अध्यायः 009

द्रोणमरणश्राविणो धृतराष्ट्रस्य तद्गुणानुवर्णनपूर्वकं शोचनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
किं कुर्वाणं रणे द्रोणं जघ्रुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥
रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः ।
प्रमत्तो वाऽभवद्दोणो यथा मृत्युमुपेयिवान् ॥
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ॥
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम् ॥
पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम् ।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥
व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः ।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम् ॥
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् ।
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥
न नूनं परदुःखेन म्रियते कोऽपि सञ्जय । यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः ।
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम् ॥
अश्मसारमयं नूर्न हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥
ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः ॥
शोषणं सागरस्येव मेरोरिव विसर्पणम् ।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥
दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता ।
योऽहासीत्कृपणस्यार्थे प्राणानपि परन्तपः ॥
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥
`गुणानां सर्वयोधानां स्थितिरासीन्महाद्युतिः ।
यं मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः' ॥
ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः ।
रथे वातजवा युक्ताः सर्वशस्त्रातिगा रणे ॥
बलिनो हेषिणो दान्ताः सैन्धवाः साधुवाहिनः ।
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ॥
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिःस्वनैः ।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः ॥
ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः ।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥
जातरूपपरिष्करामास्थाय रथमुत्तमम् ।
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः ॥
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः ।
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ॥
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः ।
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम् ॥
उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
पाञ्चालप्रग्रहो द्रोणं सर्वतः समवारयत् ॥
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।
ततो द्रोणं समहरत्पार्षतः पापकर्मकृत् ॥
नह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः ।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥
`उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
उत्सृज्य सर्वसैन्यानि द्रोणं तमभिदुद्रुवे' ॥
तैर्वृतः सर्वतः क्षुद्रैः पाञ्चालापशदैस्ततः ।
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः ॥
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥
योऽधीत्य चतुरो वेदान्साङ्गानाख्यानपञ्चमान् ।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ॥
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत्परन्तपः ।
`दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम् ॥
अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः' ।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥
अमर्षिणा मर्षितवान्क्लिश्यमानान्सदा मया ।
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम् ॥
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ॥
दिवि शक्र इव श्रेष्ठो महासत्वो महाबलः ।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥
क्षिप्रहस्तश्च बलवान्दृढघन्वारिमर्दनः ।
न यस्य विजयाकाङ्क्षी विषयं प्राप्य जीवति ॥
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम् ॥
अदीनं पुरुषव्याघ्रं हीमन्तमपराजितम् ।
तमिष्वासवराचार्ये द्रोणं जघ्नुः कथं रथाः ॥
`नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत ।
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम् ॥
ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः ।
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले ॥
सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान् ।
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून्' ॥
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ।
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत् ॥
के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात् ।
के नु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम् ॥
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥
के च तस्मिंस्तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥
कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन्रणे ।
रक्षितारस्ततः शून्ये कच्चित्तैर्न हतः परैः ॥
न स पृष्ठमरेस्त्रासाद्रणे शौर्यात्प्रदर्शयेत् ।
परामप्यापदं प्राप्य स कथं निहतः परैः ॥
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय । पराक्रमेद्यथा शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ।
`यो यथाशक्ति युद्ध्येत द्विषद्भिःस्वांश्च पालयन् ॥
कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे ।
गोप्तृभिस्तैः समुत्सृष्टः कच्चिन्नैष परैर्हतः ॥
धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम् ।
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा' ॥
मुह्यते मे मनस्तात कथा तावन्निवार्यताम् ।
भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि सञ्जय ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि नवमोऽध्यायः ॥ 9 ॥

5-1-2 अस्यतः शरानिति शेषः ॥ 5-1-17 बलिनस्तेजस्विनः ॥ 5-1-23 महामात्रं प्रधानम् ॥ 5-1-25 पाञ्चालम्प्रग्रहः पाञ्जालः प्रग्रहो बन्धरजुर्यस्य 5-1-27 शुष्मिणस्तेजस्विनः ॥ 5-1-29 अपशदोऽधमः ॥ 5-1-31 आख्यानं पुराणभारतादि ॥ 5-1-9 नवमोऽध्यायः ॥

श्रीः