अध्यायः 189

द्रोणार्जुनादीनां सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥
तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥
यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।
ततो दुःशासनः सूतं बुबुधे गतचेतसम् ॥
स हयान्सन्निगृह्याजौ स्वयं हयविशारदः ।
युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च ॥
तदस्यापूजयन्कर्म स्वे परे चापि संयुगे ।
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥
स रश्मिषु विषक्तत्वादुत्सर्ज शरासनम् ।
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत् ॥
छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः ।
आकर्णपूर्णैरभ्यघ्नद्बाह्वोरुरसि चानदत् ॥
स निवृत्तस्ततः कर्णः सङ्घट्टित इवोरगः । भीममावारयामास विकिरन्निशिताञ्छरान् ।
ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ ।
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः ॥
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः ।
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥
गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।
बिभेद शतधा राजंस्तदद्भुतमिवाभवत् ॥
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान् ।
अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।
तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः ॥
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ।
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता ॥
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः ।
पपात सारथिश्चास्य मुमोह च गदाहतः ॥
स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः ।
तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः ॥
चिच्छेद परवीरघ्नः प्रहसन्निव भारत ।
ध्वजं शरासनं चैव शरावापं च भारत ॥
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् । ततः पुनस्तु राधेयो हयानस्य रथेषुभिः ।
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।
हरिर्यथा गिरेः शृङ्गं समाक्रमदरिन्दमः ॥
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।
आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतौ युधि ॥
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च ।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥
उपारमन्त ते सर्वे योधाऽस्माकं परे तथा । विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ ।
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः ॥
पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः ॥
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् ।
आमिषार्थे महाराज गगने श्येनयोरिव ॥
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया ।
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम् ।
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् ।
मुक्तंमुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः ।
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया ।
तस्यतस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः ॥
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि ।
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥
मेने चात्मानमधिकं पृथिव्यामधि भारत ।
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्य परन्तपः ॥
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् ।
यतमानोऽर्जुनं प्रीत्या प्रीयते स्मार्जुनेन सः ॥
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः ।
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥
तदप्सरोभिराकीर्णं यक्षगन्धर्वसङ्कुलम् ।
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥
तत्रास्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः ।
द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप ॥
विसृज्यमानेष्वस्त्रेषु ज्वालयस्तु दिशो दश ।
अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः ॥
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।
न दैवं न च गान्धर्वं ब्राह्मणं ध्रुवमिदं परम् ॥
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ।
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ॥
नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित् ॥
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे । शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ।
नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः ।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः ॥
`यदा द्रोणं महाराज विशेषयति पाण्डवः' ।
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ॥
`तदस्त्रं संहितं राजन्धोररूपं महाहवे' ।
सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च ॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा । `सरितश्च प्रतिस्रोतः प्रवहुर्वै क्षणान्तरम्' ।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥
यदा न गम्यते पारं तयोरन्यतरस्य वा ।
ततः सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम् ॥
नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते ।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप ॥
`द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत ।
अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून् ॥
शरौघैरथ ताभ्यां तु छायाभूतं महामृधे ।
तुमलं प्रबभौ राजन्सर्वस्य जगतो भयम्' ॥
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिसयुद्धे एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

5-189-45 ज्ञानमेकस्थमिति आचार्यो ज्ञानस्य शौर्यस्य चावधिरित्यर्थः । अर्जुनस्तु योगेन बलेन चाधिकः । कृष्णसारथिगाण्डीवदिव्यरथध्वजबुद्भ्यादिभिर्यौवनेन च युक्तत्वात् । तथाच योगबलाभ्यां मार्चार्यसाम्यं प्राप्त इत्यर्थः ॥ 5-189-57 नापतत् बाणैरन्तरिक्षस्य पूरितत्वादिति भावः ॥ 5-189-189 एकोननवत्यधिकशततमोऽध्यायः ॥

श्रीः