अध्यायः 143

अर्जुनच्छिन्नभुजस्य भूरिश्रवसः तदुपालम्भपूर्वकं प्रायोपवेशः ॥ 1 ॥ सात्यकिना भूरिश्रवश्शिरश्छेदः ॥ 2 ॥

सञ्जय उवाच ।
स बाहुर्न्यपतद्भूमौ सखङ्गः सशुभाङ्गदः । आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः ।
`यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा' ॥
प्रहरिष्यन्हृतो बाहुरदृश्यते किरीटिना ।
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।
उत्सृज्य सात्यकिं क्रोधाद्ग्रर्हयामास पाण्डवम् ॥
`स विबाहुर्महाराज एकपक्ष इवाण्डजः । एकचक्रो रथो यद्वद्धरणीमास्थितो नृपः ।
उवाच पाण्डवं चैव सर्वक्षत्रस्य पश्यतः ॥
भूरिश्रवा उवाच ।
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि ।
अपश्यतो विषक्तस्य यन्मे त्वं बाहुमच्छिनः ॥
येषु येषु नरः पार्थ वर्तते सुसमाहितः ।
आशु तच्छीलतामेति तदिदं दृश्यते त्वयि ॥
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ॥
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥
ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि ॥
न प्रमत्ताय भीताय विरथाय प्रयाचते ।
व्यसने वर्तमानाय प्रहरन्ति मनीषिणः ॥
इदं तु नीचाचरितमसत्पुरुषसेवितम् ।
कथमाचरितं पार्थ पापकर्म सुदुष्करम् ॥
आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय ।
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि ॥
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चारितव्रतः ॥
`अल्पस्तवापराधोऽत्र न त्वां तात विगर्हये ।
वार्ष्णेयापशदं प्राप्य क्षुद्रं कृतमिदं त्वया' ॥
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥
को हि नाम प्रमत्ताय परेण सह युध्यते ।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥
व्रात्याः सङ्क्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः ।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥
सञ्जय उवाच ।
एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत् । व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः ।
अनर्थकमिदं सर्वं यत्त्वया व्याहृतं प्रभो ॥
जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम् ।
सङ्गामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः ॥
न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे ॥
युध्यन्ते क्षत्रियाः शत्रून्स्वैःस्वैः परिवृता नराः । भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः ।
वयस्यैरथ मित्रैश्च स्वबाहुबलमाश्रिताः ॥
स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च ।
अस्मदर्थे च युध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान् ॥
मम बाहुं रणे राजन्दक्षिणं युद्धदुर्मदम् ।
*त्वया निकृष्यमाणं च दृष्टवानस्मि निष्क्रियम् ॥
न च त्वं रक्षितव्यो हि एको रणगतेन हि । यो यस्य युध्यतेऽर्थाय संरक्ष्यो नराधिप ।
तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे ॥
यद्यहं सात्यकिं दृष्ट्वा तूष्णीमासिष्य आहवे ।
ततस्तेन वियोगश्च प्राप्यं नरकमेव च ॥
रक्षितव्यो मया यस्मात्तस्माल्लब्धो मया स च ।
यशश्चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात् ॥
यच्च मां गर्हसे राजन्कृष्णेन सह सङ्गतम् ।
कस्तेन सङ्गमं नेच्छेत्तत्र ते बुद्धिविभ्रमः ॥
आबद्धकवचस्येह रथमारुह्य तिष्ठतः ।
सर्वायुधैरुपेतस्य प्रतियोद्धृप्रतीक्षिणः ॥
अस्मिन्रथगजानीके हयपत्तिसमाकुले ।
सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे ॥
स्वैश्चापि समुपेतस्य विक्रान्तस्य तथा रणे ।
सात्यकेन कथं योग्यः सङ्ग्रामस्ते भविष्यति ॥
बहुभिः सह सङ्गम्य निर्जित्य च महारथान् । श्रान्तश्च श्रान्तवाहश्च क्षीणसर्वायुधस्त्वया ।
समेतः सात्यकिः सङ्ख्ये निर्जितश्च महारथः ॥
ईदृशं सात्यकिं सङ्ख्ये निर्जित्य च महारथम् ।
अधिकत्वं विजानीपे स्ववीर्यवशमागतम् ॥
इच्छसि त्वं शिरस्तस्य असिना हर्तुमाहवे । तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति ।
एकस्यैकेन हि कथं सङ्ग्रामः सम्भविष्यति ॥
त्वं तु गर्हय चात्मानं स्वधर्मं यो न रक्षसि ।
कथं रक्षिष्यसे वीर ये वै त्वां संश्रिता जनाः ॥
आत्तशस्त्रस्य हि रणे वृष्णिपुत्रं जिघांसतः ।
छिन्नवान्यदहं बाहुं नैतल्लोकविगर्हितम् ॥
न्यस्तशस्त्रस्य हि पुनर्विकलस्य विवर्मणः ।
अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत् ॥
सञ्जय उवाच ।
एवमुक्तो महार्बाहुर्यूपकेतुर्महायशाः ।
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत् ॥
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः ।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥
ततस्ते सर्वसेनासु जनाः कृष्णधनञ्जयौ ।
गर्हयामासुरप्येतौ शशंसुर्भूरिदक्षिणम् ॥
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् ।
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः ॥
तांस्तथावादिनो राजन्पुत्रांस्तव धनञ्जयः ।
अमूष्यमाणो मनसा तेषां तस्य च भाषितम् ॥
असङ्क्रुद्धमना वाचः स्मारयन्निव भारत ।
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् ।
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥
यूपकेतुं समीक्ष्यैतन्न मां गर्हितुमर्हथ ।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।
`नाभिमन्योर्वधं यूयं गर्हयध्वं कुतस्तदा ॥
दुर्योधनस्य क्षुद्रस्य अप्रमाणे च तिष्ठतः ।
सौमदत्तेरथं साधुः सर्वसाहाय्यकारिणः ॥
अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते ।
ये मे प्रत्यक्षतो वीरा हन्येरन्निति मे मतिः ॥
सात्यकश्च वशं नीतः कौरवेण महात्मना ।
ततो मयैतच्चरितं प्रतिज्ञारक्षणं प्रति ॥
सञ्जय उवाच ।
पुनश्च कृपयाऽऽविष्टो बहु तत्तद्विचिन्तयन् ।
उवाच चैनं कौरव्यमर्जुनः शोकपीडितः ॥
धिगस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः ।
अवस्थामीदृशीं प्राप्तः शरण्यः शरणप्रदः ॥
नातिभारः कृतान्तस्य विद्यते कुरुनन्दन ।
यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापामिमां दशाम् ॥
नात्मनः सुकृतस्यास्य फलं वै नृपसत्तम ।
यत्र त्वं कुरुशार्दूल प्राप्तः पापामिमां दशाम् ॥
रौरवं नरकं भीमं गमिष्यति सुयोधनः ।
यत्कृते नरशार्दूलः प्राप्तः पापामिमां दशाम् ॥
को हि नाम पुमाँल्लोके मादृशः पुरुषोत्तम ।
प्रहरेत्त्वद्विधे त्वद्य प्रतिज्ञा यदि नो भवेत्' ॥
एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत् ।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।
युपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥
अर्जुन उवाच ।
या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे ।
नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥
मया त्वं समनुज्ञातः कृष्णेन च महात्मना ।
गच्छ पुण्यकृतां लोकाञ्छिबिरौशीनरो यथा ॥
वासुदेव उवाच ।
ये लोका मम विमलाः सकृद्विभाता ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः ।
तान्क्षिप्रं व्रज सतताग्निहोत्रयाजि-- न्मत्तुल्यो भव गरुडोत्तमाङ्गयानः ॥
सञ्जय उवाच ।
`धनञ्जये ब्रुवत्येवं घृणया च परिप्लुते ।
अवाङ्मुखा बभूवुश्च सैनिकाः सर्व एव ते ॥
मुहूर्तादिव विश्रम्य सात्यकिः क्रोधमूर्च्छितः ।
अमर्षवशमापन्नः सौमदत्तिनिराकृतः' ॥
उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना ।
सङ्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥
निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम् ।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥
वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।
भीमेन चक्रक्षाभ्यामश्वत्थाम्ना कृपेण च ॥
कर्णेन वृषसेनेन सैन्धवेन तथैव च ।
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम् ॥
प्रायोपविष्टस्य रणे पार्थेन च्छिन्नबाहुनः ।
सात्यकिः कौरवेयस्य खङ्गेनापाहरच्छिरः ॥
नाभ्यनन्दन्त तं सैन्याः सात्यकिं तेन कर्मणा ।
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥
सहस्राक्षसमं चैव सिद्धचारणमानवाः ।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥
अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः ।
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः ॥
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम् ॥
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा ।
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥
`मर्तव्यमेव सर्वेण चरमं पूर्वमेव वा ।
मन्यध्वं मृत इत्येष माभूद्वो बुद्धिलाघवम् ॥
तस्मिन्हते महाबाहौ यूपकेतौ महात्मनि ।
धिगेनमिति चाक्रन्दन्क्षत्रियाः क्रोधमूर्च्छिताः ॥
अन्ये न युक्तमित्येव भवितव्यं तथेति च ।
केचिदासन्विमनसः केचिद्दुःखसमन्विताः' ॥
सात्यकिरुवाच ।
न हन्तव्यो न हन्तव्य इति मन्दाः प्रभाषत ।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥
यदा बालः सुभद्रायाः सुतः शस्त्रनिनाकृतः ।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि । `श्रुत्वा तत्सर्वभावेन गर्हयध्वं न चार्जुनम् ।
शृणुध्वं सर्वमेवेह श्रुत्वा गर्हथ मानवाः' ॥
यो मां निष्पिष्य सङ्ग्रमे जीवन्हन्यात्पदा रुषा ।
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः ।
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम् ॥
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ॥
यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता ।
सखङ्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥
भवितव्यं हि यद्भावि दैवं चेष्टयते हि तत् ।
सोयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥
अपि चापं पुरा गीतः श्लोको वाल्मीकिना भुवि ।
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम ॥
सर्वकालं मनुष्येण व्यवसायवता सदा । पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ।
अनुष्ठितं मया तच्च कस्माद्गर्हथ मूढवत् ॥
सञ्चय उवाच ।
एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः ।
न स्म किंचिदभाषन्त मनसा समपूजयन् ॥
मन्त्रभिपूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य ।
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् ॥
सुनीलकेशं वरदस्य तस्य सूरस्य पारावतलोहिताक्षम् ।
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण ॥
स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य ।
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्त्य धर्मेण परेम रोदसी ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

5-143-5 विषक्तस्यान्यासक्तस्य ॥ 5-143-6 येषुयेषु सत्स्वसत्सु वा ॥ 5-143-* एतदादि 35 त्तमश्लोकपर्यन्तं विद्यमानानां श्लोकानां स्थाने अधोलिखिताः श्लोकाः झ. पुस्तके सन्ति । नचात्मा रक्षितव्यो वै राजन्रणगतेन हि । यो यस्य युज्यतेऽर्थेषु स वै रक्ष्यो नराधिप ॥ 1 ॥ तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे । यद्यहं सात्यकिं पश्ये वध्यमानं महारणे ॥ 2 ॥ ततस्तस्य वियोगेन पापं मेऽनर्थतो भवेत् । रक्षितश्च मया यस्मात्तस्मात्क्रुध्यसि किं मयि ॥ 3 ॥ यच्च मे गर्हसे राजन्नन्येन सह सङ्गतम् । अहं त्वया विनिकृतस्तत्र मे बुद्धिविभ्रमः ॥ 4 ॥ कवचं धुन्वतस्तुभ्यं रथं चारोहतः स्वयम् । धनुर्ज्यां कर्षतश्चैव युध्यतः सह शत्रुभिः ॥ 5 ॥ एवं रथगजाकीर्णे हयपत्तिसमाकुले । सिंहनादोद्भतरवे गम्भीरे सैन्यसागरे ॥ 6 ॥ स्वैः परैश्च समेतेभ्यः सात्वतेन च सङ्गमे । एकस्यैकेन हि कथं सङ्ग्रमः सम्भविष्यति ॥ 7 ॥ बहुभिः सह सङ्गम्य निर्जित्य च महारथान् । श्रान्तश्च श्रान्तवाहश्च विमनाः शस्त्रपीडितः ॥ 8 ॥ ईदृशं सात्यकिं संख्ये निर्जित्य च महारथम् । अधिकत्वं विजानीषे स्ववीर्यवशमागतम् ॥ 9 ॥ यदिच्छसि शिरश्चास्य असिना हन्तुमाहवे । तथा कृच्छ्रगतं चैव सात्यकिं कः क्षमिष्यति ॥ 10 ॥ त्वं वै विगर्हयात्मानमात्मानं यो न रक्षसि । कथं करिष्यसे वीर यो वा त्वां संश्रयेज्जनः ॥ 11 ॥ 5-143-23 दक्षिणं बाहुं तत्स्थनीयम् ॥ 5-143-37 प्रायं आमरणानशनं प्रारब्धवान् ॥ 5-143-38 प्राणानसून् प्राणेषुवायुषु अजुहोदाहितवान् ॥ 5-143-39 प्रसन्नमकल्पमषम् ॥ 5-143-49 स कथं च वधं नीतः इति ङ. पाठः । सः सात्यकिः वधसुद्दिस्येति शेषः ॥ 5-143-52 नातिहारः कृतान्तस्येति ठ.पाठः । अतिहारः परिहारः ॥ 5-143-56 दक्षिणं कृत्तमात्मनः पाणिं अस्यार्जुनस्य समीपे प्राहिणोत् प्रहितवान् ॥ 5-143-60 ये लोका इति श्लोकः झ.घ.ञ. पुस्तकेष्वेवास्ति । सकृद्विभाताः सहप्रकाशाः । गरुडस्योत्तमाङ्गेन पृष्ठेन यानं यस्य ॥ 5-143-64 प्रसक्तमन्यासक्तम् ॥ 5-143-79 क्षेपे निन्दामाम् । जीवन्निति द्वितीयार्थे प्रथमा ॥ 5-143-85 न हन्तव्या इत्यर्थं घ.ङ.झ.ञ. पाठेष्वेवास्ति ॥ 5-143-89 वरदस्यार्थितार्थप्रदातुः । हविर्धानमन्तरेण हविर्गृहस्य मध्ये ॥ 5-143-143 त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥

श्रीः