अध्यायः 184

कर्णशक्तेर्घटोत्कचवधेन वैफल्याद्धृतराष्ट्रेण शोचनम् ॥ 1 ॥ युधिष्ठिरेण कृष्णे घटोत्कचकृतोपकारनिवेदनपूर्वकं शोचन ॥ 2 ॥ व्यासेन क्रोधात्कर्णजिघांसया गच्छन्तं युधिष्ठिरमेत्य समाश्वासनेन तं निवर्त्य पुनरन्तर्धानम् ॥ 3 ॥

धृतराष्ट्र उवाच ।
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च ।
अपनीतं महत्तात तव चैव विशेषतः ॥
यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे ।
अनिवार्यामसह्यां च देवैरपि सवासवैः ॥
सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा ।
न देवकीसुते मुक्ता फल्गुने वाऽपि सञ्जय ॥
सञ्जय उवाच ।
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशाम्पते ।
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा ।
शक्तिरेषा हि मोक्तव्या कर्णकर्णेनि नित्यशः ॥
ततः प्रभातसमये राजन्कर्णस्य दैवतैः ।
अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः ॥
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया ।
न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता ।
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥
कृष्णे वा देवकीपुत्रे मोहितो देवमायया ।
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥
धृतराष्ट्र उवाच ।
दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च ।
गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः ।
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥
भूय एव तु मे शंस यथा युद्धमवर्तत ।
कृरूणां पाण्डवानां च हैडिम्बौ निहते तदा ॥
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः ।
सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥
सौमदत्तेर्वधाद्द्रोणमायान्तं सैन्धवस्य च ।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः ।
द्रौणिकर्णकृपास्तात ते वाऽकुर्वन्किमाहवे ॥
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकीदरौ ।
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे ॥
सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।
अमर्पिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ॥
सञ्जय उवाच ।
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे ।
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥
आपतत्सु च वेगेन वध्यमाने बलेऽपि च ।
विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥
अब्रवीच्च महाबाहुर्भीमसेनमिदं वचः ।
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ॥
हैडिम्बेश्चैव घातेन मोहो मामाविशन्महान् ।
एवं भीमं समादिश्य स्वरथे समुपाविशत् ॥
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनःपुनः ।
कश्मलं प्राविशद्धोरं दृष्ट्वा कर्णस्य विक्रमम् ॥
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् ॥
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ।
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥
उत्तिष्ठ राजन्युध्वस्व वह गुर्वीं धुरं विभो ।
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः ।
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥
विदिता मे महाबाहो धर्माणां परमा गतिः ।
ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥
अस्माकं हि वनस्थानां हैडिम्बेन महात्सना ।
बालेनापि सता तेन कृतं साह्यं जनार्दन ॥
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं स्वेतवाहनम् ।
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ॥
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः । गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः ।
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥
आरम्भांश्चैव युद्धानां यदेष कृतवान्प्रभो ।
मदर्थे दुष्करं कर्म कृतं तेन महाहवे ॥
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन ।
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥
भक्तश्च मेहाबाहुः प्रियोऽस्याहं प्रियश्च मे ।
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापिताः ॥
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः ।
द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ ॥
निशीथे पाण्डवं सैन्यमाभ्यां माधव मर्दितम् ।
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत् ॥
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव ।
चित्रास्त्रतां च पार्थस्य विक्रमन्ते च कौरवाः ॥
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः ।
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥
कथं वाऽसमासु जीवत्सु त्वयि चैव जनार्दन ।
हैडिम्बिः प्राप्तवान्मृत्यं सूतपुत्रेण सङ्गतः ॥
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः ।
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥
यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः ।
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥
निरुद्वाश्च वयं सर्वे सैन्धवेन दुरात्मना ।
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् ।
व्यायच्छतश्च खङ्गेन द्विधा खङ्गं चकार ह ॥
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् । अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ।
तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना ।
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥
यदि शत्रुवधो न्याय्यो भवेत्कर्तुं हि पाण्डवैः ।
कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः ॥
एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ ।
एतौ रणे समासाद्य समाश्वस्तः सुयोधनः ॥
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः ।
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः ।
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ॥
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ॥
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः ।
स विष्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः । वाजिभिः पञ्चसाहस्रैः पाञ्चालैः सप्रभद्रकैः ।
वृतः शिखण्डी तवरितो राजानं पृष्ठतोऽन्वयात् ॥
ततो भेरीः समाजघ्नुः पणवानकगोमुखान् । शह्खशब्दरवांश्चैव पाणिशब्दांश्च दंशिताः ।
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् ॥
एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः ।
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् ।
दूरं प्रयान्तं राजानमन्वगच्छज्जनार्दनः ॥
तं दृष्ट्वा सहसा यान्तं भूतपुत्रजिघांसया । शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना ।
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥
व्यास उवाच ।
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः ॥
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ।
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे ॥
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ।
वध्मानेषु चास्त्रेषु पीडितः सूतनन्दनः ॥
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ।
ततो भवेत्ते व्यसनं घोरं भरतसत्तम ॥
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ।
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ ॥
तवैव कारणाद्रक्षो निहतं तात संयुगे ।
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः ॥
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ।
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः ॥
कौरवान्समरे राजन्प्रतियुध्यस्व भारत ।
पञ्चमे दिवसे तात पृथिवी ते भविष्यति ॥
नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय ।
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः ।
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

5-184-1 महत् जयालम्बनममोघशक्तिरूपमिति शेषः । अपनीतं ना शितम् । महदपनीतं अन्याय इति वा ॥ 5-184-11 दुष्प्रणीतेन दुर्न येन ॥ 5-184-32 अभिज्ञश्चैवेति झ. पाठः ॥ 5-184-184 चतुरशीत्यधिकशततमोध्यायः ॥

श्रीः