अध्यायः 199

सात्यकिनिष्ठुरभाषणरुष्टेन धृष्टद्युम्नेन समर्मोद्धाटनं तद्गर्हणम् ॥ 1 ॥ धृष्टद्युम्नजिघांसया गदामुद्यम्यापततः सात्यकेः कृष्णचोदितेन भीमेन निवारणम् ॥ 2 ॥ सर्वेषां पुनर्युद्धोद्यमः ॥ 3 ॥

धृतराष्ट्र उवाच ।
साङ्गा वेदा यथान्यायं येनाधीता महात्मना ।
यस्मिन्साक्षाद्धनुर्वेदो हीनिषेवे प्रतिष्ठितः ॥
यस्य प्रसादात्कुर्वन्ति कर्माणि पुरुषर्षभाः ।
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ॥
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा ।
नीचं कर्म कृतं तेन क्षुद्रेण गुरुघातिना ॥
नामर्षं तत्र कुर्वन्ति धिक्क्षात्रं धिगमर्षिताम् ॥
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः ।
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः ।
तूष्णीं बभूवू राजानः सर्व एव विशाम्पते ॥
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम् ।
सबाष्पमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत् ॥
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे ।
आसन्सुव्रीडिता राजन्सात्यकिस्त्वब्रवीदिदम् ॥
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् ।
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥
एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया ।
कर्मणा तेन पापेन श्वपाकं ब्राह्मणा इव ॥
एतत्कृत्वा महत्पापं निन्दितः सर्वसाधुभिः ।
न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम् ॥
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते ।
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥
वाच्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः ।
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् ।
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥
कस्त्वेतद्व्यवसेत्पायं त्वदन्यः पुरुषाधम ।
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥
सप्तावरे तथा पूर्वे बान्धवास्ते निमञ्जिताः ।
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥
उक्तवांश्चापि यत्पार्थे भीष्मं प्रति नरर्षभ ।
तथान्तो विहितस्तेन स्वयमेव महात्मना ॥
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः ।
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल ।
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः ।
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि ।
शिरस्ते पोथयिष्यामि गदया वज्रकल्पया ॥
त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते ।
ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः ॥
पाञ्चालक सुदुर्वृत्त ममैव गुरुमग्रतः ।
गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लज्जसे ॥
तिष्ठतिष्ठ सहस्वैकं गदापातमिमं मम ।
तव चापि सहिष्येऽहं गदापाताननेकशः ॥
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् ।
संरब्धं सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ॥
धृष्टद्युम्न उवाच ।
श्रूयतेश्रूयते चेति क्षम्यते चेति माधव ।
सदाऽनार्योऽशुभः साधुं पुरुषं क्षेप्तुमिच्छति ॥
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् ।
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः ।
आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥
`वरं हि ते मृतिः पाप न च ते चित्तमीदृशम् । श्रोतुं वक्तव्यतामूलं नीचाचाराश्च मानवाः ।
परान्क्षिपन्ति दोषेण स्वेषु दोषेष्वदृष्टयः' ॥
यः स भूरिश्रवाश्छिन्नभुजः प्रायगतस्त्वया ।
वार्यमाणेन हि हतस्ततः पापतरं नु किम् ॥
प्रेषमाणो मया द्रोणो दिव्येनास्त्रेण संयुगे ।
विसृष्टशस्त्रो निहतः किं तत्र कुर दुष्कृतम् ॥
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् ।
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं वदेत् ॥
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान् ।
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः ।
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥
यत्रयत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् ।
किरञ्छरसहस्राणि तत्रतत्र प्रयाम्यहम् ॥
स त्वमेवंविधं कृत्वा कर्म चण्डालवत्स्वयम् ।
वक्तुमर्हसि वक्तव्यः कस्मात्त्वं परुषाण्यथ ॥
कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम ।
पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥
जोषमास्व न मां भूयो वक्तुमर्हस्यतः परम् ।
अधरोत्तरमेतद्वि यन्मां त्वं वक्तुमर्हसि ॥
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् ।
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥
न चैव मूर्ख धर्मेण केवलेनैव शक्यते ।
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः ।
द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके ॥
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया ।
सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश ॥
अधर्मेणापकृष्टश्च मद्रराजः परैरितः ।
अधर्मेण तथा बालः सौभद्रो विनिपातितः ॥
इतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः ।
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥
एवं परैराचरितं पाण्डवेयैश्च संयुगे ।
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥
दुर्ज्ञेयः स परो धर्मस्तथाऽधर्मश्च दुर्विदः ।
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥
सञ्जय उवाच ।
एवमादीनि वाक्यानि क्रूराणि परुषाणि च ।
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् ।
विनिः श्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् ।
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥
तमापतन्तं सहसा महाबलममर्षणम् ।
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ॥
चोदितो वासुदेवेन भीमसेनो महाबलः ।
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली ।
प्रस्पन्दमानमादाय जगाम बलिनं बलात् ॥
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः ।
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥
अवरुह्य रथात्तूर्णं ध्रियमाणं बलीयसा ।
उवाच श्लक्ष्णया वाचा सहदेवो विशाम्पते ॥
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते ।
परमन्धकवृष्णिभ्यः पाञ्चलेभ्यश्च मारिष ॥
तथैवान्धकवृष्णीनां तथैव च विशेषतः ।
कृष्णस्य च तथाऽस्मत्तो मित्रमन्यन्न विद्यते ॥
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् ।
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ॥
स भवानीदृशं मित्रं मन्यते च यथा भवान् ।
भवन्तश्च यथाऽस्माकं भवतां च तथा वयम् ॥
स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन् ।
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गवा ॥
पार्षतस्य क्षम त्वं वै क्षमतां पार्षतश्च ते ।
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥
प्रशाम्यमाने शैनेये सहदेवेन मारिष ।
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥
मुञ्चमुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् ।
आसादयतु मामेष धराधरमिवानिलः ॥
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् ।
युद्धश्रुद्धां च कौन्तेय जीवितं चास्य संयुगे ॥
किं नु शक्यं मया कर्तुं यत्कार्यमिदमुच्यताम् ।
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥
अथवा फल्गुनः सर्वान्वारयिष्यति संयुगे ।
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ॥
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे ।
उत्सृजैनमहं चैनमेष वा मां हनिष्यति ॥
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् ।
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥
तौ वृषाविव नर्दन्तौ बलिनौ बाहुशालिनौ । त्वरया वासुदेवश्च धर्मराजश्च मारिष ।
यत्नेन महता वीरौ वारयामासतुस्ततः ॥
निवार्य परमेष्वासौ कोपसंरक्तलोचनौ ।
युयुत्सूनपरान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे एकोनद्विशततमोऽध्यायः ॥ 199 ॥

श्रीः