अध्यायः 157

सात्यकिना सोमदत्तपराजयः ॥ 1 ॥ अश्वत्थामघटोत्कचयुद्धमश्वत्थामपराक्रमश्च ॥ 2 ॥

सञ्जय उवाच ।
प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा ।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥
क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः ।
तं त्वं सात्वत सन्तज्य दस्युधर्मे कथं रतः ॥
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते ।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥
कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे ।
नृशंसं बत दीनं च तादृशं कृतवानसि ॥
कर्ममस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे ।
अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा ॥
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च ।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् ।
न हन्यां नरके घोरे पतेयं वृष्णिपांसन ॥
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः ।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥
ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः ।
सात्यकिर्भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ॥
कौरवेय न मे त्रासः कथञ्चिदपि विद्यते ।
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन ॥
यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि ।
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव ॥
युद्धसारेण वाक्येन असतां सम्मतेन च ।
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया ॥
यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप ।
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते ॥
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।
शलश्चैव महाराज भ्रातृव्यसनकर्षितः ॥
त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम् ।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः ॥
यस्मिन्दानं दमः शौचमहिंसा हीर्धृतिः क्षमा ।
अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।
सकर्णसौबलः सङ्ख्ये विनाशमुपयास्यसि ॥
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ॥
अपयास्यसि चोत्त्यक्त्वा रणं मुक्तो भविष्यसि ॥
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ ।
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ॥
ततो रथसहस्रेण नागानामयुतेन च ।
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः । पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।
श्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥
साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः ॥
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ।
`अभ्यरक्षन्महाबाहुः सात्वतं सत्यविक्रमम्' ॥
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः ।
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः ।
सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम् ॥
सोऽतिविद्धो बलवता समरे दृढधन्विना ।
रथोपस्थं समासाद्य मुमोह गतचेतनः ॥
तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः ।
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥
तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम् ।
अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया ॥
तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः ।
परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम् ॥
ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः ।
बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया ॥
ततः सायकजालेन पाण्डवानीकमावृणोत् ।
भारद्वाजो महातेजा विव्याध च युधिष्ठिरम् ॥
सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः ।
भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा ॥
सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम् ।
द्रौपदेयान्महाबाहुः पञ्चभिः पञ्जभिः शरैः ॥
विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः । युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे । अन्यांश्च सैनिकान्विद्व्वा युधिष्ठिरमुपाद्रवत् ॥
ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः ।
प्राद्रवन्वै भयाद्राजन्सार्तनादा दिशो दश ॥
काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फल्गुनः ।
किञ्चिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद्द्रुतम् ॥
दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे ।
सन्न्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम् ॥
ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः ॥
द्रोणस्तव सुतै राजन्सर्वतः परिवारितः ।
व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः ॥
तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम् ।
राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम् ॥
मण्डलीकृतधन्वानं तपन्तमिव भास्करम् ।
दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत् ॥
योयो हि प्रमुखे तस्य तस्थौ द्रोणस्य पुरूषः ।
तस्यतस्य शिरश्छित्त्वा ययुर्द्रोणशराः क्षितिम् ॥
एवं सा पाण्डवी सेना वध्यमाना महात्मना ।
प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः ॥
सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत ।
गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति ॥
ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान् ।
चोदयामास दाशार्हो हयान्द्रोणरथं प्रति ॥
भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम् ।
स्वसारथिमुवाचेदं द्रोणानीकाय मां वह ॥
सोऽपि तस्य वचः श्रुत्वा विशोकोऽवहयद्वयान् ।
पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम ॥
तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ । पाञ्चालाः सृञ्जया मात्स्याश्चेदिकारूशकोसलाः ।
अन्वगच्छन्महाराज केकयाश्च महारथाः ॥
ततो राजन्नभूद्वोरः सङ्ग्रामो रोमहर्षणः ॥
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः ।
महद्भ्यां रथबृन्दाभ्यां बलं जगृहतुस्तव ॥
तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ ।
धृष्टद्युम्नोऽभ्ययाद्राजन्सात्यकिश्च महाबलः ॥
चण्डवाताभिपन्नानामुदधीनामिव स्वनः । आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नतां
सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे ।
द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः ॥
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति ।
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ॥
कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम् ।
महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम् ॥
विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम् ।
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः ॥
विक्षिप्तपक्षचरणविवृताक्षेण कूजता ।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम् ॥
लोहितार्द्रपताकं तु आन्त्रमालाविभूषितम् ।
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥
शूलमुद्गरधारिण्या शैलपादपहस्तया ।
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः ।
युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥
ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम् ।
दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम् ॥
ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम् ।
महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम् ॥
त्रासनं सर्वभूतानां व्यात्ताननभिवान्तकम् ।
वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम् ॥
तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम् । भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी ।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ ॥
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः ।
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टसास्तथा ॥
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे ।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्भिताम् ॥
विहतायां तु मायायाममर्षी स घटोत्कचः । विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ।
भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः ॥
ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम् ।
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् ।
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु ।
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् ।
अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया ॥
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः ।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् ।
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः ।
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥
पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा ।
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः ॥
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥
द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् ।
विशिखेन सतीक्ष्णेन खङ्गमस्य द्विधाऽकरोत् ॥
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना ।
भ्राम्योत्क्षिप्ताशरैःसापि द्रौणिनाभ्याहताऽपतत् ॥
ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन् ।
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि ।
मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः ॥
सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते ।
महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः ॥
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् ।
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् ।
द्रौणेः सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः ॥
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् ।
दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम् ॥
घटोत्कच उवाच ।
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥
अश्वत्थामोवाच ।
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।
न हि पुत्रेण हैडिम्ब पिता न्याय्यः प्रबाधितुम् ॥
कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि ।
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥
सञ्जय उवाच ।
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।
अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥
किमहं कातरो द्रौणे पृथग्जन इवाहवे ॥
यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव ॥
भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले ।
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ॥
रक्षसामधिराजोऽहं दशग्रीवसमो बले ।
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ॥
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः ।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः ।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।
ततोन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ॥
अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ ।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥
निशाम्य निहतां मायां द्रौणिना रणमानिना ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥
तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे ॥
ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत् ।
स ते नास्त्रैण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत ॥
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः ।
शतं रथसहस्राणां जघान द्विपदां वरः ॥
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् ।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः ।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥
विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह ।
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः ॥
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥
तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया ।
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥
निहनिष्याम्यमित्रांस्त न तवास्ति पराजयः ।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥
दुर्योधन उवाच
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥
सञ्जय उवाच ।
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।
वृतं रथसहस्रेण हयानां रणशोभिनाम् ॥
षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम् ।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥
उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः ।
दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः ॥
पूरञ्जयो दृढरथः पताकी हेमकम्पनः ।
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ॥
कमलाक्षः परक्राथी जयवर्मा सुदर्शनः ।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥
जहि भीमं यमौ चोभौ धर्मराजं च मातुल ।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥
सञ्जय उवाच ।
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव ॥
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।
जघानोरसि सङ्क्रुद्धौ विषाग्निप्रतिमैर्दृढैः ॥
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥
भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम् ।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥
ततोऽन्यद्द्रौणिरादय धनुर्भारसहं महत् ।
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥
ततः शारद्वतीपुत्रः प्रेषयामास भारत ।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरं प्रति ॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥
विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान् ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥
स दग्ध्वाऽक्षौहिणीं बामैर्नैर्ऋतीं रुरुचे नृप ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥
ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम् ।
द्रौणिं हतेति महतीं चोदयामास तां चमूम् ॥
घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः ।
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः ॥
व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम् ।
सिंहनादेन महता नादयन्तो वसुन्धराम् ॥
हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः ।
शक्तीः शतघ्नीः परिघानशनीः शूलपट्टशान् ॥
खङ्गान्गदाभिण्डिपालान्मुसलानि परश्वथान् ।
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान् ॥
स्थूलान्भुशुण्ड्यश्मगदास्थूणान्कार्ष्ण्यायसांस्तथा ।
मुद्गराँश्च महाघोरान्समरे शत्रुदारणान् ॥
द्रौणिमूर्धन्यसन्त्रस्ता राक्षसा भीमविक्रमाः ।
चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः ॥
तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि ।
पतमानं समीक्ष्याऽथ योधास्ते व्यथिताऽभवन् ॥
द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम् ।
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः ॥
ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुङ्खैर्महामनाः ।
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः ॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥
ते राक्षसाः सुसङ्क्रुद्धा द्रोणपुत्रेण ताडिताः ।
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलः ॥
तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥
यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित् ।
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः ॥
स हत्वा राक्षसानीकं रराज द्रौणिराहवे ।
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥
तं दहन्तमनीकानि शरैराशीविषोपमैः ।
तेषु राजसहस्रेषु पाण्डवेयेषु भारत ॥
नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे ।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥
स पुनर्भरतश्रेष्ठ क्रोधादुद्धान्तलोचनः ।
तलं तलेन संहत्य सन्दश्य दशनच्छदम् ॥
स्व सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ।
स ययौ घोररूपेण सुपताकेन भास्वता ॥
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ।
स विनद्य महानादं सिंहवद्भीमविक्रमः ॥
चिक्षेपाविद्ध्य सङ्ग्रामे द्रोणपुत्राय राक्षसः ।
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम् ॥
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवप्लुप्लुवे ॥
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा ॥
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।
यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ॥
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप । धनुर्घोरं समादाय महदिन्द्रायुधोपमम् ।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥
धृष्टद्युम्नस्त्वसम्भ्रान्तो मुमोचाशीविषोपमान् ।
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥
ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः ।
तावप्यग्निशिखप्रख्यैर्जुघ्नतुस्तस्य मार्गणान् ॥
अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः ।
योधानं प्रीतिजननं द्रौणेश्च भरतर्षभ ॥
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः ।
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत् ॥
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः ॥
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च ।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः ।
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः ॥
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः ।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ ।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ॥
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥
कङ्कगृघ्रमहाग्राहां नैकायुधझषाकुलाम् ।
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम् ॥
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ।
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम् ॥
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ।
केशशैवलकल्माषां भीरूणां कश्मलावहाम् ॥
नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् ।
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम् ॥
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ।
प्रयान्तीं सुमहाघोरां यमराष्ट्रमहोदधिम् ॥
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत् ।
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् ॥
स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः ।
जघान सुरथं नाम द्रुपदस्य सुतं विभुः ॥
पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे ।
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ॥
श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम् ।
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम् ॥
जघान स पृषध्रं च चन्द्रसेनं च मारिष ।
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान् ॥
अस्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् । मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः ।
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः ।
द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम् ॥
ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप । पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत ॥
अथ शरशतभिन्नकृत्तदेहै-- र्हतपतितैः क्षणदाचरैः समन्तात् ।
निधनमुपगतैर्मही कृताऽभू-- द्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा ॥
तं सिद्धगन्धर्वपिशाचसङ्घा नागाः सुपर्णाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च द्रौणि-- मपूजयन्नप्सरसः सुराश्च ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥

5-157-9 तारेणोच्चस्वरेण ॥ 5-157-19 कृष्णचरणैः कृष्णयोश्चरणैः ॥ 5-157-40 द्रोणमभिधावन्तं बीभत्सुं दृष्ट्वा यौधिष्ठिरं बलं तत्सैन्यं द्रोणसैन्यम्प्रति पुनः सन्न्यवर्ततेति सम्बन्धः ॥ 5-157-58 कार्ष्णायसं तीक्ष्णलोहमयम् ॥ 5-157-59 न हयैर्नापि वारणैर्गजैः किन्तु पिशाचैः ॥ 5-157-93 गच्छ वत्सेति पुत्रेणेति च भीमसेनसम्बन्धात् । प्रबाधितुं मनः--खेदमुत्पादयितुम् ॥ 5-157-94 आत्मानमपि हन्यात्किमु पुत्रमतो जीवनार्थी त्वं निवर्तस्वेति भावः ॥ 5-157-95 आयस्तः कोपितः ॥ 5-157-132 शारद्वती कृपी । कचरान्बाणान् । खचरं राक्षसम् ॥ 5-157-136 वसुरुल्बणः अग्निः प्रलयकालिकः ॥ 5-157-157 सप्तपञ्चाशदधिकशततमोऽध्यायः ॥

श्रीः