अध्यायः 069

युधिष्ठिरेण कर्णशरविक्षतस्यात्मनो दिदृक्षया स्वशिबिरमुपागतौ कृष्णार्जुनौ दृष्ट्वा पार्थेन राधेयस्य वधभ्रमेण पार्थस्य प्रशंसनम् ॥ 1 ॥

सञ्जय उवाच ।
[अथोपयातौ पृथुलोहिताक्षौ शराचिताङ्गौ रुधिरप्रदिग्धौ ।
समीक्ष्य सेनाग्रनरप्रवीरौ युधिष्ठिरो वाक्यमिदं बभाषे ॥]
ततो युधिष्ठिरो दृष्ट्वा सहितौ केशवार्जुनौ ।
हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ॥
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना ।
स्मितपूर्वममित्रघ्न पूजयन्भरतर्पभ ॥
युधिष्ठिर उवाच ।
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय ।
प्रियं मे दर्शनं वाढं युवयोर्नरसिंहयोः ॥
अरिष्टयोरक्षतयोः कर्णं हत्वा महारथम् ।
आशीविपसमं युद्धे सर्वशस्त्रविशारदम् ॥
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च ।
रक्षितं वृषसेनेन सुपेणेन च धन्विना ॥
अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम् ।
अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम् ॥
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ।
हन्तारं परसैन्यानाममित्रगणमर्दनम् ॥
दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम् ।
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः ॥
अनलानिलयोस्तुल्यं तेजसा च बलेन च ।
पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम् ॥
अन्तकं मम मित्राणां हत्वा कर्णं महामृधे ।
दिष्ट्या युवामनुप्राप्तौ हत्वाऽसुरमिवामरौ ॥
तेन युद्धमभीतेन मयाऽद्याप्यच्युतार्जुनौ । कृतं घोरं महाबाहू धृष्टद्युम्नस्य पश्यतः ।
अन्तकेनेव क्रुद्धेन प्रजाः सर्वा जिघांसता ॥
तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी ।
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः ।
पश्यतां द्रौपदेयानां शतद्रोश्च महात्मनः ॥
एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान्बहून् ।
जितवान्मां महाबाहो यतमानो महारणे ॥
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु ।
तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः ॥
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय ।
बहुनात्र किमुक्तेन हते सोढुं समुत्सहे ॥
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय ।
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय ।
आत्मनो मरणं जानन्वाध्रीणस इव द्विजः ॥
तस्यायमगमत्कालश्चिन्तयानस्य मे चिरम् ।
कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत् ॥
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव स्मराह्यहम् ।
पश्यामि तत्रतत्रैव कर्णभूतमिदं जगत् ॥
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय ।
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥
सोऽहं तेनैव वीरेण समरेष्वपलायिना ।
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥
को नु मे जीवितेनार्थो राज्येनार्थो भवेत्पुनः ।
ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना ॥
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे ।
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥
स त्वां पृच्छामि कौन्तेय यथा न कुशलस्तथा ।
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णो हतस्त्वया ॥
शक्रतुल्यबलो युद्धे यमतुल्यः पराक्रमे ।
रामतुल्यस्तथास्त्रेषु स कथं ते निषूदितः ॥
महारथसमाख्यातः सर्वयुद्धविशारदः ।
धनुर्धराणां प्रवरः सर्वेषां वै सदार्जुन ॥
पूजितो धृतराष्ट्रेण सपुत्रेण विशाम्पते ।
त्वदर्थमेव राधेयः स कथं निहतस्त्वया ॥
धार्तराष्ट्रस्य योद्धारः सर्व एव सदार्जुन ।
तव मृत्युं रणे कर्णं मन्यन्ते पुरुषर्षभ ॥
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः ।
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया ॥
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् ।
त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः ॥
सर्वा दिशः पर्यपतत्त्वदर्थं त्वां सूतपुत्रः समरे परीप्सन् ।
दित्सन्नृणां शकटं रत्नपूर्णं कथं त्वयासौ निहतोऽद्य कर्णः ॥
त्वया रणे निहतः सूतपुत्रः
कच्चित्कृतं मे परमं त्वयाद्य प्रियं रणे सूतपुत्रं निहत्य ॥
सर्वा दिशः पर्यपतत्त्वदर्थं मुदान्वितो गर्वितः सूतपुत्रः ।
स शूरमानी समरे समेत्य कच्चित्त्वया निहतः सूतपुत्रः ॥
राज्यं परं हस्तिगवाश्वयुक्तं रथं दित्सुर्यः परेभ्यस्त्वर्दर्थे ।
त्वया रणे स्पर्धते यः स पापः कच्चित्त्वया निहतः पापबुद्धिः ॥
योऽसौ नित्यं शौर्यमदेन मत्तो विकत्थते संसदि कौरवाणाम् ।
प्रीत्यर्थं वै तात सुयोधनस्य कच्चित्स पापो निहतस्त्वयाद्य ॥
कच्चित्समागम्य धनुःप्रमुक्तै-- स्त्वत्प्रेषितैर्लोहमयैर्विहंगैः ।
शेते भिन्नः पांसुषु सूतपुत्रः कच्चिद्भग्रौ धार्तराष्ट्रस्य बाहू ॥
योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पयुक्तः ।
हन्ताऽस्मि सर्वानिति पाण्डुपुत्रा-- नहं हन्ता फल्गुनस्येति मोहात् ॥
कच्चिद्वचोऽस्य वितथं त्वया कृतं यत्तत्प्रियामवदत्तात कर्णः ।
सभामथ्ये रूक्षमनेकरूपं धिक्पाण्डवानपतिस्त्वं हि कृष्णे ॥
कच्चिद्भुवं शत्रुरयं महात्मा ह्यधारयद्द्वादश यः समास्तु ।
कर्णो व्रतं घोरममित्रसाहो दुर्योधनस्यार्थनिविष्टबुद्धिः ॥
पादौ न धावे यावदहं न हन्मि धनञ्जयं समरेषूग्रवेगम् ।
कच्चिद्रणे फल्गुन तं निहत्य कच्चिद्व्रतं तस्य भग्नं त्वयाऽद्य ॥
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये ।
किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्वान् ॥
योऽसौ कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम् ।
इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसम्भिन्नगात्रः ॥
कच्चित्सङ्ग्रामो विदितो वै तवायं समागमे सृञ्जय कौरवाणाम् ।
येनावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतो दुरात्मा ॥
कच्चित्त्वया तस्य सुमन्दबुद्धे-- र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः ।
सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन् ॥
यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर ।
तन्मे त्वया कच्चिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन ॥
यद्दर्पपूर्णः स सुयोधनोऽस्मा-- न्दिधक्षते कर्णसमाश्रयेण ।
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य ॥
यो नः पुरा षण्ढतिलानवोच-- त्सभामध्ये कौरवाणां समक्षम् ।
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये त्वया हतः सूतपुत्रोऽत्यमर्षी ॥
यः प्राहिणोत्सूतपुत्रो दुरात्मा कृष्णां जितां सौबलेहानयेति ।
स मन्दबुद्धिर्निहतः प्रसह्य वैकर्तनस्त्वद्य कच्चिन्महात्मन् ॥
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां पितामहं व्याक्षिपदल्पचेताः । सङ्ख्यायमानोऽर्धरथः स कच्चि-- त्त्वयां हतोऽद्याधिरथिर्महात्मन् ॥
अमर्षजं निकृतिसमीरणेरितं हृदि स्थितं ज्वलनमिमं सदा मम ।
हतो मया सोऽद्य समेत्य कर्ण इति ब्रुवन्प्रशमयसेऽद्य फल्गुन ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

8-69-5 अरिष्टयोः शुभयोः ॥ 8-69-7 अनुज्ञातं अनुगृहीतम् ॥ 8-69-10 अनलानिलयोरिति क्रमात्तेजोबलाभ्याम् ॥ 8-69-13 अपसव्यः कृतश्चास्मि इति ख.घ.पाठः ॥ 8-69-17 नाहं तं सोढुमुत्सहे इति क.ङ.पाठः ॥ 8-69-19 कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहगमः । स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मणीति प्राञ्चः । वाघ्रीणस इव द्विप इति झ.पाठः ॥ 8-69-26 यथा नः कुशलं तथा इति क.ङ.पाठः ॥ 8-69-38 विहङ्गैर्वाणैः ॥ 8-69-39 श्वाघते आत्मानमिति शेषः ॥ 8-69-47 बाणेभ्यः समर्पितेन कर्णबाणैरत्यन्तं प्रविद्धेनेत्यर्थः ॥ 8-69-69 एकोनसप्ततितमोऽध्यायः ॥

श्रीः