अध्यायः 161

द्रौणिधृष्टद्युम्नयोर्युद्धम् । द्रौणिपराक्रमः ॥ 1 ॥

सञ्जय उवाच ।
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः । चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा ।
प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः ॥
सत्यमेतन्महाबाहो यथा वदसि कौरव ।
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे ॥
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ।
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ॥
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च ।
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ॥
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह ।
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ॥
युध्याम पाण्डवाच्छक्त्या ते चाप्यस्मान्यथाबलम् ।
तेजस्तेजः समासाद्य प्रशमं यातु भारत ॥
अशक्त्या तरसा जेतुं पाण्डवानामनीकिनी ।
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ॥
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः ।
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥
त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च कौरव ।
सर्वाभिशङ्की मानी च ततोऽस्मानभिशङ्कसे ॥
मन्ये त्वं कुत्सितो राजन्पापात्मा पापपूरुषः ।
अन्यानपि स नः क्षुद्र शङ्कसे पापभावितः ॥
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः । एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन ।
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् ॥
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ।
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिन्दम ॥
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा ।
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वशः ॥
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् ।
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ॥
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः ।
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ॥
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत ।
न हि ते वीर मोक्ष्यन्ते मद्बाह्वन्तरमागताः ॥
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव । अभ्यवर्तत युद्धाय त्रासयन्सर्वधन्विनः ।
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ॥
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः ॥
प्रहरध्वमितः सर्वे मम गात्रे महारथाः ।
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ॥
एवमुक्तास्तु ते सर्वे शस्त्रवृषीरपातयन् ।
द्रौणिं प्रति महाराज जलं जलधरा इव ॥
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् ।
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो ॥
ते हन्यमानाः समरे पाञ्चालाः सोमकास्तथा ।
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ॥
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् ।
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्रणे ॥
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् ।
वृतः शतेन शूराणां रथानामनिवर्तिनाम् ॥
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः ।
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ॥
आचार्यपुत्र भद्रं ते किमन्यैर्निहतैस्तव । समागच्छ मया सार्धं यदि शूरोऽसि संयुगे ।
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ॥
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् ।
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ॥
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः । रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः ।
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ॥
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः ।
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत ॥
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय ।
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा ।
छादयामास बाणौघैः समन्ताल्लुघुहस्तवत् ॥
स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः ।
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ॥
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च ।
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ॥
ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे ॥
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते । निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे ।
नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम् ॥
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च ।
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ॥
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः ।
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः ॥
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः ।
क्रोधमाहारयत्तीव्रं तिष्ठतिष्ठेति चाब्रवीत् ॥
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत ।
छादयामास च शरैर्निःश्वसन्पन्नगो यथा ॥
स च्छाद्यमानः समरे द्रौणिना राजसत्तम ।
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ॥
नाकम्पत महाबाहुः स्ववीर्यं समुपाश्रितः ।
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ॥
तौ पुनः सन्न्यवर्तेतां प्राणद्यूतपणे रणे । निपीडयन्तौ बाणौघैः परस्परममर्षिणौ ।
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् ।
दृष्ट्वा सम्पूजयामासुः सिद्धचारणवादिकाः ॥
शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा ।
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ॥
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ ।
परस्परवधे यत्तौ सर्वभूतभयङ्करौ ॥
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च ।
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ॥
तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव ।
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ॥
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च सैनिकाः ।
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ॥
तस्मिंस्तु तुमुले युद्धे भीरुणां भयवर्धने ।
मुहूर्तमपि तद्युद्धं समरूपं तदाऽभवत् ॥
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः । ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी ।
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ॥
पाञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः ।
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ॥
ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ ।
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ॥
शतेन च शतं हत्वा पाञ्चालानां महारथः ।
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ॥
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः ।
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ॥
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः ।
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ॥
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः ।
ननाद सुमहानादं तपान्ते जलदो यथा ॥
स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत ।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥
सम्पूज्यमानो युधि कौरवेयै-- र्निर्जित्य सङ्ख्येऽरिगणान्सहस्रशः ।
व्यरोचत द्रोणसुतः प्रतापवा-- न्यथा सुरेन्द्रोऽरिगणान्निहत्य वै ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥

5-161-9 निकृतिर्वञ्चनम् ॥ 5-161-43 वादिकाः वन्दिनः ॥ 5-161-161 एकषष्ट्यधिकशततमोऽध्यायः ॥

श्रीः