अध्यायः 147

अल्पशेषे दिवसे तिरोहिते च जयद्रथे कृष्णेनान्धकारसर्जनेन सूर्यबिम्बपिधानम् ॥ 1 ॥ अदृश्यमाने भानौ जयद्रथे च निःशङ्कमात्मानमाविष्कुर्वति अर्जुनेन कृष्णचोदनया तच्छिरश्छेदः ॥ 2 ॥ कृष्णेनार्जुनम्प्रति जयद्रथशिरः बूतले न निपातनीयमित्युक्ते तेन तम्प्रति तत्कारणकथनप्रार्थना ॥ 3 ॥

सञ्जय उवाच ।
श्रुत्वा निनादं धनुषश्च तस्य विस्पषृमुत्कष्टमिवान्तकस्य ।
शक्राशनिस्फोटसमं सुघोरं विकृष्यमाणस्य धनञ्जयेन ॥
त्रासोद्विग्नं तथोद्धान्तं त्वदीयं तद्बलं नृप । युगान्तवातसङ्क्षुब्धं चलद्वीचितरङ्गितम् ।
प्रलीनमीनमकरं सागराम्भ इवाभवत् ॥
`मध्यन्दिनगतं सूर्यमापतन्तमिवाम्बरे ।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्' ॥
स रणे व्यचरत्पार्थः प्रेक्ष्यमाणो धनञ्जयः ।
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन् ॥
आददानं महाराज सन्दधानं च पाण्डवम् ।
उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात् ॥
[ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम् ।
प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान् ॥
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः ।
प्रदीपाश्च शिखिमुखाः शतशोऽथ सहस्रशः ॥
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः ।
नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम् ॥
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम् ।
अशक्यं मनसाऽप्यन्यैः पाण्डवः सम्भ्रमन्निव ॥
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः ।
नैशं तमोंशुभिः क्षिप्रं दिनादाविव भास्करः ॥
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः ।
आक्षिपत्पल्वलाम्बूनि निदाघार्क इव प्रभुः ॥
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः ।
समाप्लवन्द्विषत्सैन्यं लोकं भागोरिवांशवः ॥
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः ।
हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत् ॥
य एनमीयुः समरे त्वद्योधाः शूरमानिनः ।
शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम् ॥
एवं स मृद्रञ्शत्रूणां जीवितानि यशांसि च ।
पार्थश्चचार सङ्ग्रामे मृत्युर्विग्रहवानिव ॥
स किरीटानि वस्त्राणि साङ्गदान्विपुलान्भुजान् ।
सकुण्डलयुगान्कर्णान्केषाञ्चिदहरच्छरैः ॥
सतोमरान्गजस्थानां सप्रासान्हयसादिनाम् । सचर्मणः पदातीनां रथिनां च सधन्वनः ।
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः ॥
प्रदीप्तोग्रशरार्जिष्मान्बभौ तत्र धनञ्जयः ।
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः ॥
तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम् ।
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम् ॥
निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम् ।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम् ॥
निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः ।
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ॥
दीप्तोग्रसम्भृतशरः किरीटी विरराज ह ।
वर्षास्विवोदीर्णजलः सेन्द्रधन्वाम्बुदो महान् ॥
महास्त्रसंप्लुवे तस्मिञ्जिष्णुना सम्प्रवर्तिते ।
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः ॥
उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः ।
भुजैश्च पाणिनिर्मुक्तैः पाणिभिर्व्यङ्गुलीकृतैः ॥
कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः ।
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः ॥
निकृत्तान्त्रैः कृत्तपादैस्तथाऽन्यैः कृत्तसन्धिभिः ।
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः ॥
मृत्योराघातललितं तत्पार्थायोधनं महत् ।
अपश्याम महीपाल भीरूणां भयवर्धनम् ॥
आक्रीडमिव रुद्रस्य पुराभ्यर्दयतः पशून् ।
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः ॥
क्वजिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता ।
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः ॥
स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम् । किरीटशतसङ्गीर्णा तत्र तत्र समाचिता ।
विराज भृशं चित्रा मही नववधूरिव ॥
मज्जामेदःकर्दमिनीं शोणितौघतरङ्गिणीम् ।
मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम् ॥
शिरोबाहूपलतटां रुग्णक्रोडास्थिसङ्कटाम् ।
चित्रध्वजपताकाढ्यां छत्राचापोर्मिमालिनीम् ॥
विगतासुमहाकायां गजदेहाभिसङ्कुलाम् ।
रथोडुपशताकीर्णां हयसङ्घातरोधसम् ॥
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम् ।
प्रासासिशक्तिपरशुविशिखाहिदुरासदाम् ॥
बलकङ्कुमहानक्रां गोमायुमकरोत्कटाम् ।
गृघ्रोदग्रमहाग्राहां शिवाविरुतभैरवाम् ॥
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः ।
गतासुयोधनिश्चेष्टशरीरशतवाहिनीम् ॥
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव ।
नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम् ॥
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः ।
अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे ॥
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः ।
आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः ॥
ततो रथवरान्राजन्नत्यतिक्रामदर्जुनः ॥]
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः ।
सङ्ग्रामे सम्प्रपश्यामो हंसपङ्क्तिरिवाम्बरे ॥
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः ।
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥
स तान्रथवरान्राजन्नत्याक्रामत्तदाऽर्जुनः ।
मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥
विसृजन्दिक्षु सर्वासु शरानच्युतसारथिः ।
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ॥
भ्रमन्त इव शूरस्य शरव्राताः महात्मनः ।
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥
आददानं महेष्वासं सन्दधानं च सायकम् ।
विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा ॥
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे । आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ।
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥
[सैन्धवाभिमुखं यान्तं योधाः सम्प्रेक्ष्य पाण्डवम् ।
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते ॥
यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे ।
तस्यतस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो ॥
कबन्धसङ्कुलं चक्रे तव सैन्यं महारथः ।
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः ॥
एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा ।
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥
द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः ।
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत् ॥
शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः । सैन्धवं तु चतुःषष्ट्या विद्व्वा सिंह इवानदत् ॥]
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना ।
न चक्षमे सुसङ्क्रुद्धस्तोत्रार्दित इव द्विपः ॥
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् ।
क्रुद्धाशीविषसङ्काशान्कर्मारपरिमार्जितान् ॥
आकर्णपूर्णांश्चिक्षेप फल्गुनस्य रथं प्रति ।
त्रिभिस्तु विद््वा गोविन्दं नाराचैः षड्भिरर्जुनम् ॥
अष्टभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ।
`भूयश्चैवार्जुनं सङ्ख्ये शरवर्षैरवाकिरत्' ॥
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान् । युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ।
सारथेश्च शिरः कायाद्व्वजं च समलङ्कृतम् ॥
स च्छिन्नयष्टिः सुमहान्धनञ्जयशराहतः ।
वराहः सिन्धुराजस्य पपातेन्दुसमप्रभः ॥
आदित्यं प्रेक्षमाणस्तु बीभत्सुः सृक्विणी लिहन् ।
अपश्यन्नान्तरं तस्य रक्षिभिः संवृतस्य वै ॥
अभवक्त्रोधरक्ताक्षो व्यात्तानन इवान्तकः ।
अथाब्रवीद्वासुदेवः कुन्तीपुत्रं धनञ्जयम् ॥
नैव शक्यस्त्वया हन्तुं निर्व्याजं भरतर्षभ । स्रक्ष्याम्यहमुपायं तमादित्यस्यापवारणे । ततोऽस्तं गतमादित्यं मंस्यते सिन्धुराडिह ॥
ततोऽस्य विस्मयः पार्थ हर्षश्चैव भविष्यति ।
आत्मजीवितलाभाच्च प्रतिज्ञायाश्च नाशनात् ॥
अस्तङ्गतमिवादित्यं दृष्ट्वा मोहेन बालिशः ।
न हि शक्ष्यत्यथाऽऽत्मानं रक्षितुं हर्षसम्भवात् ॥
एतस्मिन्नेव काले तु प्रहर्तव्यं धनञ्जय ।
जयद्रथस्य क्षुद्रस्य सविदुर्दर्शनार्थिनः ॥
सञ्जय उवाच ।
एवमुक्त्वा ततः पार्थं क्षिप्रमेवाहरत्प्रभाम् ।
जनार्दनेन सृष्टं वै तम आदित्यनाशनम् ॥
पार्थस्य बलमज्ञानात्तमो दृष्ट्वा सुदुःखितम् ।
अभवंस्तावका योधा हर्षसङ्कुलचेतसः ॥
ते प्रहृष्टा रणे राजन्नपश्यन्सैनिका रविम् ।
उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः ॥
वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् । उन्नमय्य शिरोग्रीवां वीक्षते सूर्यमण्डलम् ।
तस्य शीघ्रं पृषत्केन कायाच्छीर्षमपाहर ॥
केशवेनैवमुक्तः सन्नमर्षाद्रक्तलोचनः ।
उद्बबर्ह शरं तीक्ष्णममरैरपि दुःसहम् ॥
एवं तूणीशयं घोरमिन्द्राशनिसमप्रभम् । वर्मभेदिनमत्यर्थं गन्धमाल्यार्चितं सदा ।
विससर्ज ततस्तूर्णं सैन्धवस्य रथं प्रति ॥
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुनः ।
शकुन्तमिव वृक्षाग्रात्सैन्धवस्याहरच्छिरः ॥
प्रपतिष्यति शीर्षे तु कृष्णोऽर्जुनमथाब्रवीत् । पार्थ पार्थ शिरो ह्येतद्यथा नेयान्महीतलम् ।
तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम् ॥
श्रुत्वा तु वचनं तस्य त्वरमाणोऽस्त्रमायया । तथाऽहरच्छिरस्तस्य शरैरूर्ध्वं धनञ्जयः ।
दुर्हृदामपहर्षाय सुहृदां हर्षणाय च ॥
तिर्यगूर्ध्वमधश्चैव पुनरूर्ध्वमथापि च ।
दीर्घकालमवाक्वैव सम्प्रक्रीडन्निवार्जुनः ॥
तत्सैन्यं सर्वतोपश्यन्महदाश्चर्यमद्भुतम् ।
प्रापयत्स शिरो यस्माद्योधयन्नेव पार्थिवान् ॥
शरैः कन्दुकवत्कृत्वा तस्यालोकाय पाण्डवः ।
स्यमन्तपञ्चकाद्बाह्ये शिरस्तदहरच्छरैः ॥
जयद्रथस्यार्जुनबाणनालं मुखारविन्दं रुधिराम्बुसिक्तम् ।
दृष्टं नरैश्चोपरिवर्तमानं विद्याधरोत्सृष्टमिवैकपद्मम् ॥
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्सपत्नान् ।
यथा तमांस्यभ्युदितस्तमोघ्नः पूर्णां प्रतिज्ञां स समाप्य वीरः ॥
अथाब्रवीत्केशवं पाण्डवेयः कियन्तमध्यवानमिदं हरामि ।
किमर्थमेतन्न निपात्यमुर्व्यां क्व च प्रयातव्यमिदं च शंस । शक्नोम्यहं यत्र भवान्ब्रवीति
तं भूमिदेशं च शिरो विनेतुम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥

5-147-6 कुण़्डलितः पाठो झ. पुस्तक एवास्ति ॥ 5-147-49 कुण्डलितः पाठः झ.पुस्तक एव विद्यते ॥ 5-147-67 उक्ता सृष्टं तमः कर्तृ प्रभामहरदित्यन्वयः ॥ 5-147-68 बलं सैन्यं कर्तृ ॥ 5-147-147 सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 5-147-* अथाब्रवीदित्यादीनां वीक्षते सूर्यमण्डलं इत्यन्तानां श्लोकानां स्थाने अधोलिखिताः श्लोकाः ङ.पुस्तके वर्तन्ते । अनस्तमित आदित्ये अतान्निर्जित्य सैन्धवः । न शक्योहन्तुमित्येवं मन्यमानो जनार्दनः ॥ 1 ॥ सस्मार चक्रं दैत्यारिर्हरिश्चक्रं सुदर्शनम् । तदादिदेश भगवान्स्मृतमात्रमुपस्थितम् ॥ 2 ॥ अस्तं गतमिवादित्यं तमसा च्छादयेति च । तत्तथोक्तं भगवता तमो भूत्वा विशाम्पते ॥ 3 ॥ अन्धं तम इवाज्ञानामादित्यस्याहरत्प्रभाम् । उन्नमय्य शिरोग्रीवामपश्यत्सैन्धवो रविम् ॥ 4 ॥ अथार्जुनं हृषीकेशः शोकपूर्णमथाध्रवीत् । पश्य कौन्तेय सिन्धूनामधिपं पापकारिणम् ॥ 5 ॥ एष तिष्ठति मध्ये वै स्यन्दनस्य धनञ्जय ।

श्रीः