अध्यायः 057

सङ्कुलयुद्धम् ॥ 1 ॥

दृतराष्ट्र उवाच ।
पाण्ड्ये हते किमकरोदर्जुनो जयतांवरः ।
एकवीरेण कर्णेन द्राविते च युधिष्ठिरे ॥
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः ।
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ॥
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् ।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।
हतं पश्य स्वराजानमपयातांश्च पाण्डवान् ॥
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् ।
असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति ॥
त इमे नानुवर्तन्ते धृष्टद्युम्नपुरोगमाः ।
पाञ्चालाः सृञ्जयाश्चैव पाण्डवानां चमूमुखम् ॥
`निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत्' ।
कौरवान्द्रवतो ह्येष कर्णो वारयते भृशम् ॥
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ।
असौ गच्छति कौन्तेय द्रौणिः शस्त्रभृतां वरः ॥
तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ।
अश्वत्थाम्ना हताः सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः ॥
रथाश्वनरनागानां कृतं च कदनं महत् ।
इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने ॥
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातृणां व्यसनं महत् ।
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥
ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि ।
`ततो रेणुः समभवत्पुनस्तत्र महारणे ॥
ततो राजन्महानासीत्सङ्गामो रोमहर्षणः । सिंहनादरवाश्चात्र प्रादुरासन्समागमे ।
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ॥
ततः हुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।
युधिषरमुखाः पार्था वैकर्तनमुखा वयम् ॥
ततः प्रववृते यूद्धं घोररूपं विशाम्पते ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम् ॥
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे ।
संशप्तकेषु वीरेषु किञ्चिच्छेषेषु भारत ॥
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः ।
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥
आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रमे विजयैषिणः ।
दधारैको रणे कार्णो जलौघानिव पर्वतः ॥
समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः ।
यथाऽचलं समासाद्य वार्योधाः सर्वतोदिशम् ॥
तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः ।
प्रवृद्धयोर्महारङ्गे बलिनोर्विजिगीषतोः ॥
धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा ।
छादयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥
विजयं तु धनुः श्रेष्ठं विधृन्वानो महारथः ।
पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान् ॥
ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः ।
छादयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ॥
ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः ।
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥
तदपास्य धनुश्छिन्नं धृष्टद्युम्नः प्रतापवान् । ततोऽन्यद्धनुरादाय सारवद्भारसाधनम् ।
कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः ॥
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् ।
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥
पुनरन्यं महाराज शरं कनकभूषणम् ।
प्रेषयामास समरे मृत्युदण्डमिवापरम् ॥
तमापतन्तं सहसा घोररूपं विशाम्पते ।
चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत् ॥
दृष्टवान्पतितं भूमौ शरं कर्णो विशाम्पते ॥
पार्षतः शरवर्षेण समन्तात्पर्यवारयत् ।
विव्याध चैनं त्वरितो नाराचैः सप्तभिस्तदा ॥
तं प्रत्यविध्यद्दशभिः शरैर्हेमविभूषितैः ।
तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम् ॥
आसीद्धोरं च चित्रं च प्रेक्षणीयं च सर्वशः ॥
सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत ।
दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप ॥
एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम् ।
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥
स दृष्ट्वा समरे यान्तमभीतं च महारथम् ।
अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम् ॥
रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः ॥
तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे । इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः ।
छादयामास समरे यतमानो महारथः ॥
यत्नतः परया शक्त्या धृष्टद्युम्नं महारथम् ।
योधयामास समरे क्रुद्धरूपो विशाम्पते ॥
तयोस्तु सन्निपाते हि घोररूपो विशाम्पते ॥
यथा हि समरे द्रौणिः पार्षतं दृश्यत मारिष ।
नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः ॥
स ज्ञात्वा पितुरत्यन्तरैरिणं तु महाहवे । आत्मानं समरे ज्ञात्वाऽशस्त्रवध्यं महाबलः ।
जवेनाभिययौ द्रौणिं कालः कालक्षये यथा ॥
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम् ।
क्रोधेन निःश्वसन्वीरः पार्षदं समभिद्रवत् ॥
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ।
प्रगृह्य महती चापे शरासनसमन्विते ॥
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् ।
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते ॥
पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम् ।
पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे ॥
अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा । अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे ।
नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

8-57-2 अनुज्ञातः त्वं अजय्यो भविष्यसीत्यनुगृहीतः ॥ 8-57-57 सप्तपञ्चाशोऽध्यायः ॥

श्रीः