अध्यायः 022

द्रोणपराक्रमहृष्टेन दुर्योधनेन कर्णं सम्बोध्य भीमसेनाद्यवज्ञाने कृते कर्णेन भीमादीनां प्रशंसनपूर्वकमनवज्ञेयत्वकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥
स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते ।
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम् ॥
महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम् ।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥
भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम् ।
के शूराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥
सञ्चय उवाच ।
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः ।
पाञ्चालान्पाण्वान्मात्स्यान्सृञ्जयांश्चेदिकेकयान् ॥
द्रोणचापविमुक्तेन शरौघेणाशु हारिणा ।
सिन्धोरिव महौधेन हियमाणान्यथा प्लवान् ॥
कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।
रथद्विपनरांश्चैव सर्वतः समवारयन् ॥
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसम्वृतः ।
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥
दुर्योधन उवाच ।
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः ।
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥
सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः ।
अन्योन्यं समलीयन्त पलायनपरायणाः ॥
एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः ।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम् ॥
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः ।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥
कर्ण उवाच ।
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यति ॥
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः ।
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ॥
निवृत्तो हि महाबाहुरमितौजा वृकोदरः ।
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥
असिना धनुषा शक्या हयैर्नागैर्नरै स्थैः ।
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥
तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः ।
पाञ्चालाः केकया मास्त्याः पाश्डवाश्च विशेषतः ॥
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः ॥
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः ।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥
`समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः ।
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः ॥
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
हीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः ॥
बहवः पार्थिवा राजंस्तेषां वशगता रणे ।
मावमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान् ॥
एकायनगता ह्येते पीडयेयुर्यतव्रतम् ।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः ॥
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ।
अतिभारमहं मन्ये भारद्वाजे समाहितम् ॥
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ।
कोका इव महानागं मा वै हन्युर्यतव्रतम् ॥
सञ्जय उवाच ।
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः ।
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥
तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे द्वाविंशोऽध्यायः ॥ 22 ॥

5-22-1 अभ्यवर्तत किम् ॥ 5-22-31 कोको वृकः ॥ 5-22-22 द्वाविंशोऽध्यायः ॥

श्रीः