अध्यायः 171

द्रोणधृष्टद्युम्नादीनां सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ॥
सन्दधानो धनुःश्रेष्ठं ज्यां विकुर्षन्पुनः पुनः ।
अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम् ॥
धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया ।
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ॥
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् ।
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ॥
बलार्णवौ ततस्तौ तु समेयातां निशामुखे ।
गातोद्धूतौ क्षुब्धसत्वौ भैरवौ सागराविव ॥
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः ।
विव्याध हृदये तूर्णं सिंहनादं ननाद च ॥
तं द्रोणः पञ्चविंशत्या विद्धा भारत संयुगे ।
चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम् ॥
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ ।
उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम् ॥
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् ।
आददेऽन्यद्धनुःश्रेष्ठं द्रोणस्यान्तचिकीर्षया ॥
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा ।
द्रोणस्यानत्करं घोरं व्यसृजत्सायकं ततः ॥
स विसृष्टो बलवता शरो घोरो महामृधे ।
भासयामास तत्सैन्यं दिवाकर इवोदितः ॥
तं तु दृष्ट्वा शरं घोरं देवगन्धर्वमानवाः ।
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ॥
तं तु सायकमायान्तमाचार्यस्य रथं प्रति ।
कर्णो द्वादशधआ राजंश्चिच्छेद कृतहस्तवत् ॥
स च्छिन्नो बहुधा राजन्सूतपुत्रेण धन्विना ।
निपपात शरस्तूर्णं निर्विषो भुजगो यथा ॥
`छित्त्वा तु समरे बाणं शरैः सन्नतपर्वभिः' ।
धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरैः ॥
पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणस्तु सप्तभिः ।
शल्यश्च दशभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ॥
दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः ।
पाञ्चाल्यं त्वरयाऽविध्यन्सर्व एव महारथाः ॥
स विद्धः सप्तभिर्घोरैर्द्रोणस्यार्थे महाहवे । सर्वानसम्भ्रमाद्राज प्रत्यविद्ध्यत्त्रिभिस्त्रिभिः ।
द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम् ॥
ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मृधे ।
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ॥
द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा ।
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः ।
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरमैर्युधि ॥
भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् ।
निचकर्त शिरः कायाद्द्रुमसेनस्य वीर्यवान् ॥
तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे ।
महावातसमुद्धूतं पक्वं तालफलं यथा ॥
तान्स विद्धा पुनर्योधान्वीरः सुनिशितैः शरैः ।
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ॥
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा ।
निकर्तनमिवात्युग्रं लाङ्गूलस्य महाहरिः ॥
सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् ।
अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ॥
दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः ।
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ॥
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् ।
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नमममंस्महि ॥
पतस्मिन्नेव काले तु दाशार्हो विकिरञ्छरान् ।
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ॥
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् ।
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ॥
तं सात्यकिर्महाराज विव्याध दशभिः शरैः ।
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ॥
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः ।
आसीत्समागमो राजन्बलिवासवयोरिव ॥
त्रासयन्रथघोषेण क्षत्रियान्क्षत्रियर्षभः ।
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ॥
कम्पयन्निव घोषेण धनुषो वसुधां बली ।
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ॥
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि ।
कर्णः शरशतैश्चापि शैनेयं प्रत्यनिद्व्यत ॥
तथैव युध्यमानोऽपि वृष्णीनां प्रवरो युधि ।
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ॥
तावकाश्च महाराज कर्णपुत्रश्च दंशितः ।
सात्यकिं विव्यधुस्तूर्ण समन्तान्निशितैः शरैः ॥
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो ।
अविद्व्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ॥
तेन बाणेन निर्विद्धो वृषसेनो विशाम्पते ।
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ॥
ततः कर्णो हतं मत्वा वृषसेनं महारथम् ।
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत् ॥
पीड्यमानस्तु कर्णेन युयुधानो महारथः ।
विव्याध बहुभिः कर्णं त्वरमाणः पुनःपुनः ॥
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः ।
स हस्तावापधनुषी तयोश्चिच्छेद सात्वतः ॥
तावन्ये धनुषी सज्जे कृत्वा शत्रुभयङ्करे ॥
युयुधानमाविध्येतां समन्तान्निशितैः शरैः ॥
वर्तमाने तु सङ्ग्रमे तस्मिन्वीरवरक्षये ।
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ॥
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निःस्वनम् ।
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ॥
एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान् ।
पौरवांश्च महेष्वासो विक्षिपन्नुत्तमं धनुः ॥
पार्थो विजयते तत्र गाण्डीवनिनदो महान् ।
श्रूयते रथघोषश्च वासवस्येव नर्दतः ॥
करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ।
एषा विदार्यते राजन्बहुधा भारती चमूः ॥
विप्रकीर्णान्यनीकानि न हि तिष्ठन्ति कर्हिचित् ।
वातेनेव समुद्धूतमभ्रजालं विदीर्यते ॥
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ॥
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः ।
विद्धानां शतशो राजञ्श्रूयते निःस्वनो महान् ॥
शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति ।
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ॥
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् ।
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ॥
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः ।
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ॥
एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः ।
सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः ॥
सात्यकिं यदि हन्याम धृष्टद्युम्नं च पार्षतम् ।
असंशयं महाराज ध्रुवो नो विजयो भवेत् ॥
सौभद्रवदिमौ वीरौ परिवार्य महारथौ ।
प्रयतायो महाराज निहन्तुं वृष्णिपार्षतौ ॥
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत ।
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः ॥
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः ।
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ॥
ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम् । यथा त्विह व्रजत्येष परलोकाय माधवः ।
तथा कुरु महाराज सुनीत्या सुप्रयुक्तया ॥
कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम् ।
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ॥
वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् । रथैश्च दशसाहस्रैस्तूर्णं याहि धनञ्जयम् ।
दुःशासनो दुर्विषहः सुबाहुर्दुः प्रधर्षणः ।
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ॥
जहि कृष्णौ महाबाहो धर्मराजं च मातुल ।
नकुलं सहदेवं च भीमसेनं तथैव च ॥
देवानामिव देवेन्द्रे जयाशा त्वयि मे स्थिता ।
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः ।
महत्या सेनया सार्धं सह पुत्रैश्च ते विभो ॥
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् ।
ततः प्रववृते युद्धं तावकानां परैः सह ॥
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् ।
बलेन महता युक्ताः सूतपुत्रस्तु सात्वतम् ॥
अभ्ययात्त्वरितो युद्धे किरञ्शरशतान्बहून् ।
तथैव पार्थिवाः सर्वे सात्यकिं पर्यवारयन् ॥
भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति । महद्युद्धं तदासीत्तुं द्रोणस्य निशि भारत ।
धृष्टद्युम्नेन वीरेण पाञ्चालैश्च सहाद्भुतम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥

5-171-20 द्युमत्सेन इति पाठान्तरम् ॥ 5-171-25 हरिः सिंहः ॥ 5-171-27 षड्रथर्षभाः दुर्योधनदुःशसासनद्रोणकर्णशल्यशकुनयः ॥ 5-171-48 औपयिकं युक्तम् ॥ 5-171-54 इह सात्यकिरूपं लक्ष्यं लभ्यतेचेत् । अयं वशीक्रियतेचेदित्यर्थः ॥ 5-171-60 माधवो मधुवंशजः सात्यकिः ॥ 5-171-65 पाविकः स्कन्दः ॥ 5-171-171 एकसप्तत्यधिकशततमोऽध्यायः ॥

श्रीः