अध्यायः 060

गजयुद्धम् ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥

सञ्जय उवाच ।
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः ।
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः ॥
प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः ।
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा ।
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः ।
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे ॥
तानभिद्रवतो नागान्मदवेगसमुद्धतान् ।
विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत् ॥
एकैकं दशभिः ष़ड्भिरष्टाभिरपि पार्षतः ।
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः ॥
प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम् ।
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः ॥
तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः । वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः ।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ॥
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ।
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान् ॥
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि ।
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः ।
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः ॥
प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः ।
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत् ॥
तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः ।
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि ॥
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् ।
सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः ॥
विपताकं वियन्तारं विवर्मध्वजजीवितम् ।
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात् ॥
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् ।
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम् ॥
दिवाकरकप्रख्यानङ्गश्चिक्षेप तोमरान् ।
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ॥
तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः ।
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ॥
अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे ।
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥
चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः ।
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ॥
मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः ।
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥
तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः ।
परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः ॥
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह ।
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ॥
नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च ।
दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः ॥
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः ।
नाराचैः सहदेवस्तान्पातयामास सादिभिः ॥
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् ।
नाराचैरहनन्नागान्नकुलः कुलनन्दनः ॥
ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः ।
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ॥
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः ।
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥
एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः ।
द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम् ॥
तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः ।
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षष्टितमोऽध्यायः ॥ 60 ॥

8-60-7 प्रच्छाद्यमानं धृष्टद्युम्नम् ॥ 8-60-13 आवर्जितः प्रहारवश्चनेन रक्षितः कायो येन तस्य ॥ 8-60-60 षष्टितमोऽध्यायः ॥

श्रीः