अध्यायः 173

द्रोणकर्णयोः सात्यकिधृष्टद्युम्नाक्ष्यां युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः ।
क्रोधेन महताऽविष्टः पुत्रस्तव विशाम्पते ॥
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् ।
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥
भवद्ध्भामिह सङ्ग्रामः क्रुद्धाभ्यां सम्प्रवर्तितः ।
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥
निहन्यमानां पाण़्डूनां बलेन मम वाहिनीम् ।
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि ।
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ॥
तदैवाहं वचः श्रुत्वा भवद्ध्यामनुसम्पतम् ।
नाकरिष्यमिदं पार्थैर्वैरं योधविनाशनम् ॥
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ ॥
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ ॥
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते ।
प्रावर्तयेतां सङ्ग्रामं घट्टिताविव पन्नगौ ॥
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ ।
शैनेयप्रमुखान्पार्थानभिदुद्रुवत् रणे ॥
तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः ।
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् ।
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः । दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ।
एते कौरव सङ्क्रन्दे शैनेयं पर्यवाकिरन् ॥
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् ।
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥
तत्र द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशाम्पते ।
रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः ॥
द्रोणेन वध्यमानानां पाञ्चालानां विशाम्पते ।
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् । भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् ।
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः ।
पाण्डवानां रणे योधाः परलोकं गताः परे ॥
सा तथा पाण़्वी सेना पीड्यमाना महात्मना ।
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च ।
ययमोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥
तमसा संवृते लोके न प्राज्ञायत किञ्चन ।
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे ॥
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ ।
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥
पाञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः ।
जनार्दनो दीनमानाः प्रत्यभाषत फल्गुनम् ॥
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी ।
पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥
एतयोः शरवर्षेण प्रभग्ना नो महारथाः ।
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥
तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ ।
मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः ॥
तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः ।
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ ।
उपेक्षितौ बलं तूर्णं नाशयेतां निशामिमाम् ॥
सञ्जय उवाच । तयोः संवदतोरेवं भीमकर्मा महाबलः ।
आयाद्वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम् ॥ वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः ।
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ॥ एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः ।
अभ्यवर्तत वेगेन द्रोणकर्णौ महारथौ ॥ एतेन सहितो युद्ध्य पाञ्चालैश्च महारथैः ।
आश्वासनार्थं सैन्यानां सर्वेषां पाण़्डुनन्दन ॥ ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ ।
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ॥
सञ्जय उवाच ।
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् ।
यथा सागरयो राजंश्चन्द्रोदयविरुद्धयोः ॥
तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी ।
युयुधे पाण्डवैः सार्धमुन्मत्तवदसङ्कुला ॥
रजसा तमसा चैव संवृते भृशदारुणे ।
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः ।
प्रहरद्भिर्महाराज स्वयंवर इवाहवे ॥
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् ।
क्रुद्धानां युध्यमानानां जीयतां जयतामपि ॥
यत्रयत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम ।
तत्रतत्र स्म शूरास्ते निपतन्ति पतङ्गवत् ॥
तथा संयुध्यमानानां विगाढाऽऽसीन्महानिशा ।
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

5-173-8 घट्टितौ मर्दितौ ॥ 5-173-12 सङ्क्रन्दे युद्धे ॥ 5-173-23 सात्यकी इति द्वितीयान्तम् ॥ 5-173-173 त्रिसप्तत्यधिकशततमोऽध्यायः ॥

श्रीः