अध्यायः 155

द्रोणयुद्धवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली ।
उक्ता दुर्योधनं मन्दं मम शास्त्रातिगं सुतम् ॥
प्रविश्य विचरन्तं च रथे शूरमवस्थितम् ।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे ।
के चोत्तरमरक्षन्त निघ्नतः शास्त्रवान्बहून् ॥
के चास्य पृष्ठतोऽन्वासन्वीरा वीरस्य योधिनः ।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः ॥
मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम् ।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा ॥
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः ।
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः ॥
निर्दहन्सर्वसैन्यानि पाञ्चालानां रथर्षभः ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥
सञ्जय उवाच ।
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च ।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः ।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम् ॥
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः । धृष्टद्युम्नः शतानीको विराटश्च सकेकयः । मात्स्याः साल्वाः ससेनाश्च द्रोणमेव ययुर्युधि ॥
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः ।
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः ।
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम् ॥
प्रभद्रकाश्च पाञ्चालाः षट््सहस्राः प्रहारिणः ।
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः ।
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ ।
बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥
योधानामशिवा रौद्रा राजन्नन्तकगामिनी ।
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः ।
न्यवेदयन्भयं घोरं सज्वालकबलैर्मुखैः ॥
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् ।
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः ॥
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् ।
भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः ।
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् ।
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥
तमसा चावृते लोके न प्राज्ञायत किञ्चन ।
सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥
नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते ।
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा ।
फेत्कारैर्हेषितैः शब्दैः सर्वमैवाकुलं बभौ ॥
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते ।
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम् ।
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽनशत् ॥
ततः सा भारती सेना मणिहेमविभूषिता ।
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥
गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला ।
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥
तत्राभवन्महाशब्दस्तुमुलो रोमहर्षणः ।
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः ॥
सा निशीथे महाराज सेनाऽदृश्यत भारती ।
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः ।
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥
दुर्योधनपुरोवातां रथनागवलाहकाम् ।
वादित्रघोषस्तनितां चापविद्युद्व्वजैर्वृताम् ॥
द्रोणपाण्डवपर्जन्यां खङ्गशक्तिगदाशनिम् ।
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम् ॥
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लुवाम् ।
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः ॥
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते ।
भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रुवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः ।
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥
तानि नागसहस्राणि रथानामयुतानि च । पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च ।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

5-155-1 शास्त्रातिगं शास्त्रमाज्ञा ॥ 5-155-7 धूमकेतुरग्निः ॥ 5-155-14 सन्न्यवर्तन्त सम्मुखं नितरामवर्तन्त ॥ 5-155-155 पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥

श्रीः