अध्यायः 149

अर्जुनेन निजशराहतिमोहितं कृपम्प्रति शोचनम् ॥ 1 ॥ सार्जुनेन कृष्णेन युधिष्ठिरमेत्य जयद्रथवधकथनम् ॥ 2 ॥ भीमादीनां युधिष्ठिरसमीपसमागमनम् ॥ 3 ॥

धृतराष्ट्र उवाच ।
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना ।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥
`पश्यतां सर्वसैन्यानां मामकानां महारणे ।
अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना ॥
कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे ।
फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः ॥
तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः ।
भ्रातृबिः सहितः सूत किमकार्षीदनन्तरम्' ॥
सञ्जय उवाच ।
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत ।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः ॥
महता शरवर्षेण पाण्डवं समवाकिरत् ।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फल्गुनम् ॥
तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ ।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥
स तथा शरवर्षाभ्यां सुमहद्ध्यां महाभुजः ।
पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च ।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥
तेन नातिभृशं त्रस्तौ विशिखैर्भृशपीडितौ ।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥
अथ शारद्वतो राजन्कौन्तेयशरपीडितः ।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् ।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥
तस्मिन्भग्ने महाराज कृपे शारद्वते युधि ।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥
दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम् । धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत् ।
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत् ॥
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् ।
कुलान्तकरणे पापे जातमात्रे सुयोधने ॥
नीयतां परलोकाय साध्वयं कुलपांसनः ।
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥
तदिदं समनुप्राप्तं वचनं सत्यवादिनः ।
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम् ॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् ।
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा ।
एष शेते रथोपस्थे कृपो मद्बाणपीडितः ॥
अकामयानेन मया विशिखैरर्दितो भृशम् ।
अवसीदन्रथोपस्थे प्राणान्पीडयतीव मे ॥
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च ।
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥
`शरार्दितः स हि मया प्रेक्षमाणो महाद्युतिः' । शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम् ।
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम् ॥
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः ।
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः ।
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् ।
आचार्यं शरवर्षेण रथे सादयता कृपम् ॥
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः ।
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥
तदिदं वचनं साधोराचार्यस्य महात्मनः ।
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥
नमस्तस्मै सुपूज्याय गौतमायापलायिने ।
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम् ॥
सञ्जय उवाच ।
तथा विलपमाने तु सव्यसाचिनि तं प्रति । *ततो राजन्हृष्टीकेशः संङ्गामशिरसि स्थितम् ।
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत् ॥
दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया ।
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः ॥
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत ।
सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् ।
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा ।
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ॥
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः ।
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् ॥
नेदृशं शक्नुयात्कश्चिद्रमे कर्तुं पराक्रमम् ।
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥
एवमेव हते कर्णे सानुबन्धे दुरात्मनि ।
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव ।
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा ॥
अनाश्चार्यो जयस्तेषां येषां नाथोऽसि केशव ।
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः ॥
तवैष भारो धार्ष्णेय तवैव विजयः प्रभो ।
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान् ।
दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥
श्रीकृष्ण उवाच ।
प्रार्थयन्तो जये युद्धे प्रथितं च महद्यशः ।
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः ।
सञ्छिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः ॥
ससत्वा गतसत्वाश्च प्रभया परया युताः ।
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः ॥
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः ।
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ॥
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैर्मकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः ।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥
[अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा ।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ॥
चक्रैः प्रमथितैश्चित्रैरक्षैश्च बहुधा रणे ।
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा ॥
परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा ।
शक्तिभिर्भिण्डिपालैश्च तूणैः शूलैः परश्वथैः ॥
प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च ।
शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा ॥
मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा ।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ ॥
घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि । स्रग्भिश्च नानाभरणैर्बस्त्रैश्चैव महाधनैः ।
अपविद्धैर्बभौ भूमिर्ग्रहैर्द्यौरिव शारदी ॥
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः ।
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम् ॥
इमांश्च गिरिकूटाभान्नागानैरावतोपमान् । क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः ।
दरीमुखैरिव गिरीन्गैरिकाम्बुपरिस्रवान् ॥
तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ ।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान् ॥
गन्धर्वनगराकारान्रथांश्च निहतेश्वरान् ।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन् ॥
निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो ।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान् ॥
पत्तींश्च निहतान्वीर शतशोऽथ सहस्रशः ।
धनुर्भृतश्चर्मभृतः शयानान्रुधिरोक्षितान् ॥
महीमालिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान् ।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान् ॥
निपातितद्विपरथाजिसङ्कुल-- मसृग्वसापिशितसमृद्धकर्दमम् ।
निशाचरश्ववृकपिशाचमोदनं महीतलं नरवर पश्य दुर्दृशम् ॥
इदंमहत्त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोऽभिवर्धनम् ।
शतक्रतौ चापि च देवसत्तमे महाहवे जघ्नुषि दैत्यदानवान् ॥]
सञ्जय उवाच ।
एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने ।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत् ॥
`सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः ।
युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजावुभौ ॥
ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः ।
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः' ॥
स दर्शयन्नेव किरीटिनेऽरिहा जनार्दनस्तामरिभूमिमञ्जसा ।
अजातशत्रुं समुपेत्य पाण्डवं निवेदयामास हतं जयद्रथम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

5-149-9 अजिघांसुर्हन्तमनिच्छन् । आचार्यकं गुरोः सम्मानम् ॥ 5-149-12 अवासीददवसन्नः ॥ 5-149-16 इदं कुलक्षयगुरुद्रोहादिकम् ॥ 5-149-18 शरतल्पगतं शरपञ्जरगतम् ॥ 5-149-22 अभ्यस्तोऽसकृन्निहतः । दशधर्मगतेन दुरवस्थागतेन ॥ 5-149-23 शोचयति शोकं कारयति । एष द्रोणः । भूयोऽधिकं पुत्रवधात् ॥ 5-149-24 उपाकृत्य अधीत्य ॥ 5-149-27 उपाकुर्वन् आध्यापयन् ॥ 5-149-* ततो राजन्हृषीकेश इत्यादि महाप्रभावा बहवस्त्वया तुल्याधिकापि वा इत्यन्ताः सार्धचत्वारः श्लोकाः झ. पुस्तके 146 तमाध्यायस्य 25 तमश्लोकादुपरि विद्यन्ते । 5-149-48 कुण्डलिताः श्लोकाः झ.पुस्तक एव दृश्यन्ते ॥ 5-149-149 एकोनपञ्चाशदधिकशततमोऽध्यायः ॥

श्रीः