अध्यायः 040

अभिमन्युना कर्णदुःशासनपराजयः ॥ 1 ॥

सञ्जय उवाच ।
`ततः समभवद्युद्धं तयोः पुरुषसिंहयोः ।
तस्मिन्काले महाबाहुः सौभद्रः परवीरहा ॥
सशरं कार्मुकं छित्त्वा लाघवेन व्यपातयत् ।
दुःशासनं शरैस्तीक्ष्णैः संततक्ष समन्ततः' ॥
शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम् ।
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥
दिष्ट्या पश्यामि सङ्ग्रमे मानिनं शूरमागतम् ।
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः ।
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः ।
अक्षकूटं समाश्रित्य सौबलस्यात्मनो बलम् ॥
तत्त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः ।
परवित्तापहारस्य कोधस्याप्रशमस्य च ॥
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ।
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् ॥
तत्त्वयेदमनुप्राप्तं प्रकोपाद्वै महात्मनाम् ।
स तस्योग्रमधर्मस्य फलं प्राप्नुहि दुर्मते ॥
शासिताऽस्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ।
अद्याहमनृणस्तस्य कोपस्य भविता रणे ॥
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः । अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि ।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणं ॥
सञ्जय उवाच ।
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् ।
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् । जगाम सह पुङ्खेन वल्मीकमिव पन्नगः । अथैनं पञ्चविंशत्या पुनरेव समार्पयत् ॥
शरैरग्निसमस्पर्शैराकर्णसमचोदितैः । स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । दुःशासनो महाराज कश्मलं चाविशन्महत् ॥
सारथिस्त्वरमाणस्तु दुःशासनमचेतनम् । रणमध्यादपोवाह सौभद्रशरपीडितम् ॥
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् ।
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः ।
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥
अपश्यन्स्मयमानाश्च सौभद्रस्य विचेष्टितम् ।
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥
धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा ।
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ ।
केकया धृष्टकेतुश्च मात्स्याः पाञ्चालसृञ्जयाः ॥
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः ।
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः ॥
ततोऽभवन्महायुद्धं त्वदीयानां परैः सह ।
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥
तथा तु वर्तमाने वै सङ्ग्रामेऽतिभयंकरे ।
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥
पश्य दुःशासनं वीरमभिमन्युवशंगतम् । प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे ।
अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः ।
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः ॥
सञ्जय उवाच ।
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् ।
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥
तस्य चानुचरांस्तीक्ष्णैर्विव्याघ परमेषुभिः ।
अवज्ञापूर्वकं शूरः सौभद्रस्य परणाजिरे ॥
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः ।
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥
तं तथा नाशकत्कश्चिद्दोणाद्वारयितुं रथी ।
आरुजन्तं रथव्रातान्वज्रहस्तात्मजात्मजम् ॥
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुष्मताम् ।
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् ।
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः ।
समरेऽमरसङ्काशः सौभद्रो न व्यशीर्यत ॥
ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः ।
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥
धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥
कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः ।
असम्ब्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः ॥
ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान् ।
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत् ॥
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः ।
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः ।
वादित्राणि च सञ्जघ्नः सौभद्रं चापि तुष्टुवुः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चत्वारिंशोऽध्यायः ॥ 40 ॥

5-40-8 अत्याहितस्य जीवानपेक्षकर्मणः । साहसस्येतियावत् ॥ 5-40-40 चत्वारिंशोऽध्यायः ॥

श्रीः