अध्यायः 202

नारायणास्त्रे विफलीकृते पुनरश्वत्थाम्नाऽऽग्नेयास्त्रप्रयोगः ॥ 1 ॥ तस्यापि पार्थेन व्यर्थीकरणे दूयमानेन द्रौणिना शस्त्रन्यासपूर्वकं रणाङ्कणान्निर्गमनम् ॥ 2 ॥ निर्गच्छता च तेन यदृच्छासमागतं व्यासं प्रति निजास्त्रवैफल्यकारणप्रश्नः ॥ 3 ॥ व्यासेन कृष्णार्जुनयोर्नरनारायणात्मकत्वे कथिते प्रतिनिवृत्तेन द्रौणिना सेनावहारः ॥ 4 ॥

सञ्जय उवाच ।
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया ॥
ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे ।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥
एक एव च बीभत्सुः सोमकावयवैः सह ।
मात्स्यैरन्यैश्च संधाय कौरवान्सन्न्यवर्तत ॥
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥
य शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम् ।
धार्तराष्ट्रेषु या प्रीतिर्देषोऽस्मासु च यच्च ते ॥
यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय ।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः ॥
कालानलसमप्रख्यं द्विषामन्तकोपमम् । समासादय पाञ्चाल्यं मां चापि सहकेशवम् ।
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे ॥
धृतराष्ट्र उवाच ।
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय ।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः ॥
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ॥
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान् ॥
सञ्जय उवाच ।
युवराजे हते चैव वृद्वक्षत्रे च पौरवे ।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥
धृष्टद्युम्ने सात्यकौ च भीमे चापि पारजिते । युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ।
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो ।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥
तस्मादनर्हमश्लीलमप्रियं द्रोणिमुक्तवान् ।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा ॥
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा ॥
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ॥
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ॥
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥
ततस्तुमुलमाकाशे शरवर्षमजायत ।
पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे ॥
उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे ।
तमश्च सहसा रौद्रं चमूमवततार ताम् ॥
रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः ।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च ॥
वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम् ।
रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि ॥
पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः ।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥
भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम् ।
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत् ॥
अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा ।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥
जलजानि च सत्वानि दह्यमानानि भारत ।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥
दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः ।
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥
तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः ।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः ॥
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।
नदन्तो भैरवान्नादाञ्चलदोपमनिस्वनान् ॥
अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते ।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः ॥
द्रुमाणां शिखराणीव दावदग्धानि मारिष । अश्वबृन्दान्यदृश्यन्त रथबृन्दानि भारत ।
अपतन्त रथौघाश्च तत्रतत्र सहस्रशः ॥
तत्सैन्यं भयसंविग्नं ददाह युधि भारत ।
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः ।
तमसा संवृते लोके नादृश्यन्त महाहवे ॥
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना ॥
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।
प्रववौ चानिलः शीतो दिशश्च विमला बभुः ॥
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा ॥
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ । सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ ।
ततो गण्डीवधनन्वा च केशवश्चाक्षतावुभौ ॥
सपताकध्वजहयः सानुकर्षवरायुधः ।
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः ॥
ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह ।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥
हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ कैशवार्जुनौ ॥
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन् ॥
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष ॥
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः ॥
सञ्जय उवाच ।
ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः ।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥
ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम् ।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह ॥
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम् ।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥
भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत् ।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥
अधरोत्तरमेतद्वा लोकानां वा पराभवः ।
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥
नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः ।
न सर्पा यक्षपतगा न मनुष्याः कथञ्चन ॥
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत् ॥
सर्वघानि मया मुक्तमस्त्रं परमदारुणम् ।
केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ ॥
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने ॥
व्यास उवाच ।
महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात् ।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।
`आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः ॥
आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः ।
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह ॥
अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः ।
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः ॥
मा शुचः पुरुषव्याघ्र विद्वि तद्वदिहार्जुनम् ।
तस्य शक्तिरसौ पार्थास्तस्माच्छोकमिमं त्यज ॥
विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः ।
सहस्रसंहितादंशादेकांशोऽयमजायत ॥
देवानां हितकामार्थं लोकानां चैव सत्तमः' ।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥
स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः ।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः ॥
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः ॥
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥
स तेन तपसा तात ब्रह्मभूतो यदाऽभवत् । ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ।
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम् ॥
अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम् ।
रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम् ॥
चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह । दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम् ।
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम् ॥
दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् ।
पिनाकिनं वज्रिणं दीप्तशूलं परश्वथिं गदिनं चायतासिम् ॥
बभ्रूजटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघिणं दण्डपाणिम् ।
शुभाङ्गदं नागयज्ञोपवीतं विश्वैर्गणैः शोभितं भूतसङ्घैः । एकीभूतं तपसां सन्निधानं वचोधिकैः सुष्टुतमिष्टवाग्भिः ॥
जलं दिशं खं क्षितिं चन्द्रसूर्यौ हुताशवायुप्रतिमं सुरेशम् ।
नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् ॥
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः ।
तन्निष्ठात्मा तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ॥
दृष्ट्वा चैनं वाड्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे वासुदेवः ॥
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम् ॥
अजमीशानमव्यक्तं कारणात्मानमच्युतम् । अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान् ॥
श्रीनारायण उवाच ।
त्वत्सम्भूता भूतकृतो वरेण्य गोसारोऽस्य भुवनस्यादिदेव । आविश्येमां धरणीं येऽभ्यरक्षन् पुरा पुराणीं तव देव सृष्टिम् ॥
सुरासुरान्नागरक्षःपिशाचा-- न्नरान्सुपर्णानथ गन्धर्वयक्षान् ।
पृथग्विधान्भूतसङ्घांश्च विश्वां-- स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ॥
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥
रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी ।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम् ॥
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताथिश्चैक्यं संक्षये यान्ति भूयः ।
एवं विद्वान्प्रभवं चाप्ययं च त्वसम्भूतं तव सायुज्यमेति ॥
दिव्यामृतौ मानसौ द्वौ सुपर्णा-- ववाक्शाखः पिप्पलः सप्तगोप्तः ।
वाचश्चार्था देवताः लोकपाला लोकानन्ये ये पुरा धारयित्वा । गता हि तेभ्यः परमं तत्परं च त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम् ॥
भूतं भव्यं भविता चाप्रधृष्यं त्वत्सम्भूता भुवनानीह विश्वा ।
भक्तं च मां भजमानं भजस्व प्रीत्या मां वै लोकपितामहेश ॥
आत्मानं त्वमात्मनो न व्यबोधं विद्वानेवं गच्छि ब्रह्म शुक्रम् ।
अस्तौषं त्वां तव संमानमिच्छ-- निचिन्वन्वै सदृशं देववर्य । सुदुर्लभान्देहि परान्ममेष्टा-- नभिष्टुतः प्रविकार्षीश्च मायाम् ॥
व्यास उवाच ।
तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत् ।
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥
श्रीभगवानुवाच ।
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥
न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः ।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः ॥
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥
न शस्त्रेण न वज्रेण नाग्निना न च वारिणा ।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च ॥
न हस्तेन न पादेन न काष्ठेन न लोष्टुना । कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन ।
अपि वै समरं गत्वा भविष्यसि ममाधिकः ॥
एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः ।
स एष देवश्चरति मायया मोहयञ्जगत् ॥
तस्यैव तपसा जातो नरो नाम महामुनिः ।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥
तावेतौ पूर्वदेवानां परमोपचितादृषी । लोकयात्राविधानार्थं दानवानां वधाय च ।
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे ॥
तथैव कर्मणा कृत्स्नं महतस्तपरसोऽपि च ।
तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते ॥
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥
शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम् ।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः । ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे ।
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः ॥
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।
प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम् ॥
[स एष* रुद्रभक्तश्च केशवो रुद्रसम्भवः ।] कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः ॥
सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥
सञ्जय उवाच ।
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।
नमश्चकार रुद्राय बहुमेने च केशवम् ॥
हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये ।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत् ॥
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते ।
कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥

5-202-2 राजन्नैव तत्रावतस्थिरे इति ट. पाठः ॥ 5-202-3 सोमकावयवैः सोमकानामवयवरूपैर्माण्डलिकैः ॥ 5-202-7 उद्वृत्तस्य उच्छास्त्रवर्तिनः ॥ 5-202-10 युवराजे चेदिपतौ ॥ 5-202-12 अन्तर्भेदे हृदयवैक्लव्ये । दुःखं पुत्रवधादिजम् ॥ 5-202-13 अश्लीलं जुगुप्सितम् । अप्रियं परुषम् ॥ 5-202-21 क्रव्यादाश्चापि चाक्रन्दन् इति ट.पाठः ॥ 5-202-22 प्रयतात्मानो योगिनोऽपि समाधिच्युता बभूवुरित्यर्थः ॥ 5-202-23 आवर्तितदिवाकरं विश्वं सर्वं भ्रमतीवेत्यमन्यतेत्यर्थः ॥ 5-202-24 त्रेसुः शब्दं चक्रुः । यथा वने इति सम्बन्धः ॥ 5-202-29 युगान्ते प्रलये । संवर्तकः संहारकः ॥ 5-202-31 तमोनुदौ चन्द्रसूर्यौ ॥ 5-202-39 तयोर्विषये ॥ 5-202-42 वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम् । सरस्वत्या अग्नोपवेदस्मृत्यादिरूपायां आवासम् । व्यासमिति पाठे विस्तारम् । आवासं च सरस्वत्याः स वै व्यास ददर्शह इति क.ग.ट.पाठः ॥ 5-202-47 कुरवो धृतराष्ट्राद्यास्तेषां कुलोद्वहम् ॥ 5-202-48 माया नष्टयोरप्यनष्टत्वेन दर्शनम् । यदृच्छा अस्त्रशक्तोरनियमः ॥ 5-202-49 अधरोत्तरं विपरीतम् ॥ 5-202-50 शिशिरं गिरिं हिमाचलम् ॥ 5-202-62 योगी विश्वस्येति क.ख.ग.पाठः । पतिं पालयितारम् ॥ 5-202-65 ईशानानां ब्रह्मादीनामपि वृषभं श्रेष्ठम् । कपर्दिनं जटाजूटवन्तम् ॥ 5-202-66 चेकितानं चेतयतम् । तिष्ठतः 5-202-67 स्थावरस्या । गच्छतो जङ्गमस्य । दुर्वारणं दुर्निषेधम् । अतिमन्युं तीव्रकोपं दुष्टेषु ॥ 5-202-68 परश्वथिं परश्वथवन्तम् ॥ 5-202-76 भूतकृतः प्रजापतयः ॥ 5-202-78 एन्द्रं इन्द्रदैवत्यं कर्म तुभ्यं त्वदर्थमेव । सर्वेषां देवानां नाम्ना त्वमेव तर्पणीय इत्यर्थः ॥ 5-202-79 आकाश इति लुप्तविभक्तिकम् । स्वाद्यं रसः । ब्रह्म वेदाः यज्ञाश्च । स्थास्नु स्थावरम् । चरिष्णु जङ्गमम् ॥ 5-202-80 अद्भ्याः समुद्रेभ्यः स्तोकाः वर्षबिन्दवः । संक्षये प्लये एकार्णवे ॥ 5-202-83 अभिष्टुतो यानकार्षीरिह त्वम् इति क.ख.पाठः ॥ 5-202-84 ऋषिणा नारायणेन संस्तुतः ॥ 5-202-87 वियोनिजाः सिंहव्याघ्रादयः । नागान विश्वे विश्वयोनयः इति क.ख.पाठः ॥ 5-202-88 त्रसेन जङ्गमेन ॥ 5-202-89 गत्वा प्राप्य ॥ 5-202-92 पूर्वदेवानां ब्रह्मविष्णुरुद्राणां मध्ये एतौ विष्णुरूपिणावृषी नरनारायणौ परमोपचितावत्यन्ततपः सम्पन्नौ ॥ 5-202-94 देववत् नारायणवत् । अवाकर्षः अवमतं कृशं कृतवानस्यात्मानं शीरम् ॥ 5-202-95 शुभ्रं दीप्तितम् । शुभभौर्वं नवं कृत्वेति क.ख.ग.पाठः ॥ 5-202-98 आत्मयोगात्तमीशानं शास्त्रयोगाच्च शाश्वतमिति क.ख.ग.पाठः ॥ 5-202-103 महर्षये व्यासाय ॥ 5-202-202 द्व्यधिकद्विशततमोऽध्यायः ॥

श्रीः