 युयुत्समानस्य व्यापारयतः ॥ 5-129- सावेगं सत्वरम् ॥ 5-129- संरुद्धामेकतामापन्नाम् ॥ 5-129- व्यायच्छतां प्रहरताम् ॥ 5-129- एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

श्रीः