अध्यायः 153

दुर्योधनेन कर्णंप्रति जयद्रथवधे द्रोणस्य पार्थपक्षपातादौदासीन्यस्य हेतुत्वेऽभिहिते कर्णेन तन्निराकरणपूर्वकं दैवस्यैव तत्र हेतुत्वकथनम् ॥ 1 ॥ रात्रियुद्धारम्भः ॥ 2 ॥

सञ्जय उवाच ।
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः । अमर्षवशमापन्नो युद्धायैव मनो दधे ।
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ॥
पश्य कृष्णसहायेन पाण्डवेन किरीटिना ।
आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम् ॥
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः ।
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि ।
पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः ॥
मम व्यायच्छमानस्य समरे शत्रुसूदन ।
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥
कथं वै युध्यमानस्य द्रोणस्य युधि फल्गुनः ।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः ॥
पश्य राधेय पृथ्वीशान्पृथिव्यां पातितान्बहून् ।
पार्थेन निहतान्सङ्ख्ये महेन्द्रोपमविक्रमान् ॥
अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः ।
भिन्द्यात्सुदुर्भिदं व्यृहं यतमानस्य शुप्मिणः ॥
दयितः फल्गुनो नित्यमाचार्यस्य महात्मनः ।
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन् ॥
अभयं सिन्धुराजाय दत्त्वा द्रोणः परन्तपः ।
प्रादात्किरीटिने द्वारं पश्यन्निर्गुणतां मयि ॥
यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति ।
प्रम्थातुं सिन्धुराजस्य न भवेज्जीवितक्षयः ॥
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति ।
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥
`रक्षामि सैन्धवं युद्धे नैनं प्राप्स्यति फल्गुनः ।
मम सैन्यविनाशाय रुद्धो विप्रेण सैन्धवः ॥
तस्य मे मन्दभाग्यस्य यतमानस्य संयुगे ।
हतानि सर्वसैन्यानि हतो राजा जयद्रथः ॥
पश्य योधवरान्कर्ण शतशोऽथ सहस्रशः ।
पार्थनामाङ्कितैर्वाणैः सर्वे नीता यमक्षयम् ॥
कथमेकरथेनाजौ बहूनां नः प्रपश्यताम् ।
विपन्नः सैन्धवो राजा योधाश्चैव सहस्रशः' ॥
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे ।
भामसनं समासाद्य पश्यतां नोदुरात्मनाम् ॥
कर्ण उवाच ।
आचार्यं मा विगर्हस्व शक्त्याऽसौ युध्यते द्विजः ।
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः ॥
यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः ।
नात्र सूक्ष्मोऽपि दोषःस्यादाचार्यस्य कथञ्चन ॥
कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः ।
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम् ॥
कृष्णेन च गृहीताश्वमभेद्यकचावृतः ।
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान् ॥
प्रवर्षन्निशितान्बाणान्बाहुद्रविणदर्पितः ।
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत् ॥
आचार्यः स्थविरो राजञ्शीघ्रयाने तथाऽक्षमः ।
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप ॥
तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः ।
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना ॥
अजय्यान्पाण्डवान्मन्ये द्रोणोनास्त्रविदा मृधे ।
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः ॥
सततं चेष्टमानानां निकृत्या विक्रमेण च ।
दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥
यतो नो युध्यमानानां परं शक्त्या सुयोधन ।
सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम् ॥
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे ।
हत्वाऽस्माकं पौरुषं वै दैवं पश्चात्करोति नः ॥
दैवोपसृष्टपुरुषो यत्कर्म कुरुते क्वचित् ।
कृतं कृतं हि तत्तस्यट दैवेन विनिपात्यते ॥
यत्कर्तव्यं मनुष्येण व्यवसायवता सदा ।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥
निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत ।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥
राजनीतिं समाश्रित्य प्रहिताश्चैव काननम् ।
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम् ॥
युध्यस्व यत्नमास्थय दैवं कृत्वा निरर्थकम् ।
यततस्तव तेषां च दैवं मार्गेण यास्यति ॥
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् ।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा । अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ।
`तेन युक्तो हि पुरुषः कार्याकार्ये नियुज्यते' ॥
बहूनि तव सैन्यानि योधाश्च बहवस्तव ।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः ।
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥
सञ्जय उवाच ।
एवं संभाषमाणानां बहु तत्तज्जनाधिप ।
पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥

5-153-12 यद्यदास्यत् दद्याच्चेदित्यर्थः । सिन्धुराजस्य नाभविध्यज्जनक्षय इति झ. पाठः ॥ 5-153-27 अन्यथाभावः पराजयो दैवादिष्टः । नतु द्रोणापराधज इति भावः ॥ दैवदृष्ट्याऽन्यथाभावो न मन्युर्विद्यते क्वचित् इति क. पाठः । दैवदिष्टान्यथाभावो न मन्युर्विद्यते क्वचित् इति ख.पाठः ॥ 5-153-30 दैवोपसृष्टो दुर्दैवप्रस्तः ॥ 5-153-35 तेषां जयहेतुः सुकृतं तव वा पराजयहेतुः दुष्कृतं नास्तीत्याह । न तेषामिति ॥ 5-153-153 त्रिषञ्चाशदधिकशततमोऽध्यायः ॥

श्रीः