अध्यायः 139

भीमकर्णयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
ततः कर्णो महाराज भीमं विद्धा त्रिभिः शूरैः । `पुनश्च षड््भिस्तीक्ष्णाग्रैरविध्यत्कङ्कपत्रिभिः' ।
मुमोच शरवर्षाणि विचित्राणि बहूनि च ॥
वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः ।
न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥
स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।
विव्याध सुभृशं सङ्ख्ये तैलधौतेन मारिष ॥
स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि ।
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे ।
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः ॥
पुनरस्य त्वरन्भीपो नाराचान्दश भारत ।
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान् ॥
ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत ।
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥
ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत ।
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा ॥
सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना ।
रथकूबरमालम्ब्य न्यमीलयत लोचने ॥
स मुहूर्तात्पुनः संज्ञां लेभे कर्णः परन्तपः ।
रुधिरोक्षितसर्वाङ्गः क्रोधमाहारयत्परम् ॥
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना ।
वेगं चक्रे महावेगो भीमसेनरथं प्रति ॥
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् ।
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ।
समरे तमनादृत्य तस्य वीर्यमचिन्तयन् ॥
कर्णस्ततो महाराज पाण्डवं नवभिः शरैः ।
आजघानोऽसि क्रुद्धः क्रुद्धरूपं परन्तप ॥
तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ । `शरदंष्ट्रौ समासाद्य ततक्षतुररिन्दमौ' ।
जिमूताविव चान्योन्यं प्रववर्षतुराहवे ॥
तलशब्दरवैश्चैव त्रासयेतां परस्परम् ।
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे ॥
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ।
ततो भीमो महाबाहुः सूतपुत्रस्य भारत ॥
क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा ।
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः ॥
अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम् ।
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः ॥
तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि ।
सप्तमं चाष्टमं चैव नवमं दशमं तथा ॥
एकादशं द्वादशं च त्रयोधशमथापि च ।
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः ॥
तथा सप्तदशं वेगादष्टादशमथापि वा । बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि ।
निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत ॥
दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम् ।
स वर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥
`रथैर्विमथितैर्भल्लैरश्वैश्चान्यैः प्रवल्गितैः ।
भ्रष्टश्रीकैर्नरवरैः पांसुकुण्ठितमूर्धजैः' ॥
हस्त्यश्वरथदेहांश्च गतासून्प्रेक्ष्य सर्वशः ।
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥
स विष्फार्य महच्चापं कार्तस्वरविभूषितम् ।
भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा ॥
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरो चत ।
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥
मरीचिविकचस्येव राजन्भानुमतो वपुः ।
आसीदाधिरथेर्घोरं वपुः शरशताचितम् ॥
कराभ्यामाददानस्य सन्दधानस्य चाशुगान् ।
कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे ॥
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् ।
कर्णस्यासीन्महीपाल सव्यं दक्षिणमस्यतः ॥
स्वर्णपुङ्खाः सुनिशिताः कर्मचापच्युताः शराः ।
प्राच्छादयन्महाराज दिशः सूर्य इवांशुभिः ॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥
बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः ।
श्रेणीकृता व्यरोचन्त राजन्क्रौञ्चा इवाम्बरे ॥
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् ।
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः ।
अजस्रमपतन्बाणा भीमसेनरथं प्रति ॥
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः ।
शलभानामिव व्राताः शराः कर्णसमीरिताः ॥
चापादाधिरथेर्मुक्ताः प्रपतन्तश्चकाशिरे ।
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः ॥
पर्वतं वारिधाराभिच्छादयन्निव तोयदः ।
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥
तत्र भारत भीमस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः ॥
तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशाम्पते । आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ।
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः ।
गगने रचिता माला काञ्चनीव व्यरोचतं ॥
ततो व्योम्नि विषक्तानि शरजालानि भागशः ।
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः । अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ।
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥
न स्म सूर्यस्तदा भाति न स्म वाति समीरणः ।
शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन ॥
स भिमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः ।
उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥
तयोर्विसृजतोस्तत्र शरजालानि मारिष ।
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥
अन्योन्यशरसंसम्पर्शात्तयोर्मनुजसिंहयोः ।
आकाशे भरतश्रेष्ठ पावकः समजायत ॥
तथा कर्णः शितान्बाणान्कर्मारपरिमार्जितान् ।
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ।
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ।
अमर्षी बलवान्क्रुद्धौ दिधक्षन्निव पावकः ॥
ततश्चटचटाशब्दो गोधाघातादभूत्तयोः ॥
तलशब्दश्च सुभहान्सिंहनादश्च भैरवः ।
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः ॥
योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम् ।
कर्णपाण्डवयो राजन्परस्परवधैषिणोः ॥
देवर्षिसिद्धगन्धर्वाः साधुसाध्वित्यपूजयन् ।
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा ॥
ततो भीमो महाबाहुः संरम्भी दृढविक्रमः ।
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम् ॥
कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः ।
प्राहिणोन्नव नाराचानाशीविषसमान्रणे ॥
तावद्भिरथ तान्भीमो व्योम्नि चिच्छेद पत्रिभिः ।
नाराचान्सूत पुत्रस्य तिष्ठतिष्ठेति चाब्रवीत् ॥
ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम् ।
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम् ॥
तमापतन्तं चिच्छेद राधेयः प्रहसन्निव ।
त्रिभिः शरैः शरं राजन्पाण्डवस्य प्रतापवान् ॥
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः । तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् ।
युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया ॥
तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः । रश्मीन्योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे ।
तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः ।
सोपसृत्य द्रुतं सूतो युधामन्यो रथं ययौ ॥
विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः ।
ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत् ॥
स विधन्वा महाबाहुरथ शक्तिं परामृशत् ।
तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥
तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम् ।
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥
साऽपतद्दृशधा छिन्ना कर्णस्य निशितैः शरैः ।
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्जयं मरणमेव वा ॥
तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम् ।
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत ॥
स विचर्मा महाराज विरथः क्रोधमूर्च्छितः ।
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥
स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः ।
पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात् ॥
ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम् ।
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥
व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया ।
सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान् ॥
स वध्यमानो बलवान्कर्णचापच्युतैः शरैः ।
वैहायसं प्राक्रमद्धै कर्णस्य रथमाविशत् ॥
स तस्य चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः ।
ध्वजालयस्थो राधेयो भीमसेनमवञ्चयत् ॥
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् ।
ध्वजमस्य समारुह्य तस्मै भीमो महीतले ॥
तदस्य कुरवः सर्वे चाणाश्चाभ्यपूजयन् ।
यदियेष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम् ॥
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥
तद्विचिन्त्य स राधेयस्तत एनं समभ्ययात् ।
संरम्भात्पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ॥
तौ समेतौ महाराज स्पर्धमानौ महाबलौ ।
जीमूताविव घर्मान्ते गर्जमानौ नरर्षभौ ॥
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः । दृष्ट्वाऽर्जुनहतान्नागान्पतितान्पर्वतोपमान् ।
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च ।
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यवर्तत ॥
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् ।
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥
महौषधिसमायुक्तं हनूमानिव पर्वतम् ।
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ॥
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः ।
चक्राण्यश्चांस्तथा चान्यद्यद्यत्पश्यति भूतले ॥
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ।
तदस्य सर्वं चिच्छेद क्षिप्तंक्षिप्तं शितैः शरैः ॥
भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भं सुदारुणम् ।
हन्तुमैच्छत्सूतपुत्रं संस्परन्नर्जुनं क्षणात् ॥
शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः ।
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना ॥
तमेवं व्याकुलं भीमं भूयोभूयः शितैः शरैः ।
मूर्च्छयाभिपरीताङ्गमकरोत्सूतनन्दनः ॥
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ।
धनुषोग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत् ॥
धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन् ।
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत् ॥
ताडितो भीमसेनेन क्रोधादारक्तलोचनः ।
विहसन्निव राधेयो वाक्यमेतदुवाच ह ॥
पुनः पुनस्तूबरक मूढ औदरिकेति च ।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव ।
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन ॥
मूलपुष्पफलाहारो व्रतेषु नियमेषु च ।
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥
क्व युद्वं क्व मुनित्वं च वनं गच्छ वृकोदर ।
न त्वं युद्धोचितस्तात वनवासरतिर्भवान् ॥
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् ।
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥
मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते ।
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥
फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने ।
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥
`सञ्जय उवाच ।
एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णोऽब्रवीद्वचः' ॥
कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते ।
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम् ॥
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः ।
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥
योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः ।
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥
गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे ।
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥
सञ्जय उवाच ।
कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम् ।
उवाच कर्णं प्रहसन्सर्वेषां शृण्वतां वचः ॥
जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथात्मना ।
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः ॥
मल्लयुद्धं मया सार्धं कुरु दुष्कुलसम्भव । महाबलो महाभोगी कीचको निहतो यथा ।
तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु ॥
भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः ।
विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम् ॥
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थयत् ।
प्रसुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥
तं ब्रुवाणं तु भीमः स काङ्क्षन्भीमपराक्रमः ।
न चाकार्षीन्मृतं स्मृत्वा ह्यर्जुनस्य महाबलम् ॥
तस्य कार्मुकमारुज्य बभञ्जाशुपराक्रमी ॥
ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः ।
अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम् ॥
सञ्जय उवाच ।
एवमुक्तस्तदा पार्थः केशवेन महात्मना । भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः ।
अमर्षवशमापन्नो निर्दहन्निव चक्षुषा' ॥
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः ।
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥
ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः ।
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥
स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः ।
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ॥
स च्छिन्नधन्वा भीमेन धनञ्जयशराहतः ।
कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः ।
अन्वयाद्धातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ॥
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्चयः ।
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥
स गरुत्मानिवाकशे प्रार्थयन्भुजगोत्तमम् ।
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा ।
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः ॥
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः ।
शिलीमुखैर्महाराज मागास्तिष्ठेति चाब्रवीत् ॥
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् ।
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ॥
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे ।
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥
धनञ्जयस्तथाऽऽयान्तं पृष्ठतो द्रौणिमभ्यगात् ।
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ॥
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् ।
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् ।
पाकशासनिरायत्तः पार्थः स निजघान ह ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

5-139-46 उपारोहत्सन्निकर्षमगात् ॥ 5-139-47 वायुभूतानि वातोद्भूतान्यतिवेगवन्ति वा ॥ 5-139-74 वैहायसमाकाशम् ॥ 5-139-75 लयमङ्गसङ्कोचम् ॥ 5-139-87 तद्रथादिसाधनम् ॥ 5-139-88 वज्रगर्भमन्तर्विहिताङ्गुष्ठम् ॥ 5-139-89 समर्थः समीचीनार्थो धर्मापेक्षीति यावत् ॥ 5-139-94 तूबरकः पुंश्चिह्नरहितः षण्ड इतियावत् । तूबरोऽश्मश्रुपुरुषे इत्युपक्रम्य पुरुषव्यञ्जनत्यक्तो इति मेदिनी । औदरिको बह्वाशी ॥ 5-139-96 व्रतेषु नियमेषु आगन्तुकेषु ॥ 5-139-103 संलीनं सङ्कुचिताङ्गम् ॥ 5-139-110 व्यकत्थयत् भर्त्सितवान् ॥ 5-139-139 एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥

श्रीः