अध्यायः 193

द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥ द्रोणेन सोपालम्भभीमवचः श्रवणेन शस्त्रन्यासपूर्वकं योगेन शीरत्यागः ॥ 2 ॥ शरीरार्न्निर्गच्छतस्तेजोरूपस्य द्रोणस्य सञ्जयादिभिः पञ्चभिरेवावलोकनम् ॥ 3 ॥ धृष्टद्युम्नेन द्रोणशिरश्छेदः ॥ 4 ॥

सञ्चय उवाच ।
[सात्वतस्य* तु तत्कर्म दृष्ट्वा दुर्योधनादयः ।
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा ॥
कृपकर्णौ च समरे पुत्राश्च तव मारिष ॥
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः ॥
युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ ।
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन् ॥
कर्णश्च शरवर्षेण गौतमश्च महारथः ।
दुर्योधनादयस्ते च शैनेयं पर्यवारयन् ॥
तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम् ।
वारयामास शैनेयो योधयंस्तान्महारथान् ॥
तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम् ।
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे ॥
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे ।
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा ॥
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत । छत्राणां चापविद्धानां चामराणां च सञ्चयैः ।
राशयः स्म व्यदृश्यन्त तत्रतत्र रणाजिरे ॥
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः ।
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाऽभवत् ॥
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम ।
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥
वर्तमाने तथा युद्धे घोरे देवासुरोपमे ।
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ॥
अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ।
एषो हि पार्पतो वीरो भारद्वाजेन सङ्गतः ॥
घटते च यथाशक्ति भारद्वाजस्य नाशने ।
यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे ॥
अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्पतः । ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम् ।
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः ।
अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः ॥
तान्समापततः सर्वान्भारद्वाजो महारथः ।
अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः ॥
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी ।
ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम् ॥
पपात महती चोल्का आदित्यान्निश्चरन्त्युत ।
दीपयन्ती उभे सेने शंसन्तीव महद्भयम् ॥
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष ।
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥
हतौजा इव चाप्यासीद्भारद्वाजो महारथः ।
प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च ॥
विमनाश्चाभवद्युद्धे दृष्ट्वा पार्षतमग्रतः ॥
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति । सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥]
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः ।
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः ।
दशायुतानि करिणामवधीद्विशिखैः शितैः ॥
सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन् ।
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः ॥
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली ।
सुविपण्णं महात्मानं त्वरमाणः समभ्ययात् ॥
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः ।
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् ।
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ॥
स तथोक्तो महाबाहुः सर्वभारसहं धनुः ।
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे ।
विवारयिपुराचार्यं शरवर्षैरवाकिरत् ॥
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ ।
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे ।
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥
स वसातीञ्शिवींस्चैव वाह्लीकान्कौरवानपि ।
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ॥
धृष्टद्युम्नस्तथा राजन्गभस्तिभिरिवांशुमान् ।
वभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ॥
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः ।
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् ।
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः ।
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥
अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः ।
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् ।
`भरन्ति हि सुतान्दारांस्तद्वदज्ञानमोहिताः' ॥
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया । एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया ।
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥
`आचारहीन निर्लज्ज ब्रह्मवन्धो वरायुध ।
इदानीं तिष्ठ दुर्बुद्धे न मे जीवन्विमोक्ष्यसे ॥
यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि ।
स चाद्य पतितः शेते पृष्टेनावेदितस्तवः ॥
`स वै च निहतः शेते तव पुत्रः सुमन्दधीः' ।
धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि ॥
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्वनुः । `सन्न्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः' ।
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभापत ॥
`कर्णं दुर्योधनं राजंस्त्वरमाणः पराक्रमम्' ।
कर्णकर्ण महेष्वास कृप दुर्योधनेति च ॥
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनःपुनः । पाण्डवेभ्यः शिवं वोस्तु शस्त्रमभ्युत्सृजाम्यहम् ।
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च ॥
उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च ।
अभयं सर्वभूतानां प्रददौ योगमीयिवान् ॥
तस्य तच्छिद्रनाज्ञाय धृष्टद्युम्नः प्रतापवान् । सशरं तद्वनुर्घोरं सन्न्यस्याथ रथे ततः ।
खङ्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥
`प्रद्रुते त्वथ द्रोणाय धृष्टद्युम्ने महारथे' ।
हाहाकृतानि भूतानि मानुषाणीतराणि च ॥
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ।
हाहाकारं भृशं चक्रुरहो धिगिति चाबुवन् ॥
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः ।
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः ॥
पुराणं पुरुषं विष्णुं जगाम मनसा परम् ।
मुखं किञ्चित्समुन्नाम्य विष्टब्योरस्तथाग्रतः ॥
निमीलिताक्षः सत्वस्थो निक्षिप्य हृदि धारणाम् ।
ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः ॥
स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम् ।
दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम् ॥
`मूर्धानं तस्य निर्भिद्य ज्योती राजन्महात्मनः ।
जगाम परमं स्थानं देहं न्यस्य रथोत्तमे' ॥
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते ।
एकरूपमिवाभासीज्योतिर्भिः पूरितं नभः ॥
समपद्यत चोल्काभं द्रोणस्य निधने तदा ।
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत ॥
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ।
ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते ॥
वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः ।
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥
अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः ।
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः ॥
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः । महिमानं महाराज योगयुक्तस्य गच्छतः ।
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम् ॥
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः । नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः ।
आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम् ॥
वितुन्नाङ्गं शरव्रातैरन्यस्तायुधमसृक्क्षरम् । विकृष्य पार्षतः खङ्गं क्रोधामर्षवशं गतः ।
दृश्यमानः सर्वभूतैः केशपक्षे परामृशत् ॥
तस्य मूर्धानमालम्ब्य गतसत्वस्य देहिनः ।
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥
हर्षेण महता महता युक्तो भारद्वाजे निपातिते ।
सिंहनादरवं चक्रे भ्रामयन्खङ्गमाहवे ॥
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः ।
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ॥
उक्तवाश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः ।
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह ।
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत् ॥
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः ।
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥
शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत् ।
लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत ॥
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ।
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत् ॥
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ।
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः ॥
पलायनकृतोत्साहा दुद्रुवः सर्वतोदिशम् ।
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् ॥
अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप ।
ऋषेः प्रसादात्कृष्मस्य सत्यवत्याः सुतस्य च ॥
विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव ।
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥
हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः ।
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥
निहता हतभूयिष्ठाः सङ्ग्रामे निशितैः शरैः ।
तावका निहते द्रोणे गतासव इवाभवन् ॥
पराजयमथावाप्य परत्र च महद्भयम् ।
उभयेनैव ते हीना व्यनिन्दन्मतिमात्मनः ॥
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः ।
नान्वगच्छन्महाराज कबन्धायुतसङ्कुले ॥
`पतिते त्वथ संरब्धे सेनायां तत्र भारत ।
उदिष्ठन्कबन्धानां सहस्राण्येकविंशतिः ॥
शोणितेन परिक्लिन्ना रणभूमिश्च भारत ।
लोहितार्द्र इवादित्यो दुर्दर्शश्चाभवत्तदा' ॥
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः ।
बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः ।
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् । भूयोऽहं त्वां परिष्वज्य परिवक्ष्यामि पार्षत ।
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः ।
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ॥
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि ।
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥
पाण्डवास्तु जयं लब्धा हृष्टा ह्यासन्विशाम्पते ।
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥

5-193-12 एषो हीति सन्धिरार्षः ॥ 5-193-22 ब्रह्मवादानां वेदतुल्यानां वचनानाम् । द्वितीयार्थे षष्ठी । श्रुत्येति शेषः ॥ 5-193-* कुण्डलिताः 22 श्लोकाः झपुस्तकएव दृश्यन्ते । 5-193-42 पृष्ठेन त्वया पृष्ठेन युधिष्ठिरेण आवेदितः हत इति निवेदितः ॥ 5-193-78 परत्र च महद्भयमिति पलायनस्य परलोकविरुद्धत्वात् । उभयेन लोकद्वयेन हीना रहिताः ॥ 5-193-193 त्रिनवत्यधिकशततमोऽध्यायः ॥

श्रीः