अध्यायः 042

स़ञ्जयेन धृतराष्ट्रं प्रति अभिमन्युमनुगतानां जयद्गथेन निरोधकथनम् ॥ 1 ॥ तथा जयद्गथस्य रुद्रात् पाण्डवनिरोधरूपवरलाभकथनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम् ।
युद्धेष्वकुशलं वीरं कुलपुत्रं तनुत्यजम् ॥
गाहमानमनीकानि सदश्वैश्च त्रिहायनैः ।
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्बली ॥
सञ्जय उवाच ।
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ ।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सङ्केकयः ॥
धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे ।
तेनैव तु पथा यान्तः पितरो मातुलैः सह ॥
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः ।
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन् ॥
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् ।
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत् ॥
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः ।
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् ।
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरः ॥
धृतराष्ट्र उवाच ।
कतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् ।
यदेकः पाण्डवान्क्रुद्धान्पुप्रेप्सूनवारयत् ॥
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे ।
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥
किं जप्तं हुतमिष्टं वा किं सुतप्तमथो तपः ।
`दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम ॥
देवं कतममाराध्य विष्णुमीशानमब्जजम् ।
सिन्धुराट् तनये सक्तान्क्रुद्धान्पार्थानवारयत् ॥
नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा' ।
सिन्धुराजो हि येनैकः पाण्डवान्समवारयत् ॥
सञ्जय उवाच ।
द्वीपदीहरणे यत्तद्भीमसेनेन निर्जितः ।
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः ।
क्षुत्पिपासातकपसहः कृशो धमनिसन्ततः ॥
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ।
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् ॥
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः ।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् ।
वारयेयं रथेनैकः समस्तानिति भारत ॥
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् । ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ।
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् ॥
`एकाहमिति राजेन्द्र तत्रैवान्तरधीयत' ।
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः ॥
स तेन वरदानेन दिव्येनास्त्बलेन च ।
एकः संवारयामास पाण्डवानामनीकिनीम् ॥
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् ।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम् ।
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

5-42-8 प्रवणान्निम्नप्रदेशं प्नाप्य ॥ 5-42-10 बलं सामर्थ्यम् । शौर्यमुत्साहः वीर्यं प्रभावम् ॥ 5-42-42 द्विचत्वारिंशोऽध्यायः ॥

श्रीः