अध्यायः 164

सेनाद्वये दीपोद्योxxxनम् ॥ 1 ॥

सञ्जय उवाच ।
वर्तमाने यथा यद्धे घोररूपे भयावहे ।
तमसा संवृते लोके रजसा च महीपते ॥
नापश्यन्त रणे योधाः परस्परमवस्थिताः ।
अनुमानेन संज्ञाभिर्युद्धं तद्ववृधे महत् ॥
नरनागाश्वमथनं परमं रोमहर्षणम् । द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः ।
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः ।
तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः ॥
ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः ।
अहन्यन्त महाराज धावमानाश्च संयुगे ॥
महारथसहस्राणि जघ्नुरन्योन्यमाहवे ।
अन्ये तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत ।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥
धृतराष्ट्र उवाच ।
तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम् ।
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा ॥
कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः ।
बभूव लोके तमसा तथा सञ्जय संवृते ॥
सञ्जय उवाच ।
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥
द्रोणः पुरस्ताज्जघने तु शल्य-- स्तथा द्रौणिः कृतवर्मा सौबलश्च ।
स्वयं तु सर्वाणि बलानि राज-- न्राजाऽभ्ययाद्गोपयन्वै निशायाम् ॥
उवाच सर्वांश्च पदातिसङ्घा-- न्दुर्योधनः पार्थिवसान्त्वपूर्वम् ।
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ॥
देवर्षिगन्धर्वसुरर्षिसङ्घा विद्याधराश्चाप्सरसां गणाश्च ।
नागाः सयक्षोरगकिन्नराश्च हृष्टा दिविस्था जगृहुः प्रदीपान् ॥
दिग्धैर्वतेभ्यश्च समापतन्तो-- ऽदृश्यन्त दीपाः ससुगन्धितैलाः ।
विशेषतो नारदपर्वताभ्यां सम्बोध्यमानाः कुरुपाण्डवार्थम् ॥
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् ।
महाधनैराभरणैश्च दिव्यैः शस्त्रैश्च दीप्तैरपि सम्पतद्भिः ॥
रथेरथे पञ्च विदीपकास्तु प्रदीपकास्तत्र गजे त्रयश्च ।
प्रत्यश्वमेकश्च महाप्रदीपः कृतास्तु तैः पाण्डवैः कौरवेयैः ॥
क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवासु ॥
सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः ।
प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥
प्रकाशितायां तु ततो ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्सपत्नान् ।
रराज राजेन्दर सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली ॥
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरासनेषु ।
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र तदा बभूवुः ॥
गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः ।
प्रतिप्रभारश्मिभिराजमीढ पुनःपुनः सञ्जनयन्ति दीपान् ॥
छत्राणि वालव्यजनानि खङ्गा दीप्ता महोल्काश्च तथैव राजन् ।
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् ।
प्रकाशितं चाभरणप्रभाभि-- र्भृशं प्रकाशं नृपते बभूव ॥
पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुच्छदानि ।
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥
प्रकम्पितानामभिधातवेगै-- रभिघ्नतां चापततां जवेन ।
वक्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥
महावने दारुमये प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् ।
तथा तदाऽऽसीद्वजिनी प्रदीप्ता महाभया भारत भीमरूपा ॥
तत्संप्रदीप्तां बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव ।
सर्वेषु सैन्येषु पदातिसङ्घा-- नचोदयंस्तेऽपि चक्रुः प्रदीपान् ॥
गजेगजे सप्त कृपाः प्रदीपा रथेरथे चैव दश प्रदीपाः ।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च ।
मध्ये तथाऽन्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥
मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥
सर्वेषु सैन्येषु पदातिसङ्घा विमिश्रिता हस्तिरथाश्वबृन्दैः ।
व्यदीपयंस्ते ध्वजिनीं प्रदीप्ता-- स्तथा बलं पाण्डवेयाभिगुप्तम् ॥
तेन प्रदीप्तेन तथा प्रदीप्तं-- बलं तवासीद्बलवद्बलेन ।
भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभिगुप्तः ॥
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः ।
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥
तेन प्रकाशेन दिवं गतेन सम्बोधिता देवगणाश्च राजन् ।
गन्धर्वयक्षासुरसिद्धसङ्घाः समागमन्नप्सरसश्च सर्वाः ॥
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च ।
हतैश्च शूरैर्दिवमारुहद्भि-- रायोधनं दिव्यकल्पं बभूव ॥
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविद्रुताश्वम् ।
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ॥
तच्छक्तिसङ्घाकुलचण़्डवातं महारथाभ्रं गजवाजिघोषम् ।
शस्त्रौगवर्षं रुधिराम्बुधारं निशि प्रवृत्तं रथदुर्दिनं तत् ॥
तस्मिन्महाग्निप्रतिमो महात्मा सन्तापंयन्पाण्डवान्विप्रमुख्यः ।
गभस्तिभिर्मध्यगतो यथाऽर्को वर्षात्यये तद्वदभून्नरेन्द्र ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःषष्ठ्यधिकशततमोऽध्यायः ॥ 164 ॥

5-164-6 अन्धे आन्ध्यहेतौ ॥ 5-164-8 वो युष्मत्सम्बन्धिनां मनः किं किंविधम् । कातरं धृष्टं वेत्यर्थः ॥ 5-164-10 तत इति । द्रोण इत्यपकृयते । तेषां सैन्यानां व्यूहमिध्याहृत्य योज्यम् ॥ 5-164-14 देवर्षीति । भुवि पदातिभिर्दीपेषु गृहीतेषु दिविस्था देवा अपि दीपान् जगृहुर्युद्धोत्सवप्रेक्षकाः ॥ 5-164-164 चतुःषष्ठ्यधिकशततमोऽध्यायः ॥

श्रीः