अध्यायः 187

द्रोणेन द्रुपदविराटादीनां वधः ॥ 1 ॥ भीमेन निष्ठुरभाषणेन धृष्टद्युम्नमुद्योज्य द्रोणानीकाभिगमनम् ॥ 2 ॥ चतुर्दशरात्रियुद्धसमाप्तिः ॥ 3 ॥

सञ्जय उवाच ।
त्रिभागमात्रेषायां रात्र्यां युद्धमवर्तत ।
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते ॥
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः ।
अरुणोऽभ्युदयाञ्चक्रे ताम्रीकृर्वन्निवाम्बरम् ॥
`प्रकाशमकरोद्व्योम जगत्संरञ्जयन्निव' । प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम् ।
तापनीयं यथा चक्रं भ्राजते रविमण्डलम् ॥
ततो रथाश्वांश्च मनुष्ययाना-- न्युत्सृज्य सर्वे कुरुपाण्डुयोधाः ।
दिवाकरस्याभिमुखं जपन्तः सन्ध्यागताः प्राञ्जलयो बभूवुः ॥
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् ।
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥
द्वैधीकृतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् ।
सपत्नान्सव्यतः कुर्याः सव्यसाचिन्निमान्कुरून् ॥
स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः ।
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः ।
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह ॥
भीमसेन उवाच ।
अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम ।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे ।
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ॥
सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि ।
भिन्ध्यनीकं युधांश्रेष्ठ प्रतिज्ञां सफलां कुरु ॥
सञ्जय उवाच ।
स सव्यसाची भीमेन चोदितः केशवेन च ।
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् । पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः ।
नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम् ॥
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः ।
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः ।
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च ।
तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते ।
सैन्येन रजसा मूढं सर्वमन्घमिवाभवत् ॥
नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम् । `शब्दमात्रेण जानीमो वयं ते च परस्परम्' ।
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥
विरथा रथिनो राजन्समासाद्य परस्परम् ।
केशेषु समसज्जन्त कवचेषु भुजेषु च ॥
हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः ।
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः ।
गतसत्वा व्यदृश्यन्त तथैव सह सादिभिः ॥
ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् ।
आतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु ।
समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते ॥
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा ।
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत ॥
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् ।
नैनमाशंसिरे जेतुं दानवा वासवं यथा ॥
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः ।
विस्मिताश्चाभवन्केचित्केचिद्वृष्टाऽभवन्युधि ॥
हस्तैर्हस्ताग्रमपरे प्रत्यपिम्पन्नराधिपाः ।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्च्छिताः ॥
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान् ।
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः ।
समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥
ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे ।
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ॥
द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते ।
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः ।
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥
ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान् ।
मात्स्यांश्चैवाजयत्कृत्स्नान्भारद्वाजो महारथान् ॥
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत् ।
द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥
तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः ।
तौ शरैश्छादयामास विराटद्रुपदावुभौ ॥
द्रोणेन च्छाद्यमानौ तु क्रुद्धौ सङ्ग्राममूर्धनि ।
द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ ॥
तत द्रोणो महाराज क्रोधामर्षसमन्वितः ।
भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः ॥
ततो विराटः कुपितः समरे तोमरान्दश ।
दश चिक्षेप च शरान्द्रोणस्य वधकाङ्क्षया ॥
शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम् ।
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति ॥
ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमारान्दश ।
शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः ॥
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः ।
द्रुपदं च विराटं च प्रेषयामास मृत्यवे ॥
हते विराटे द्रुपदे केकयेषु तथैव च ।
तथैव चेदिमात्स्येषु पाञ्चालेषु तथैव च ॥
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु । द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः ।
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु ।
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत् ॥
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् ।
आयाद्द्रोणं सहानीकाः पाञ्चाल्यऋ परवीरहा ॥
पाञ्चालास्त्वेकतो द्रोणभ्यघ्नन्पाण्डवैः सह । दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥
रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः ।
यतमानास्तु पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष ।
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः ॥
भीमसेन उवाच ।
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः ।
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥
पितृपुत्रवधं प्राप्य पुंस्त्वं को वा प्रहर्षयेत् ।
विशेषतस्तु शपथं शपित्वा राजसंसदि ॥
एष वैश्वानर इव समिद्धः स्वेन तेजसा ।
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥
पुरा करोति निःशेषां पाण्डवानामनीकिनीम् ।
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः ।
शरैः पूर्णायतोत्सृष्टौर्द्रावयंस्तव वाहिनीम् ॥
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् ।
आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् ।
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥
संसक्तान्येव चादृश्यन्रथवृन्दानि मारिष ।
हतानि च विकीर्णानि सरीराणि शरीरिणाम् ॥
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः ।
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे ॥
तथा संसक्तयुद्धं तदभवद्भृशदारुणम् ।
अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥

5-187-1 त्रिभागमात्रशेषायां मुहूर्तत्रयावशिष्टायाम् । तत्र सूर्योदयोत्तरं त्रयोदश्यां द्रोणस्य नाशः । त्रयोदश्यां शुक्लयि युद्धारम्भस्य--हेमन्ते प्रथमेमासे शुक्लपक्षे त्रयोदशीम् । प्रवृत्तं भारतं युद्धमिति भारतसावित्र्यामुक्तस्य चोपपत्तिः सिध्यति ॥ 5-187-44 शशाप शपथं कृतवान् ॥ 5-187-45 इष्टं यागहोमादि । आपूर्तं क्षेत्रारामादि । क्षात्रं द्रुपदकुलोत्पन्नत्वात् । ब्राह्मण्यं याजोपयाजयोर्ब्राह्मणयेस्तपसा ब्राह्मणरूपादग्नेश्च जातत्वात् । एतत्सर्वं तस्य नश्यतु । यस्य शत्रुर्द्रोणो मुच्येत मरणं न प्राप्नुयात् । यं वा मां वा. द्रोणो यदि पराभवेदिति ॥ 5-187-187 सप्ताशीत्याधिकशततमोऽध्यायः ॥

श्रीः