अध्यायः 170

नकुलकृपाभ्यां शकुनिशिखण्डिपराजयः ॥ 1 ॥

सञ्चय उवाच ।
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव ।
अभ्ययात्सौबलः क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥
यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत ।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि ॥
तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महाराज श्वाविधौ शललैरिव ॥
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥
तपनीयनिभौ चित्रो कल्पवृक्षाविव द्रुमौ ।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे ॥
तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महारान्कण्टकैरिव शाल्मली ॥
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ ।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥
श्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव ।
कर्णिनैकेन विव्याध हृदये निशितेन ह ॥
नकुलस्तु भृशं विद्वः श्यालेन तव धन्विना ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥
अत्यन्तवैरिणां दृप्तं दृष्ट्वा शत्रुं तथाऽऽगतम् ।
ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥
प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः ।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ ।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे ॥
अथास्य सशरं चापं मृष्टिदेशेऽच्छिनत्तदा ।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥
विशिखेन च तीक्ष्णेन पीतेन निशितेन च । ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः ।
श्येनं सपक्षं व्याधेन पातयामास तं तदा ॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा ॥
तं विसंज्ञं निपतितं दृष्ट्वा श्यालं तवानघ ।
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः ॥
निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः ।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकायं मां वह ॥
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः ।
प्रायात्तेन तदा राजन्यत्र द्रोणो व्यवस्थितः ॥
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते ।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्स वेगितः ॥
गौतमं द्रुतमायान्तं द्रोणानीकमरिन्दमम् ।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥
तमाचार्यो महाराज विद्धा पञ्चभिराशुगैः ॥
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥
महद्युद्धं तयोरासीद्धोररूपं भयानकम् ॥
यथा देवासुरे युद्धे शम्बरामरराजयोः ॥
शरजालावृतं व्योम चक्रतुस्तौ महारथौ । मेघाविव तपापाये वीरौ समरदुर्मदौ ।
प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः ॥
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् ।
कालरात्रिनिभा ह्यासीद्धोररूपा भयानका ॥
शिखण्डी तु महाराज गौतमस्य महद्धनुः ।
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् ।
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः ।
सापतन्मेदिनीं कृत्ता भासयन्ती महाप्रभा ॥
अथान्यद्धनुरादाय गौतमो रथिनां वारः ।
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥
स च्छाद्यमानः समरे गौतमेन यशस्विना ।
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि ।
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम् ।
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥
रथानां च रणे राजन्नन्योन्यमभिधावताम् ।
बभूव तुमुलः शब्दो मेघानां गर्जतामिव ॥
द्रवतां सादिनां चैव गजानां च विशाम्पते ।
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी ।
अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम् ।
अगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥
तथा गजान्प्रभिन्नांश्च सम्प्रभिन्ना महागजाः ।
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥
सादी सादिनमासाद्य पत्तयश्च पदातिनम् ।
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥
धावतां द्रवतां चैव पुनरावर्ततामपि ।
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि ॥
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु ।
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता ।
दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति ।
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः ॥
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा ।
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः ॥
अस्त्राणां कवचनानां च मणीनां च महात्मनाम् ।
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे ।
न किञ्चिद्विदुरात्मानमयमस्मीति भारत ॥
अवधीत्समरे पुत्रं पिता भरतसत्तम । पुत्रश्च पितरं मोहात्सखायं च सखा तथा ।
स्वस्रीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम् ॥
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् ।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥

5-169-15 ऊरू इति । मण्डलं चरतः शकुनेर्द्वावूरू एकेनैव बाणेन बिभेद यथा खे श्येनां पक्षाभ्यां सहितं वामदक्षिणगामिनं पातयेदेवमिति लुप्तोपमा । व्याधेन बाणेन । विध्यत्यनेनेति व्याधो बाणः ॥ 5-170-16 परिक्लिश्य क्लेशेन ध्वजयष्टिं श्रित इति शेषः ॥ 5-170-38 प्रदुता रथिनो वेगवत्तरं रथमारुह्य तत्पतिमगृह्णन् ॥ 5-170-170 सप्तत्यधिकशततमोऽध्यायः ॥

श्रीः