अध्यायः 146

अर्जुनेन कर्णेंप्रति तत्कुतभीमगर्हणातितिक्षया तद्गर्हणपूर्वकं तत्सुतवधप्रतिज्ञा ॥ 1 ॥ कर्णदुर्योधनसंवादः सङ्कुलयुद्धं च ॥ 2 ॥

धृतराष्ट्र उवाच ।
तथा गतेषु शूरेषु तेषां मम च सञ्जय ।
किंस्विद्भीमार्जुनौ चैव सात्यकिश्चाकरोत्तदा ॥
सञ्जय उवाच ।
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः ।
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥
पुनःपुनस्तूबरक मूढ औदरिकेति च ।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय ।
एवं वक्ता च मे वध्यस्तेन चोक्तस्तथा ह्यहम् ॥
एतद्व्रतं महाबाहो त्वया सह कृतं मया ।
तथैतन्मम कौन्तेय यथा तव न संशयः ॥
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम ।
यथा भवति तत्सत्यं तथा कुरु धनञ्जय ॥
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः ।
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ॥
कर्णकर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत ।
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि साम्प्रतम् ॥
द्वावेवं कर्ण शूराणां रणे दृष्टौ जयाजयौ ।
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥
`रणमुत्सृज्य निर्लज्ज गच्छसे च पुनः पुनः । माहात्म्यं पश्य भीमस्य कर्म जन्म कुले तथा ।
नोक्तवान्परुषं यत्त्वां पलायनपरायणम् ॥
भूयस्त्वमपि सङ्गम्यं सकृदेव यदृच्छया ।
विरथं कृतवान्वीरं पाण्डवं सूतदायद ॥
कुलस्य सदृशं चापि राधेय कृतवानसि ।
नैकान्तसिद्धिः सङ्ग्रामे वासवस्यापि विद्यते' ॥
मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः ।
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः ॥
यदृच्छया रणे भीमं युध्यमानं महाबलम् । कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः ।
अधर्मस्त्वेष सुमहाननार्यचरितं च तत् ॥
नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः ।
न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः ॥
त्वं तु प्राकृतविज्ञानस्तत्तद्वदसि सूतज ।
बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम् ॥
युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम् । यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव ।
पश्यतां सर्वसैन्यानां केशवस्य ममैव च ॥
विरथो भीमसेनेन कृतोऽसि बहुशो रणे ।
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः ॥
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः । परोक्षं यच्च सौभद्रो युष्माभिर्बहुभिर्हतः ।
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि ॥
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ।
तस्माद्वध्योऽसि मे मूढ सभृत्यसुतबान्धवः ॥
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ।
हन्ताऽस्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे ॥
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ।
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे ।
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥
सञ्जय उवाच ।
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु ।
महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये ।
मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत् ॥
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् ।
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति ॥
`अमानुषाणि कर्माणि कुर्वन्तौ भरतर्षभ ।
सात्यकिं भीमसेनं च यत्तौ तौ दर्शयन्निव ॥
अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन् ।
यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व ॥
अल्पावशेषो दिवसो हि साम्प्रतं निवारयेहाद्य रिपुं शरौघैः ।
दिनक्षयं प्राप्य नरप्रवीर ध्रुवो हि नः कर्ण जयो भविष्यति ॥
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति ।
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥
अनर्जुनायां च भुवि मुहूर्तमपि मानद ।
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥
पाण्डवेषु विनष्टेषु सशैलवनकाननाम् ।
वसुन्धरामिमां कर्ण भोक्ष्यामो महतकण्टकाम् ॥
दैवेनोपहतः पार्थो विपरीतश्च मानद ।
कार्याकार्यमजानानः प्रतिज्ञां कृतवान्रणे ॥
नूनमात्मविनाशाय पाण्डवेन किरीटिना ।
मिथ्याप्रतिज्ञैव कृता जयद्रथवधं प्रति ॥
कथं जीवति दुर्धर्षे त्वपि राधेय फल्गुनः ।
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ॥
रक्षितं मद्रराजेन कृपेण च महात्मना ।
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ॥
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च ।
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः ।
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः । द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च ।
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष ।
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥
दृढलक्ष्येण वीरेण भीमसेनेन धन्विना ।
भृशं भिन्नतनुः सङ्ख्ये शरजालैरनेकशः ॥
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद । नाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य महेषुभिः ।
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम ॥
`तत्तथा प्रयतिष्येऽहं परं शक्त्याxxxxसुयोधन' ।
यथा पाण्डवमुख्योऽसौ न हनिष्याति सैन्धवम् ॥
न हि मे युध्यमानस्य सायकानस्यतः शितान् ।
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ॥
यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा ।
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥
सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे ।
त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः ॥
अद्य योत्स्येऽर्जुमहं पौरुषं स्वं व्यपाश्रितः ।
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः ।
पश्यन्तु सर्वसैन्यानि दारुणं रोमहर्षणम् ॥
सञ्जय उवाच ।
कर्णकौरवयोरेवं रणे संभाषमाणयोः ।
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥
चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम् ॥
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ।
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः ॥
हस्तिहस्तान्द्विपस्कन्धान्रथाक्षांश्च समन्ततः ।
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् ॥
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च । हयान्वारणमुख्यांश्च पदातींश्च समन्ततः ।
ध्वजांश्छत्राणि चापानि चामराणि शिरांसि च ॥
कक्षमग्निरिवोद्धूतः प्रादहत्तव वाहिनीम् ।
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली ।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः ।
प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥
तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीरसंमताः ।
नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः ॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥
सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् ।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः ॥
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः ।
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ ।
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे ॥
ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान् ।
मुमुचुःसूर्यरश्म्याभाञ्छतशः फल्गुनं प्रति ॥
ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः ।
द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान्रथान् ॥
सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः ।
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयन् ॥
स विद््वा दशभिः पार्थं वासुदेवं च सप्तभिः ।
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन् ॥
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः ।
महता रथवंशेन सर्वतः प्रत्यवारयन् ॥
विष्फारयन्तश्चापानि विसृजन्तश्च सायकान् ।
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥
ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत ।
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।
एकैकं दशभिर्बाणैः सर्वानेव समार्पयत् ॥
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः ।
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥
त एनमभिगर्जन्तो विध्यन्तश्च पुनःपुनः ।
विधुन्वन्तश्च चापानि सर्वतः प्रत्यवारयन् ॥
श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते ।
सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः ॥
त एनमभिनर्दन्तौ विधुन्वाना धनूंषि च ।
सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः ॥
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् ।
धनञ्जयस्य गात्रे तु शूराः परिघबाहवः ॥
`निवार्य ताञ्शरव्रातैर्दिव्यान्यस्त्राणि दर्शयन्' । हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली ।
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः ।
मिषतो भीमसेनस्य सात्वतस्य च भारत ॥
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्राणाजिरे ।
सूतपूत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष ।
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥
तान्कर्णः प्रतिविव्याध षष्ट्याषष्ट्या महारथः ।
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥
तत्राद्भूतमपश्याम सूतपुत्रस्य मारिष ।
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्थवारयत् ॥
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे ।
सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् ।
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ॥
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः । तस्य पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे ।
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ॥
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् ।
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम् ॥
तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम् ।
व्यधमत्सायकैः पार्थः शलभानिव मारुतः ॥
छादयामास च तदा सायकैरर्जुनो रणे ।
पश्यतां सर्पयोधानां दर्शयन्पाणिलाघवम् ॥
वधार्थं चास्य समरे सायकं सूर्यवर्चसम् ।
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ॥
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् ।
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भूवि ॥
कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ।
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ ।
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः ॥
अदृश्यौ च शरौथैस्तौ निघ्न्तावितरेतरम् ।
कर्ण पार्थोऽस्ति तिष्ठत्वं कर्णोऽहं तिष्ठ फल्गुन्न ॥
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तु परस्परम् ।
विध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च ॥
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ।
प्रशस्यामानौ समरे सिद्धचारणपन्नगैः ॥
अयुध्येतां महाराज परस्परवधैषिणौ ।
ततो दुर्योधनो राजंस्तावकानभ्यभाषत ॥
यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ।
निवर्तिष्यति राधेयो न वाऽजित्वाऽद्य फल्गुनं ॥
एतस्मिन्न्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् । आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ।
अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः ॥
सारथिं चास्य भल्लेन रथनीडादपातयत् ।
छादयामास स शरैस्तव पुत्रस्य पश्यतः ॥
सञ्छाद्यमानः समरे हताश्वो हतसारथिः ।
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥
तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा ।
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥
मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः ।
`आवव्रेऽर्जुनमार्गं च शरजालेन भारत' ॥
शारद्वतस्तु विंशत्यं वासुदेवं समार्पयत् ।
धनञ्जयं द्वादशभिराजघान शिलीमुखैः ॥
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः । पृथक्पृथङ््महाराज विव्यधुः कृष्णपाण्डवौ ॥
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः ।
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः । शारद्वतं च विंशत्या विद्व्वा पार्थो ननाद ह ॥
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः ।
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ॥
अथार्जुनः सर्वतो वारुणास्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् ।
तं प्रत्युदीयः कुरुवः पाण्डुपुत्रं रथैर्महार्हैः शरवर्षं सृजन्तः ॥
ततस्तु तस्मिंस्तुमले समुत्थिते सुदारुणे भारतमोहनीये ।
नो मुह्यत प्राप्य स राजपुत्रः किरीटमाली व्यसृजच्छरौघान् ॥
वधप्रेप्सुः सव्यसाची कुरूणां स्मरन्क्लेशान्द्वादशवर्षवृत्तान् ।
गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयः ॥
प्रदीप्तोल्कमभवच्चान्तरिक्षं मृतेषु देहेष्वपतन्वयांसि ।
यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति ॥
ततः किरीटि महता महायशाः शरासनेनास्य शराननीकजित् ।
हयप्रवेकोत्तमनागघूर्णिता-- न्कुरुप्रवीरानिषुभिर्व्यापातयत् ॥
गदाश्च गुर्वीः परिघानयस्मया-- नसींश्च शक्तीश्च रणे नराधिपाः ।
महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः ॥
ततो युगान्ताभ्रसमस्वनं मह-- न्महेन्द्रचापप्रतिमं च गाण्डिवम् ।
चकर्ष दोर्भ्यों विहसन्भृशं ययौ दहंस्त्वहीयान्यमराष्ट्रवर्धनः ॥
स तानुदीर्णान्सरथान्सवारणा-- न्पदातिसङ्घांश्च महाधनुर्धरः ।
विपन्नसर्वायुधजीवितान्रणे चकार वीरो यमराष्ट्रवर्धनान् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षट््चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥

5-146-33 उपहतो मोहितः । विपरीतोऽन्यथाभूतप्रकृतिः ॥ 5-146-41 दृढलक्ष्येण दृढप्रहारेण ॥ 5-146-45 प्रतिष्ठितः अधीनः ॥ 5-146-106 सर्वर्तोदारमस्त्रं इति । क.ख.ट.पाठः । सर्वतः सारमस्त्रं इति ङ. पाठः ॥ 5-146-107 प्राप्य युद्धमिति शेषः ॥ 5-146-110 आस्य समन्ततः क्षिप्त्वा ॥ 5-146-146 षट््चत्वारिंशदधिकचततमोऽध्यायः ॥

श्रीः