अध्यायः 133

भीमेन कर्णसहकारिणो दुर्जयस्य वधः ॥ 1 ॥

धृतराष्ट्र उवाच ।
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् ।
यत्कर्णं योधयामास समरे लघुविक्रमः ॥
त्रिदशानपि वा युक्तान्सर्वशस्त्रधरान्युधि ।
वारयेद्यो रणे कर्णः सयक्षासुरमानुषान् ॥
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया ।
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ॥
कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे ।
अत्र मन्ये समायत्तो जयो वाऽजय एव च ॥
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः ।
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा ।
भीमसेनेन समरे मोह आविशतीव माम् ॥
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः ।
नहि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय ॥
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह ।
सर्वत्र पाण्डवाः कर्णमजयंस्ते रणाजिरे ॥
अजेयाः पाण्डवास्तात देवैरपि सवासवैः ।
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः ।
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् ।
जितमित्येव मन्वानः पाण्डवानवमन्यते ॥
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना ।
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥
शमकामः ससोदर्यो दीर्घप्रेक्षी युधिष्ठिरः ।
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः ॥
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः ।
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे ।
अयुध्येतां युधांश्रेष्ठौ परस्परवधैषिणौ ॥
सञ्जय उवाच ।
शृणु राजन्यथावृत्तं सङ्ग्रामं कर्णभीमयोः ।
परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव ॥
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिन्दमम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः ।
नातरद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥
तस्यास्यतो धनुर्भीमश्चकर्त विशिखैस्त्रिभिः ।
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो भृशम् ।
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत् ॥
प्रगृह्य च महाशक्तिं कालरात्रिमिवापराम् । समुत्क्षिप्य च राधेयः सन्धाय च महाबलः ।
चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम् ।
ननाद सुमहानादं बलवान्सूतनन्दनः ॥
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन् ॥
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ॥
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम् ।
मार्गमाणामिव प्राणान्सूतपुत्रस्य मारिष ॥
प्राहिणोत्कृतसंरम्भः शरान्बर्हिणवाससः ।
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् ।
विकृष्य तन्महच्चापं व्यसृजत्सायकांस्तदा ॥
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः । वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ।
छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम् ॥
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ ।
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥
महागजाविवसाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम् ।
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः ।
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष । शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ।
सारथिं च तथाप्यस्य रथनीडादपातयत् ॥
ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम् । स च्छाद्यमानः समरे हताश्वो हतसारथिः ।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः ।
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः ।
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ॥
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः ।
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरैः ॥
स भीमं नवभिर्बाणैरश्वानष्टभिरार्दयत् ।
षङ्भिः सूतं त्रिभिः केतं पुनस्तं चापि सप्तभिः ॥
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः ।
दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥
बाढं हतं क्षितौ क्षुण्णं वेष्टमानं यथोरगम् ।
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् ।
समाचिनोद्बाणगणैः शतघ्नीभिश्च शङ्कुभिः ॥
तथाप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः ।
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥

5-133-4 प्राणदुरोदरे प्राणद्युते ॥ 5-133-133 त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥

श्रीः