अध्यायः 185

निद्रोपद्रुतानां सैन्यानामर्जुनाज्ञया स्वापेन श्रान्तिमपनीय चन्द्रोदयानन्तरं युद्धारम्भः ॥ 1 ॥

सञ्जय उवाच ।
व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः ।
स्वयं कर्णवधाद्वीरो निवृत्तो भरतर्षभ ॥
घटोत्कचे तु निहते सूतपुत्रेण ता निशाम् ।
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः ॥
दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव ।
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ॥
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् । सशरः कवची खङ्गी धन्वी च परतापनः ।
अभिद्रव रणे हृष्टो मा च ते भीः कथञ्चन ॥
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः ।
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ।
द्रुपदश्च विराटश्च पुत्रभातृसमन्वितौ ॥
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः ।
अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया ॥
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन ।
पदाताश्च रणे द्रोणं पातयन्तु महारथम् ॥
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना ।
अभ्यद्रवन्त वेगेन कुम्भयोनिवधेप्सया ॥
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् ।
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् ।
अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् ।
पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे ।
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ॥
त्रियामा रजनी चैषा घोररूपा भयानका ।
सहस्रयामप्रतिमा बभूव प्राणहारिणी ॥
वध्यतां च तथा तेषां क्षतानां च विशेषतः ।
घोरा रात्रिः समाजज्ञे निद्रान्धानां विशेषतः ॥
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ।
तव चैव परेषां च गतास्त्रा विगतेषवः ॥
ते तदा पारयन्तश्च भ्रमन्तश्च विशेषतः ।
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ॥
अस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः ।
रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत ॥
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप ।
तानन्ये समरे योधाः प्रेषयन्ति यमक्षयम् ॥
स्वप्नायमानांस्त्वपरे परानतिविचेतसः ।
आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे ॥
अस्माकं च महाराज परेभ्यो बहवो जनाः ।
योद्धव्यमिति तिष्ठन्तो निदासंरक्तलोचनाः ॥
संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथापरान् ।
जघ्रुः शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे ॥
हन्यमानमथात्मावनं परैश्च बहवो जनाः ।
नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः ।
उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन्दिशः ॥
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः ।
तमसा च वृते सैन्ये रजसा बहुलेन च ॥
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः ।
निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः ।
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥
तद्वचः सर्वधर्मज्ञा धार्मिकस्य विशाम्पते ।
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥
चुक्रुशुः कर्णकर्णेनि तथा दुर्योधनेति च ।
उपारमत पाण्डूनां विरता हि वरूथिनी ॥
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः ।
उपारमत पाण्डूनां सेना तव च भारत ॥
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः ।
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन् ॥
तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत ।
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥
सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत ।
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ ।
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते ।
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः ।
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशाम्पते ॥
`वीरा वारणकुम्भेषु सुषुपुर्युद्धकर्शिताः ।
रात्रौ रतिपरिश्रान्ताः कामिनीनां कुचेष्विव' ॥
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे ।
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥
सायुधाः सगदाश्चैव सखङ्गाः सपरश्वथाः ।
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुगुण्ठितैः ।
निद्रान्धा वसुधां चक्रुर्घ्राणनिः श्वासशीतलाम् ॥
सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले ।
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥
समां च विषमां चक्रुः खुराग्रैर्विकृतां महीम् । हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः ।
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥
एवं हयाश्च नागाश्च योधाश्च भरतर्पभ ।
युद्धाद्विरम्य सुषुपुः श्रमेण महताऽन्विताः ॥
तत्तथा निद्रया भग्नं तद्बभौ निःस्वनं बलम् ।
कुशलैः शिल्पिभिर्न्यस्तं पटे चित्रमिवाद्भुतम् ॥
ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः ।
कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम् ॥
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥
दशशताक्षककुब्दरिनिःसृतः किरणकेसरभासुरपिञ्जरः ।
तिमिरवारणवृथविदारणः समुदियादुदयाचलकेसरी ॥
हरवृषोत्तमगात्रसमद्युतिः स्मरशरासनपूर्णसमप्रभः ।
नववधृस्मितचारुमनोहरः प्रविसृतः कुमुदाकरबान्धवः ॥
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः ।
अरुणं दर्शयामास ग्रसञ्ज्योतिः प्रभां प्रभुः ॥
अरुणस्य तु तस्यानु जातरूपसमप्रभम् ।
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः ।
पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा ॥
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् ।
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे ।
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ॥
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः ।
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा ॥
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरोऽभवत् ।
तथा चन्द्रोदयोद्धूतः क्षुभितश्च बलार्णवः ॥
ततः प्रववृते युद्धं पुनरेव विशाम्पते ।
लोके लोकविनाशाय परं लोकमभीप्सताम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥

5-185-28 सङ्ग्राममिति झ.पाठः ॥ 5-185-185 पञ्चाशीत्यधिकशततमोऽध्यायः ॥

श्रीः