अध्यायः 016

द्रोणेन युधिष्ठिरग्रहणोद्यमे अर्जुमेन तद्भङ्गः ॥ 1 ॥

सञ्जय उवाच ।
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् ।
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ॥
शरा दश दिशो मुक्ता वृषसेनेन संयुगे ।
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ॥
तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः ।
भानोरिव महाराज घर्मकाले मरीचयः ॥
तेनार्दिता महाराज रथिनः सादिनस्तथा ।
निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः ॥
हयौघांश्च रथौघांश्च गजौघांश्च महारथः ।
अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ॥
दृष्ट्वा तमेकं समरे विचरन्तमभीतवत् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् ।
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ॥
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् ।
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ॥
कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा ।
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ॥
छादयन्तो महाराज द्रौपदेयान्महारथान् ।
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ॥
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः ।
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ॥
तद्युद्धमभवद्धोरं सुमहद्रोमहर्षणम् ।
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ॥
एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः ।
परस्परमुदीक्षन्तः परस्परकृतागसः ॥
तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम् ।
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम् ॥
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः ।
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ॥
`प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत् ।
शूराणामुदयस्तद्वदासीत्पुरुषसत्तम' ॥
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् ।
महाबलानां बलिभिर्दानवानां यथा सुरैः ॥
ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम् ।
त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् ॥
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥
`भारद्वाजममर्षश्च विक्रमश्च समाविशत् । समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च ।
महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत् ॥
सारथे याहि यत्रैष पाण्डरेण विराजता ।
ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट् ॥
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा ।
एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम् ॥
न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः ।
मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः ॥
अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान् ।
न मामुत्सहते तात न भीमो न च सात्यकिः ॥
मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः ।
ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः ॥
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा ।
याहि सर्गं पुरस्कृत्य यशसे च जयाय च ॥
सञ्जय उवाच ।
एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः ॥
तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन् ।
रथेन सवरूथेन भास्वरेण विराजता ॥
तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः ।
पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन्' ॥
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥
तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।
तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत् ॥
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः ।
दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।
सिंहनादरवो ह्यासीत्साधुसाध्विति भाषितम् ॥
कुमारस्तु ततो द्रोणं सायकेन महाहवे ।
विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः ॥
संवार्य च रणे द्रोणं कुमारस्तु महाबलः ।
शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः ॥
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम् ।
चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः ॥
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।
तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः ॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः ।
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ॥
व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन् ।
अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥
युगन्धरस्ततो राजन्भारद्वाजं महारथम् ।
वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम् ॥
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः ।
युगन्धरं तु भल्लने रथनीडादपातयत् ॥
`तं विजित्य महातेजा भारद्वाजो महामनाः ।
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्' ॥
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।
व्याघ्रदत्तश्च पाञ्चल्यः सिंहसेनश्च वीर्यवान् ॥
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।
आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥
व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।
प्राहसत्सहसा हृष्टस्त्रासयन्वै महारथान् ॥
ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च ।
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् ।
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली ॥
तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान् ।
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः ॥
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले ।
हृतो राजेति योधानां समीपस्थे यतव्रते ॥
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ॥
अस्मिन्महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः ।
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥
एवं सञ्जल्पतां तेषां तावकानां महारथः ।
आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥
शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।
शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ॥
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥
ततः किरीटि सहसा द्रोणानीकमुपाद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव ॥
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् ।
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी ।
अदृश्यन्त महाराज बाणभूता इवाभवन् ॥
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे ।
बाणान्धकारे महति कृते गाण्डीवधन्वना ॥
सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते । नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन ।
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।
तान्विदित्वा पुनस्त्रस्ता न युद्धमनसः परान् ॥
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ॥
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ।
एं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः ॥
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ॥ मसारगल्वर्कमुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः ।
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे षोडशोऽध्यायः ॥ 16 ॥

5-16-1 अस्त्रमायया अस्त्रकौशलेन ॥ 5-16-14 पतत्त्रिवरभोगिनामिव पतत्त्रिवरो गरुडः । भोगिनः सर्पाः ॥ 5-16-19 द्रुतेन पलायितेन ॥ 5-16-55 विशसने युद्धे ॥ 5-16-66 मसारः इन्द्रनीलः । गल्वर्कः पद्मरागः ॥ 5-16-16 षोडशोऽध्यायः ॥

श्रीः