अध्यायः 168

कर्णेन सहदेवस्य पराजयपूर्वकमवहेलनम् ॥ 1 ॥ शल्येन विराटपराजयः ॥ 2 ॥ अर्जुनेनालायुधपराजयः ॥ 3 ॥

सञ्जय उवाच ।
सहदेवमथायान्तं द्रोणप्रेप्तुं विशाम्पते ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः ॥
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान ।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥
तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः ।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥
विरथः सहदेवस्तु खङ्गं चर्म समाददे ।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥
अथ गुर्वीं महाघोरां हेमचित्रां महागदाम् ।
प्रेषयामास सङ्क्रुद्धो वैकर्तनरथं प्रति ॥
तामापतन्तीं सहसा सहदेवप्रचोदिताम् ।
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः ।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥
ससम्भ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात् ।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ॥
रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति । तदापतद्वै सहसा कालचक्रमिवोद्यतम् ।
शरैरनेकसाहस्रैराच्छिनत्सूतनन्दनः ॥
तस्मिंस्तु निहते चक्रे सूतजेन महात्मना ।
ईषादण्डकयोक्रांश्च युगानि विविधानि च ॥
हस्त्यङ्गानि तथाश्वांश्च मृतांश्च पुरुषान्बहून् ।
चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः ॥
स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः ।
वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ ॥
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ ।
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशाम्पते ॥
मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह ।
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥
अथैनं धनुषोग्रेण तुदन्भूयोऽब्रवीद्वचः ॥
एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह ।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव ॥
वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।
कुन्त्याःस्मृत्वा वचो राजन्सत्यसन्धो महायशाः ॥
सहदेवस्ततो राजन्विमनाः शरपीडितः ।
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत ॥
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः ।
जनमेजयस्य समरे त्वरायुक्तो महारथः ॥
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् ।
मद्रराजः शरौघेण च्छादयामास धन्विनम् ॥
तयोः समभवद्युद्धं समरे दृढधन्विनोः ।
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥
मद्रराजो महाराज विराटं वाहिनीपतिम् ।
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम् ॥
प्रतिविव्याध तं राजन्नवभिर्निशितै शरैः ।
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु ॥
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।
सूतं ध्वजं च समरे शराभ्यां सन्न्यपातयत् ॥
हताश्वात्तुं रथात्तूर्णमवप्लुत्य महारथः ।
तस्थौ विष्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान् ॥
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥
शतानीकमथायान्तं मद्राराजो महामृधे ।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः ।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥
ततो विष्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥
ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा ।
आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ।
सारथिस्तमपोवाह समरे शरविक्षतम् ॥
ततः सा महती सेना प्राद्रवन्निशि भारत ।
वध्यमाना शरशतैः शल्येनाहवशोभिना ॥
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ ।
प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलायुधः ।
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः । लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ।
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम् ॥
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता । ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता ।
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ॥
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥
अतितीव्रं महाद्युद्धं नरराक्षसयोस्तदा । द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत ।
गृध्रकाकबलोलूककङ्कगोमायुहर्षणम् ॥
तमर्जुनः शतेनैव पत्रिणां समताडयत् ।
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत ॥
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥
पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत् ।
विरथस्योद्यतं खङ्गं शरेणास्य द्विधाऽकरोत् ॥
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्वः प्राद्रवद्भयात् ॥
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ ।
किऱञ्शरगणान्राजन्नरवारणवाजिषु ॥
वध्यमाना महाराज पाण्डवेन यशस्विना ।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना ।
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशाम्पते ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥

श्रीः