अध्यायः 144

सञ्जयेन धृतराष्ट्रम्प्रति सात्यकेः भूरिश्रवसा पराभवकारणकथनम् ॥ 1 ॥ तथा यादवानां प्रशंसनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
अजितो द्रोणराधेयविकर्णकृतवर्मभिः । `यश्चैवोत्सहते वेतुं समस्तं मामकं बलम' ।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥
स कथं कौरवेयेण समरेष्वनिवारितः ।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥
सञ्जय उवाच ।
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।
यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥
`ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः' ।
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ॥
बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः ।
पुरूरवस आयुस्तु आयुषो नहुषः सुतः ॥
नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः ।
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ॥
यदोरभूदन्ववाये आजमीढ इति स्मृतः ।
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः ॥
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः । धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि । तद्वार्यश्चापि तत्रैव कुले शिनिरभून्नृप ॥
एतस्मिन्नेव काले तु देवकस्य महात्मनः ।
दुहितः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥
तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै ।
निर्जित्व पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥
तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभः ।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमुद्भतम् ।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः ॥
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।
कृपया च पुनस्तेन स जीवेति विसर्जितः ॥
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।
प्रासादयन्महादेवममर्षवशमास्थितः ॥
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः ॥
पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम् ।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव । एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ।
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ॥
अपातयच्च समरे सौमदत्तिः शिनेः सुतम् ।
पश्यतां सर्वसैन्यानां पदा चैनमताडयत् ॥
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि ।
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः ॥
लब्धलक्ष्याश्च सङ्ग्रामे बहुशश्चित्रयोधिनः । देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो ।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ॥
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे ॥
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः ।
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः ।
समर्थान्नावमन्यन्ते दीनानभ्युद्वरन्ति च ॥
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः ।
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् ।
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो ।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥

5-144-21 परपग्रहाः रिपराधीनाः ॥ 21 ॥ 5-144-27 चक्रं प्रतापः ॥ 5-144-144 चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥

श्रीः