अध्यायः 051

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम् ।
सेनापतिः स्वयं क्रुद्धो वारयामास सायकैः ॥
ततस्तु चेदिकारूशान्सृढ्जयांश्च महारथान् ।
कर्णो जघान समरे भीमसेनस्य पश्यतः ॥
भीमसेनस्ततः कर्णे विहाय रथसत्तमम् ।
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा ।
सृञ्जयांश्च महेष्वासान्निजघानं सहस्रशः ॥
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः ।
पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः ॥
ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः ।
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥
ततो दुर्योधनः क्रुद्दो नकुलं नवभिः शरैः ।
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥
ततः परममेयात्मा तव पुत्रो जनाधिप ।
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥
नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः ।
जघान समरे राजन्सहदेवश्च पञ्चभिः ॥
तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम् ।
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥
ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत ।
यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः ॥
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे ।
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि ।
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाऽचलम् ॥
ततः क्रुद्धो महाराज तव पुत्रो महारथः ।
पाण़्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥
धनुर्मण्डलमेवास्य ददृशे युधि भारत ।
सायकाश्चाप्यदृश्यन्त निश्चरन्तः समन्ततः ॥
`तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः ।
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ ॥
ते तु बाणा महाराज स्वर्णपुङ्खाः शिलाशिताः' ।
आच्छादयन्दिशः सर्वाः सूर्यस्येव मरीचयः ॥
वाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले ।
राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम् ॥
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः ।
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥
ततः सेनापती राजन्पाण्डवानां महारथः ।
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ ।
धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः ॥
तमविध्यदमेयात्मा तव पुत्रो ह्यमर्पणः ।
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभः ॥
ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः ।
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥
तथास्य सशरं चापं मुष्टिदेशे विशाम्पते ।
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः ।
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥
क्रोधाद्रुधिररक्ताक्षः संरम्भात्प्रज्वलन्निव ।
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव ।
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत् ॥
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलीमुखाः ।
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत ।
वसन्तकाले सुमहान्प्रफुल्ल इव किंशुकः ॥
स च्छिन्नवर्मा नाराचप्रहारैर्झर्झरीकृतः ।
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः ।
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्पयत् ॥
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः ।
प्रफुल्लं पङ्कजं यद्वद्धमरा मधुलिप्सवः ॥
तदपास्य धनुश्छिन्नं दृष्टद्युम्नो महामनाः ।
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः ।
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥
रथं सोपस्करं छत्रं शक्तिं खङ्गं गदां ध्वजम् ।
भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः ॥
तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥
दुर्योधनं तु विरथं छिन्नवर्मायुधध्वजम् ।
भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ ॥
तमारोप्य रथे राजन्कुण्डधारो महारथम् ।
अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥
कर्णस्तु सात्यकिं हित्वा राजगृघ्नुरमर्षणः ।
द्रोमहन्तारमुग्रेषुं ससाराभिमुखो रणे ॥
तं पृष्ठतोऽन्वयात्तूर्णं शैनेयोऽभिहतः शरैः ।
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥
स भारतपुरोगानां राज्ञां च सुमहात्मनाम् ।
कर्णपार्षतयोर्युद्वे सङ्क्रद्धानां महारणे ॥
न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः ।
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः ।
प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि ॥
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः ।
सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम् ॥
तेषामाधिरथिः क्रुद्धः प्रधानान्वै तरस्विनः ।
विचिन्वन्निव बाणौघैः समासादयदग्रतः ॥
व्याघ्रकेतुः सुशर्मा च शुक्रश्चित्रायुधः क्रतुः । दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः ।
महता रथवंशेन परिवव्रुर्नरोत्तमम् ॥
सृजन्तः सायकांस्तूर्णं कर्णमाहवशोभिनम् । यतमानांस्तु ताञ्शूरान्मनुजेन्द्रः शितैः शरैः ।
अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे ॥
अथापरान्महाराज सूतपुत्रः प्रतापवान् ।
जघान बहुसाहस्रान्योधान्युद्वविशारदान् ॥
विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च ।
दण्डधारं च समरे चित्रं चिंत्रायुधं हरिम् ॥
सिंहकेतुं रोचमानं शलभं च महारथम् ।
निजघान सुसङ्क्रुद्वश्चेदीनां च महारथान् ॥
तेषामाददतः प्राणानासीदाधिरथेर्वपुः ।
शोणिताभ्युक्षिताङ्गस्य रुद्रस्यैवातिभैरवम् ॥
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः ।
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥
निपेतुरुर्व्यां समरे कर्णसायकताडिताः ।
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः ।
रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी ॥
नैवं भाष्मो न च द्रोणो नान्ये युधि च तावकाः ।
चक्रुः स्म तादृशं कर्म यादृशं कृतवान्रणे ॥
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् ।
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥
सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च ।
नरेषु च नरव्याघ्रश्चकार कदनं महत् ॥
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः ।
पाञ्चालानां रथव्रातान्कर्णो व्यद्रावयत्तथा ॥
सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित् ।
तथा कर्णमनुप्राप्ता न जीवन्ति स्म सृञ्जयाः ॥
वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा ।
कर्णाग्रिं समरे प्राप्य दग्धा भारत सृञ्जयः ॥
चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत ।
वेश्राव्य नाम निहता बहवः शूरसम्पताः ॥
मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम् ।
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥
सङ्ख्ये विमर्द्य पाञ्चालान्सूतपुत्रः पुनः पुनः ।
अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम् ॥
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष ।
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा ।
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥
एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे ।
कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम् ॥
तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् ।
एको बहूनभ्यपतद्गरुत्मानिव पन्नगान् ॥
तैः कर्णस्याभवद्युद्धं घोररूपं विशाम्पते ।
तादृग्यादृक्पुरावृत्तं देवानां दानवैः सह ॥
तान्समेतान्महेष्वासाञ्शरवर्षौधवर्षिणः ।
एको व्यधमदव्यग्रस्तमांसीव दिवाकरः ॥
भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह ।
सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः ॥
बाह्लीकान्केकयान्मात्स्यान्वासात्यान्मद्रसैन्धवान् ।
एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत ॥
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः ।
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥
वाजिनश्च हतारोहाः पत्तयश्च गतासवः ।
अशेरत महाराज वमन्तो रुधिरं बहु ॥
ताडिताः सहसा नागा भीमसेनेन मारिष ।
निपतन्ति महावेगा वज्ररुग्णा इवाचलाः ॥
पतितैस्तैर्महाराज वेगवद्भिर्महारथैः ।
शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः ॥
सहस्रशश्च रथिनः पत्तयः पतितायुधाः ।
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥
रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः ।
भीमसेनशरैश्छिन्नैराच्छन्ना सुधाभवत् ॥
तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम् ।
दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे ।
निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे ॥
प्रसन्नसलिले काले यथा स्यात्सागरो नृप ।
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम् ॥
मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम् ।
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा ॥
ते बले भरतश्रेष्ठ वध्यमाने परस्परम् ।
रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः ॥
सूतपुत्रोऽवधीत्क्रुद्वः पाण्डवानामनीकिनीम् ।
भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः ॥
वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने । निहत्य पृतनामध्यं संशप्तकगणान्बहून् ।
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् ॥
प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह ।
एते धावन्ति सगणाः संशप्तकमहारथाः ॥
`दुर्जया ह्येव समरे देवैरपि सवासवैः' ।
अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव ॥
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे ।
`कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः' ॥
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥
न च कर्णं रणे शक्ता जेतुमेते महारथाः ।
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् । त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम् ।
एतन्मे रोचते कृष्ण यथा वा तव रोचते ॥
एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव ।
अब्रवीदर्जुनं तूर्णं कौरवान्याहि पाण्डव ॥
ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः ।
हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे ॥
केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः ।
प्रविशद्भिस्तव बलं चतुर्दिशमदीर्यत ॥
मेघस्तनितनिर्हादः स रथो वानरध्वजः ।
चलत्पताकस्तां सेनां विमानं द्यामिवाविशत् ॥
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनो ।
क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती ॥
युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम् ।
यज्वभिर्विधिना हूतौ मखं देवाविवाश्विनौ ॥
`क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ ।
मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ' ॥
क्रुद्धौ तौ तु नरव्याघ्रो योगवन्तौ बभूवतुः ।
तलशब्देन रुषितौ महानागाविवोत्कटौ ॥
विगाह्य तु रथानीकमश्वसङ्घांश्च फल्गुनः ।
व्यचरत्पृतनामध्ये पाशहस्त इवानत्कः ॥
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत ।
संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत् ॥
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः ।
चतुर्दशसहस्रैस्तु तुरगाणां महाहवे ।
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ॥
शूराणां लब्धलक्षाणां विदितानां समन्ततः ।
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः ॥
शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम् ।
स च्छाद्यमानः समरे शरैः परबलार्दनः ॥
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः ।
निरन्तरमिवाकाशमासीच्छन्नं किरीटिना ॥
किरीटिचापनिर्मुक्तैः सम्पतद्भिर्महाशरैः ।
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥
रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः ।
अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥
मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा ।
स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात् ॥
हत्वा दशसहस्राणि पार्थिवानां महारथः ।
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोभ्ययात् ॥
प्रपक्षं च समासाद्य पार्थः काम्भोजरक्षितम् ।
प्रममाथ बलं भल्लैर्दानवानिव वासवः ॥
प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम् ।
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥
अङ्गांङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि ।
विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः ॥
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् ।
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥
तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ ।
पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः ॥
तत्पपात ततो वेगात्स्वलोहितपरिष्कृतम् ।
मनः शिलागिरेः शृङ्गं व्ज्रेणेवावदारितम् ॥
सुदक्षिणादवरजं काम्भोजा ददृशुर्हतम् । प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ।
काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा ॥
ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम् ।
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥
पार्थेषुनिहतैरश्वैः काम्भोजैर्यवनैः शकैः ।
शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशां पते ॥
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः ।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥
अन्योन्येन महाराज विनाशः पृथिवीक्षिताम् ।
आसीत्क्रुद्वेऽर्जुने कर्णे भीमसेने च दारुणम् ॥
तस्पिन्प्रपक्षे पक्षे च वध्यमाने मदोत्कटः ।
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात् ॥
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ।
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥
तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम् ।
विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः ॥
संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः ।
सूतपुत्रस्तु पाञ्चालांस्त्रयोऽघ्नंस्त्वरिताः शरैः ॥
एवमेष महाराज विनाशः पृथिवीक्षिताम् ।
युद्वं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकपञ्चाशोऽध्यायः ॥ 51 ॥ *.एतदनन्तरं झ.पुस्तके विद्यमाना कथा अस्मिन्पाठे---57--58 तमाध्याययोर्वर्तते ।

श्रीः