अध्यायः 062

कृष्णेनार्जुनम्प्रति युधिष्ठिरस्य कर्णेन पराभवकथनपूर्वकं कर्णयुद्धप्रदर्शनम् ॥ 1 ॥ तथा भीमसेनयुद्धप्रदर्शनम् ॥ 2 ॥

श्रीभगवानुवाच ।
आतुरो मे मतो राजा अविपह्यश्च भारत ।
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः ॥
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ।
मज्जन्तमिव पाताले बलिनो ह्युज्जिहीर्षवः ॥
न केतुर्दृश्यते राज्ञः कर्णस्य पिहितः शरैः ।
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो ।
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् ।
शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः ॥
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन ।
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥
एते भारत मातङ्गाः कर्णेनाभिहताः शरैः ।
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥
रथानां द्रवते वृन्दमेतच्चैव समन्ततः ।
द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा ॥
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र ह ।
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥
असौ धावति राधेयो भीमसेनरथं प्रति ।
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम् ॥
एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना ।
शक्रेणेव यथा दैत्या द्राव्यमाणा महात्मना ॥
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् ।
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥
एष कर्णो धनुःश्रेष्ठं विधून्वन्बहुशोभते ।
शत्रुं जित्वा यथा शक्रो देवसङ्खैः समावृतः ॥
एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् ।
त्रासयन्तो रणे पाण्डून्सृंजयांश्च समन्ततः ॥
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे ।
अभिभाषति राधेयः सर्वसैन्यानि मानद ॥
अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः ।
यथा न जीववान्कश्चिन्मुच्येत युधि सृञ्जयः ॥
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः ।
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान् ॥
पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम् ।
उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम् ॥
पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत ।
ध्रियमाणेन समरे श्रीमच्छतशलाकिना ॥
एष त्वां प्रेक्षते कर्णः सकटाक्षं धनञ्जय ।
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः ।
शरांश्चाशीविषाकारान्विसृजन्तं महारणे ॥
असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम् । प्रार्थयन्समरं पार्थ त्वया सह परन्तप ।
वधाय ह्यात्मनोऽभ्येति पावकं शलभो यथा ॥
कर्णमेकाकिनं दृष्ट्वा धार्तराष्ट्रो रणाजिरे ।
त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम् ॥
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ।
अत्मानं च कृतार्थं च समीक्ष्य भरतर्षभ ॥
असौ दुर्योधनः क्रुद्धो रथानीकेन भारत ।
रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते ॥
सर्वैः सहैभिर्दुष्टात्मा बध्यतां च प्रयत्नतः ।
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥
अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः । देवासुरे पार्थ मृधे देवदानवयोरिव ।
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् ॥
त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षम् ।
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते ॥
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ ।
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥
प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम् ।
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥
पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम ।
शतान्यxxxxxxजलिनां तिन्मतेजसाम् ॥
पञ्च नाघxxxxx द्विगुणा वाजिनस्तथा ।
अभिसंहत्य कौन्तेय पदाताः प्रयुतानि च ॥
xxxxxxxx वीर बलं तामभिवर्तते ।
द्रोमपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय ॥
निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम् ।
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना ॥
xxxxxxxxxxxxxxxभरतर्षभ । xxxxxxxxxxxxx पाञ्चालानभिघावति ।
xxxxxx हि पश्यामि धृष्टद्युम्नरर्थ प्रति ।
xxxxxx पाञ्चालानिति मन्ये परन्तप ॥
आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ ।
राजासौ कुशली श्रीमान्धर्मपुत्रो युधिष्ठिरः ॥
असौ भीमो महाबाहुः सन्निवृत्तश्चमूयुखे ।
वृतः सृञ्जय सैन्येन शैनेयेन च भप्तत ॥
वध्यन्त एते समरे कौरवा निशितैः शरैः ।
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥
सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात् ।
वेगेन भीमसेनस्य विहता विविधैः शरैः ॥
विपन्नसस्येव मही रुधिरेण समुक्षिता ।
भारती भरतश्रेष्ठ सेना कृपणदर्शना ॥
निवृत्तं पश्य कौन्तेय भीमसेनं युधाम्पतिम् ।
आशीविषमिव क्रुद्धं तस्माद्द्रवति भारति ॥
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः ।
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः ।
केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते ॥
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः ।
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय ।
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥
विमृद्रन्ति नरव्याघ्रा भीमसेनबलाश्रयात् ।
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम् ॥
एते नर्दिन्ति पाञ्चाला ध्मापयन्ति च वारिजान् ।
अभिद्रवन्ति च रणे मृद्रन्तः सायकैः परान् ॥
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि पराक्रमात् ।
धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान् ॥
[शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः ।
तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च ॥
शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च ।
रथनागहया वीरा यशस्याः सर्व एव च] ॥
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः ।
त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते ॥
सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो ।
निवारणे महेष्वासाः पाञ्चालानां परन्तप ॥
अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप ।
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ॥
रथाश्च विविधाः सर्वे निवृत्ते भरतर्षभे ।
विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः ॥
पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी ।
वज्रिवज्रहतानीव शिखराणि धराभृताम् ॥
भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः ।
स्वान्यनीकानि मृद्गन्तो द्रवन्त्येते महागजाः ॥
`एते द्रवन्ति कुरवो भीमसेनभयार्दिताः ।
त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः ॥
हस्त्यश्वरथपत्तीनां द्रवतां निःस्वनं शृणु ।
भीमसेनस्य निनदं द्रावयानस्य कौरवान् ॥
अभिजानामि भीमस्य सिंहनादं पुनःपुनः' ।
नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः ॥
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् ।
विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्तकः ॥
तस्य चैव भुजौ छिन्नौ भीमसेनेन गर्जतः ।
नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः ॥
हन्तैते पुनरायान्ति नागा ह्यन्ये प्रहारिणः ।
नीलाञ्जनचयप्रख्या महामात्रैरधिष्ठिताः ॥
शक्तितोमरसङ्घतैर्विनिघ्नन्तो वृकोदरम् । सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः ।
नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ॥
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा ।
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः ।
क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः ॥
न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् ।
मध्यन्दिनगतं सूर्यं यथा दुर्बलचक्षुषः ॥
एते भीमस्य सन्त्रस्ताः सिंहस्येवेतरे मृगाः ।
शरैः सन्त्रासिताः सह्ख्ये न लभन्ते सुखं क्वचित् ॥
राधेयो बहुभिः सार्धमसौ गच्छति वेगितः । वर्धयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः ।
तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः । भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ।
अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून् ॥
ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो ।
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा ॥
नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः ।
उत्तमं वेxxxxxप्तास्थाय चण्डवायुर्धनानिव ॥
अन्वकीर्यन्त भीतास्ते तत्रतत्रैव भारत ।
लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः ॥
पुनश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः ।
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विषष्टितमोऽध्यायः ॥ 62 ॥

8-62-9 हस्तिकक्ष्यां केतुमिति सम्बन्धः ॥ 8-62-19 छत्रेणोपलक्षितः ॥ 8-62-34 द्रोणपुत्रे महेष्वासे इति क.ट.पाठः ॥ 8-62-62 द्विषष्टितमोऽध्यायः ॥

श्रीः