अध्यायः 151

सैन्धववधदुःखितेन दुर्योधनेन द्रोणमेत्य आत्मोपालम्भपूर्वकं परिशोचनम् ॥ 1 ॥

सञ्जय उवाच ।
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः ।
[अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये ॥
दुर्मना निःश्वसन्दुष्टो भग्नदंष्ट्र इवोरगः ।
आगस्कृत्सर्वलोकस्य पुत्रस्तेऽर्तिं परामगात् ॥
दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत् ।
जिष्णुना भीमसेनेन सात्वतेन च संयुगे ॥
स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः ।] अमन्यतार्जुनसमो न योद्धा भुवि विद्यते ॥
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च ।
पार्थस्य सम्मखे स्थातुं पर्याप्ता इति मारिष ॥
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् ।
अवधीत्सैन्धवं सङ्ख्ये न च कश्चिदवारयत्् ॥
सर्वथा हतमेवेदं कौरवाणां महद्बलम् ।
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः ॥
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः ।
स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ॥
`परुषाणि सभामध्ये प्रोक्तवान्यो हि पाण्डवान् ।
स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ॥
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् ।
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥
एवं क्लान्तमना राजन्नुपायाद्रोणमीक्षितुम् ।
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् ।
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥
दुर्योधन उवाच ।
पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत् ।
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः ।
पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते ॥
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना ।
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥
अस्मद्विजयकामानां सुहृदामुपकारिणाम् ।
गन्ताऽस्मि कथमानृण्यं गतानां यमसादनम् ॥
ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः ।
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥
सोऽहं कापुरुषः क-त्वा मित्राणां क्षयमीदृशम् ।
अश्वमेधसहस्रेण पावितुं न समुत्सहे ॥
मम लुब्धस्य पापस्य तथा धर्मापचायिनः ।
व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः ।
विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥
योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् ।
शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् ।
किं वक्ष्यति हि दुर्धर्षः समेत्य परलोकजित् ॥
जलसन्धं महेष्वासं पश्य सात्यकिना हतम् ।
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥
काम्भोजं निहतं दृष्ट्वा तथालम्बुसमेव च ।
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥
व्यायच्छन्तो हताः शूरा मदर्थे ये पराङ्मुखाः ।
यतमानाः परं शक्त्या विजेतुमहितान्मम ॥
तेषां गत्वाऽहमानृण्यमद्य शक्त्या परन्तप ।
तर्पयिष्यामि तानेव जलेन यमुनामनु ॥
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर ।
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥
निहत्य तान्रमे सर्वान्पाञ्चालान्पाण्डवैः सह । सान्तिं लब्धाऽस्मि तेषां वा रणे गन्ता सलोकताम्
सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः । हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना ॥ 5-151-30 न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः । श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे ।
भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि ॥
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः ।
कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ॥
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः ।
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥
तादृग्रूपं कृतमिदं मम कार्यं सुहृत्तमैः ।
मोहाल्लुब्धस्य पापस्य जिह्मस्य धनमीहतः ॥
यौ मे युद्धस्य कृत्यस्य जिह्माचारैः समीयतुः । हतो जयद्रथश्चैव सौमदत्तिश्च विर्यवान् ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः ।
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना ॥
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् ।
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

5-151-1 आर्तिमिति च्छेदः ॥ 5-151- प्रलुब्धः प्रकृष्टो लुब्धकस्तद्वद्वञ्चकत्वात् ॥ 5-151- धर्मापचायिनः धर्मक्षेपकस्य ॥ 5-151- आचार्यः पाण्डुपुत्राणामित्यपालम्भः ॥ 5-151- एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

श्रीः