अध्यायः 012

द्रोणचोदितेन दुर्योधनेन युधिष्ठिरस्य जीवग्राहं ग्रहणवरणम् ॥ 1 ॥ द्रोणेन अर्जुनासन्निधाने तद्व्रहणे प्रतिज्ञाते दुर्यो धनेन तदुद्धोषणम् ॥ 2 ॥

सञ्जय उवाच ।
`शुश्रूषस्व स्थिरो भूत्वां शंसतो मम भारत' । हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान् ।
यथा सत्यपरो द्रोणः सादिताः पाण्डुसृञ्जयैः ॥
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः ।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥
यत्कौरवाणामृषभादापगेयादनन्तरम् ।
सैनापत्ये त्वया राजन्नद्य सत्कृतवानहम् ॥
सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत ।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥
सञ्जय उवाच ।
ततो दुर्योधनो राजा कर्णदुःशासनादिभिः ।
सम्मन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम् ॥
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् ।
गृहीत्वा रयिनां श्रेष्ठं मत्समीपमिहानय ॥
`इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम् ।
भ्रातृणां पश्यतामेव जीवग्राहेण मे द्विज ॥
गृहीत्वा रथिनां श्रेष्ठं मत्सकाशमिहानय ।
प्रीणाम्यनेन कार्येण ससुहृज्जनबान्धवः ॥
सञ्जय उवाच ।
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥
धन्यः कुन्तीसुतो राजन्यस्य ग्रहणमिच्छसि ।
न वधं तस्य दुर्धर्ष वरमद्य प्रयाचसे ॥
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसे ।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥
आहोस्विद्धर्मराजस्य द्वेष्टा कश्चिन्न विद्यते ।
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः ॥
अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।
राज्यांशं प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥
धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः ।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥
सञ्जय उवाच ।
द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत ।
सहसा निःसृतो भावो योस्य नित्यं हृदि स्थितः ॥
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम ।
हते युधिष्ठिरे पार्था हन्युःसर्वान्हि नो ध्रुवम् ॥
नैव शक्या रणे सर्वे निहन्तुममरैरपि ।
`यदि सर्वे हनिष्यन्ते पाण्डवाः ससुता मृधे ॥
ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम् ।
ससागरवनां स्फीतां विजित्य वसुधामिमाम् ॥
विष्णुर्दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः' ।
यद्येष चैषां शेषःस्यात्स एवास्मान्न शेषयेत् ॥
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते । `तस्मिञ्जीवति चायाते ह्युपायैर्बहुभिः कृतैः' ।
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः ॥
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥
सञ्जय उवाच ।
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् ।
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥
द्रोण उवाच ।
न चेद्युधिष्ठिरं वीरः पालयेदर्जुनो युधि ।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः ॥
न हि शक्यो रणे पार्थः सेन्द्रैर्देवासुरैरपि ।
प्रत्युद्यातुमतस्तात न तस्माद्धर्षयाम्यहम् ॥
असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि ।
तरुणः सुकृती युक्त एकायनगतश्च सः ॥
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् ।
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम् ॥
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥
ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ । `ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे' ।
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि ॥
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥
यदि स्यास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः ।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥
फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः ।
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः ॥
सञ्जय उवाच ।
`एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे' । सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् । `स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष' ।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम ॥
पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः ।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

5-12-11 एतां वधरूपां क्रियां मत्तो नाशंससि न सम्भावयसि ॥ 5-12-12 तदिच्छसि त्वं इति क.ख.पाठः ॥ 5-12-14 सुजातं शोभनं जन्म 5-12-22 व्यक्तं नियतम् ॥ 5-12-26 मत्पूर्वः अहं पूर्वो गुरुर्यस्य एकायनगतः जयमरणान्यतरनिश्चयवान् ॥ 5-12-35 बहुलीकृतः प्रतिज्ञां न त्यजेदिति बहुषु प्रकाशितः ॥ 5-12-12 द्वादशोऽध्यायः ॥

श्रीः