अध्यायः 142

सात्यकिभूरिश्रवसोर्युद्धम् ॥ 1 ॥ सात्यकिशिरच्छेदायोन्नमितस्य स्वङ्गभृतो भूरिश्रवोभुजस्यार्जुनेन सञ्छेदः ॥ 2 ॥

सञ्जय उवाच ।
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् ।
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥
तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम् ।
अद्य प्राप्तोऽपि दिष्ट्या मे चक्षुर्विषयमित्युत ॥
चिराभिलषितं काममहं प्राप्स्यामि संयुगे ।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् ।
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले ।
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया ।
सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः ।
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥
चिराभिलषितो ह्येष त्वया सह समागमः ।
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥
अद्य युद्धं महाघोरं तव दास्यामि सात्वत ।
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥
अद्य संयमनीं याता मया त्वं निहतो रणे ।
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह ॥
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव ।
हते त्वयि निरुत्साहारणं त्यक्ष्यन्त्यसंशयम् ॥
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः ।
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥
मच्चक्षुर्विषये प्राप्तो न त्वं माधव मोक्ष्यसे ।
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥
सञ्जय उवाच ।
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव ।
कौरवेय न सन्त्रासो विद्यते मम संयुगे ॥
नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम् ।
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् ॥
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ।
किं वृथोक्तेन बहुना कर्मणा तत्समाचर ॥
शारदस्येव मेघस्य गर्जितं निष्फलं हिते ।
श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते ॥
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव । त्वरते मे मतिस्तात तव युद्धाभिकाङ्क्षिणी ।
नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम ॥
सञ्जय उवाच ।
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ ।
जिघांसू परमक्रुद्धभिजघ्नतुराहवे ॥
समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे ।
द्विरदाविव सङ्क्रुद्धौ वासितार्थे मदोत्कटौ ॥
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ ।
शरवर्षाणि घोराणि मेघाविव परस्परम् ॥
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः ।
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् ।
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवं ॥
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते ।
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥
तौ पृथक्शस्त्रवर्षाभ्यामवर्षेतां परस्परम् ।
उत्तमाभिजनौ वीरौ कुरुवृष्मियशस्करौ ॥
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् ।
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ ।
परस्परमयुध्येतां वारणाविव यूथपौ ॥
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ ।
यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः ॥
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् ।
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥
सम्प्रैक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती ।
यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥
`भूयोभूयः शरै राजंस्तक्षन्तौ क्रोधमूर्च्छितौ ।
अयुध्येतां महारङ्गे वने केसरिणाविव ॥
मर्मज्ञाविव सङ्क्रुद्धौ जिघांसन्तौ जगर्जतुः ।
विमर्दन्तावथान्योन्यं बलवज्रधराविव ॥
अथान्योन्यं पताकाश्च रथोपकरणानि च ।
सञ्चिच्छिदतुरायान्तौ बाणैः सन्नतपर्वभिः ॥
पुनश्च शरवर्षाभ्यामन्योन्यमभिवर्षताम् ।
उभौ तु जघ्नतुस्तूर्णमितरेतरसारथी' ॥
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च ।
विरथावसियुद्धाय समेयातां महारणे ॥
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ।
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः । मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ।
सखङ्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ ॥
भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
सम्पातं समुदीर्णं च दर्शयन्तौ यशस्विनौ ॥
असिभ्यां सम्प्रजहाते परस्परमरिन्दमौ ।
उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः ॥
दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा ।
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम् ॥
मुहूर्तमिव राजेन्द्र समाहत्य परस्परम् ।
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥
असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप ।
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जेतामायसैः परिधैरिव ॥
तयो राजन्भुजाघातनिग्रहप्रग्रहास्तथा ।
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥
तयोर्नृवरयो राजन्समरे युध्यमानयोः ।
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ ।
भुजयोक्रावबन्धैश्च शिरोभ्यां चावघातनैः ॥
पादावकर्षसन्धानैस्तोमराङ्कशलासनैः ।
पादोदरविबन्धैश्च भूमावुद्धमणैस्तथा ॥
गतप्रत्यागताक्षेपैः पातनोत्थानसम्पुतैः ।
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ॥
द्वात्रिंशत्कारणानि स्युर्यानि युद्धानि भारत ।
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ ॥
क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः ।
पश्यस्वैनं विरथं युध्यमानं रणे वरं सर्वधनुर्धराणाम् ॥
`सिन्धुराजवधे सक्तं पार्थं कृष्णोऽब्रवीत्पुनः ।
सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च' ॥
प्रविष्टो भारतीं भित्त्वा तव पाण्डव पृष्ठतः ।
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥
धार्तराष्ट्राश्च ये मुख्या ये च मुख्या महारथाः ।
निहता वृष्णिवीरेण शतशोऽथ सहस्रशः ॥
परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः ।
युद्धाकाङ्क्षी समायान्तं नैतत्सममिवार्जुन ॥
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः ।
उद्यम्याभ्याहनद्राजन्मत्तो मत्तमिव द्विपम् ॥
ततो जलदनिर्घोषः समीपे नृपसत्तम । हाहाकारो महानासीत्सैन्यानां भरतर्षभ ।
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः ।
केशवार्युनयो राजन्समरे प्रेक्षमाणयोः ॥
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत ।
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् ।
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम् ॥
न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन ।
त्वत्कृते पुरुषव्याघ्र तदाऽऽशु क्रियतां विभो ॥
सञ्जय उवाच ।
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः ।
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः । पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् ।
महाद्विपेनेव वने मत्तेन हरियूथपम् ॥
`मामेव च महाबाहो परियान्ति महारथाः ।
यथाशक्ति यतन्तो मां योधयन्तो जनार्दन ॥
ध्रुवं च योधयाम्येताञ्छिद्रान्वेषणतत्परान् ।
रक्षामि सात्यकिं चैव सौमदत्तिवशं गतम् ॥
अप्राप्तोऽयं मया कृष्म हन्तुं भूरिश्रवा रणे ।
अन्येन तु समासक्तं मम नोत्सहते मनः ॥
अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम् ।
मदर्थं युध्यमानस्य कार्यं प्राणैरपि प्रभो ॥
अधर्मो वाऽस्तु धर्मो वा मम माधव माधवः ।
परेण निहतो मा स्म प्राणान्हासीन्महारथः ॥
सञ्जय उवाच ।
एवमुक्त्वाऽर्जुनः कृष्णं परानाशु शितैः शरैः ।
छादयामास सङ्क्रुद्धः परे चापि धनञ्जयम् ॥
एवं स्म युध्यते वीरः सात्यकिं च मुहुर्मुहुः ।
प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसमेव च' ॥
तथा तु कृष्यमाणं तं दृष्ट्वा सात्यकिमाहवे ।
वासुदेवस्तदा वाक्यं भूयोऽप्यर्जुनमब्रवीत् ॥
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवंशं गतम् ।
तव शिष्यं महाबाहो धनुष्यनवमं त्वया ॥
अनित्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे ।
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥
`बहुभिर्महारथैरेष पराक्रान्तैर्युयुत्सुभिः ।
युद्ध्वा भृशं परिश्रान्तः क्षीणायुधरपरिच्छदः' ॥
सञ्जय उवाच ।
एवमुक्तो महाराज वासुदेवेन पाण्डवः ।
मनसा पूजयामास भूरिश्रवसमाहवे ॥
विकर्षन्सात्वतां श्रेष्ठं क्रीडमान इवाहवे ।
स हर्षयति मां भूयः कुरूणां नन्दिवर्धनः ॥
प्रवरं वृष्णिवीराणां यन्निहन्त्येष सात्यकिम् ।
महाद्विपमिवारण्ये कर्षन्निव हरिर्भृशम् ॥
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् ।
`अयुध्यतारिभिर्वीरस्तं च सम्प्रेक्षते मुहुः' ॥
अथ कोशाद्विनिष्कृष्य खङ्गं भूरिश्रवाः शितम् । मूर्धजेषु च जग्राह पदा चोरस्याताडयत् ।
`आक्रम्य चाप्यथोद्यम्य सहासिं सुभुजो भुजम् ॥
शुशुभे स भुजस्तस्य तपनीयविभूषणः ।
मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः ॥
हाहाकृतमभूत्सर्वं पाण्डवानां महद्बलम् ।
तावकाश्च मुदा युक्ताः सिंहनादं विचुक्रुशुः ॥
निमीलिताक्षास्त्वभवञ्जनाः सङ्ग्रामभीरवः ।
तथा भूरिश्रवोग्रस्ते सात्वते नष्टविक्रमे ॥
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ।
सैन्धवे सक्तदृष्टित्वान्न तं पश्यामि माधवम् ॥
एष त्वसुकरं कर्म यादवार्थे करोम्यहम् । मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः ।
तं कृष्ण मोक्षयिष्यामि दावात्सिंहशिशुं यथा' ॥
सञ्जय उवाच ।
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः ।
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत् ॥
पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता ।
सखङ्गं यज्ञशीलस्य बाहुं दक्षिणमच्छिनत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

5-142-2 उतात्यर्थम् ॥ 5-142-16 शाश्वतीः समाः सर्वकालम् । तुरवधारणे । नित्यमेव असौ हन्यात् । जय एव तस्येत्यर्थः ॥ 5-142-29 ब्रह्मलोकपुरस्कृतौ ब्राह्मणसमूह सत्कृतौ ॥ 5-142-45 भुजाघातो भुजस्फोटः । निग्रहो हस्तधारणम् । प्रग्रहो गलहस्तकः ॥ 5-142-47 भुजयोक्त्रावबन्धैर्बाहुपाशवेष्टनैः । अवघातनैस्ताडनैः ॥ 5-142-48 पादशब्दः प्रत्येकं सम्बध्यते । पादावकर्षैश्चरणावकर्षणैः । पादसन्धानैश्चरणच्छन्दितकैः । तोमरैरतिस्फोटनैः । अङ्कुशैरवलुञ्चनैः । पादोदरविबन्धैः पादाभ्यामुदरक्रोडीकरणैः । उद्भ्रमणैः परिवर्तनैः ॥ 5-142-49 गतैर्गमनैः प्रत्यागतैरावर्तनैः । आक्षेपैरास्फालनैः । पातनैर्भूमिप्रापणैः उत्थानैः उत्पतनैः । सम्प्लुतैः विष्फारानुबन्धैः ॥ 5-142-55 समर नुरूपम् ॥ 5-142-56 अभ्याहनदास्फालितवान् ॥ 5-142-142 द्विचत्वारिशदधिकशततमोऽध्यायः ॥

श्रीः