अध्यायः 071

कर्णस्यामारणज्ञानाद्रुष्टेन युधिष्ठिरेण अर्जुनम्प्रति गर्हणपूर्वकं कृष्णकरे गाण्डीवदानचोदना ॥ 1 ॥

सञ्जय उवाच ।
वैकर्तनं कुशलिनं निशम्य क्रुद्धः पार्थः फल्गूनस्यामितौजाः ।
धनञ्जयं वाक्यमुवाच राजा युधिष्ठिरः कर्णशराभितप्तः ॥
इमां च वसतिं हित्वा भयात्कर्णेन फल्गुन ।
अहं च भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ॥
वासुदेवेन सहिता वयं कर्णेन निर्जिताः । पुनरेव वनं गत्वा तपश्चर्यां च कुर्महे ।
अथवा धार्तराष्ट्राणां परिचर्यां चरामहे ॥
इत्येवमुक्त्वा बीभत्सुं रोषात्संरक्तलोचनः ।
अब्रवीत्पुनरेवात्र धर्मराजो युधिष्ठिरः ॥
इदं यदि द्वैतवने तु सूक्तं कर्णं नियोद्धुं न सहे नृपेति ।
वयं ततः प्राप्तकालं यथाव-- त्कृत्वाऽभ्युपेक्षाम तथैव राज्यम् ॥
मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चार्धस्य तथैव युद्धे ।
आनीय मां शत्रुमध्ये स कस्मा-- त्समुन्नाम्य स्थण्डिले प्रत्यपिंष्ठाः ॥
अन्वास्य सत्येन यदात्थ पार्थ सत्यं शपन्वासुदेवेन सार्धम् ।
तन्नः सत्यमफलं ह्यकार्षीः फलस्य काले चाच्छिन्नः पुष्पवृक्षम् ॥
प्रच्छादितस्त्वं बालिश दुर्यशोभि-- रनर्थवाक्योऽस्यर्जुन नैव साधुः ।
त्यक्त्वा भीमं सर्वभीमेषु भीमं संयोजितस्त्वं सूतपुत्रं निहन्तुम् ॥
यत्तद्वृथा वागुवाचान्तरिक्षे सप्ताह्नि जाते त्वयि मन्दबुद्धौ ।
अपापीयान्वासवात्कुन्तिजातो बहून्सङ्ग्रामानयमेव जेता ॥
अयं जेता पाण्डवो देवसङ्घान् सर्वाणि भूतान्यपि चोत्तमौजाः ।
अयं जेता मद्रकलिङ्गजाता-- न्दैत्यांश्च रक्षांसि समागतानि ॥
भूमिं च सर्वां निखिलेन जेता कुरूंश्च जेता स्वगणांश्च जेता ।
अस्मात्परो नो भविता धनुर्धरो नैष्यन्न भूतः कश्चिदेनं विजेता ॥
इच्छन्नयं सर्वभूतानि कुर्या-- द्वशी वशे सर्वसमाप्तविद्यः ।
कान्त्या शशाङ्कस्य जवेन वायोः स्यैर्येण मेरोः क्षमया पृथिव्याः ॥
अग्नेश्च तापे धनदस्य लक्ष्म्या शौर्येण शक्रस्य जयेन विष्णोः ।
तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवामितौजाः ॥
स्वेषां जयाय द्विषतां वधाय जातो महात्मा तव नन्दिकर्ता ।
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच ॥
एवंविधस्त्वं न च भूतस्तथाद्य देवाश्च नूनमनृतं वदन्ति ॥
तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदा त्वाम् ।
न सन्नतिं यामि सुयोधनस्य न त्वां जानाम्याधिरथेर्भयार्तम् ॥
त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं तम् ।
खङ्गं गृहीत्वा हेमचित्रावनद्वं धनुर्वरं गाण्डिवं तालमात्रम् । त्वं वासुदेवेनोह्यमानः कथं नु कर्णाद्भीतो व्यपयातोऽसि पार्थ ॥
पूर्वं यदुक्तं हि सुयोधनेन न फल्गुनः प्रमुखे स्थास्यतीति ।
कर्णस्य युद्धे हि महाबलस्य मौर्ख्यात्तु तन्नावबुद्धं मयाऽसीत् ॥
तेनाद्य तप्स्ये भृशमप्रमेयं यन्मित्रवर्गो नरकं प्रविष्टः ।
तदैव वाच्योऽस्मि ननु त्वयाऽहं न योत्स्येऽहं सूतपुत्रं कथञ्चित् ॥
ततो नाहं सृञ्जयान्केकयांश्च समानयेयं सुहृदो रणाय ॥
एवं गते किं च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य ।
तथैव राज्ञश्च सुयोधनस्य ये वापि मां योद्धुकामाः समेताः ॥
धिगस्तु मज्जीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः ।
मध्ये कुरूणां समुयोधनानां ये चाप्यन्ये योद्धुकामाः समेताः ॥
एकः स मे भीमसेनोऽद्यं नाथो येनाभिपन्नोऽस्मि रणे महाभये ।
विमोच्य मां चापि रुपान्वितस्ततः शरेण तीक्ष्णेन बिभेद कर्णम् ॥
त्यक्त्वा प्राणान्समरे भीमसेन-- श्चक्रे युद्धं कुरुमुख्यैः समेतैः ।
गदाग्रहस्तो रुधिरोक्षिताङ्ग-- श्चरन्रणे काल इवान्तकाले ॥
असौ हि भीमस्य महानिनादो मुहुर्महुः श्रूयते धार्तराष्ट्रैः ।
यदि स्म जीवेत्समरे निहन्ता महारथानां प्रवरो नरोत्तमः ॥
तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम् ।
अथापि जीवेत्समरे घटोत्कच-- स्तथाऽपि नाहं समरे पराङ्युखः ॥
भीमस्य पुत्रः समराग्रयायी महास्त्रविन्नापि तवानुरूपः ।
यं तं xxxसाद्य रिपोर्वलं नो निमीलिताक्षं भयविप्लुतं भवेत् ॥
xxxxxनिशि युद्धमेक-- स्त्यक्सा रणं यत्व भयाद्रवन्ते ॥
स चेत्समासाद्य महानुभावः कर्णं रणे बाणगणैः प्रमोह्यः ।
धैर्ये स्थितेनापि च सूतजेन शक्या हतो वासवदत्तया तया ॥
ममैव भाग्यानि पुरा कृतानि पापानि नूनं फलवन्ति युद्धे ।
तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना । वैकर्तनेनैव तथा कृतोऽहं यथा ह्यशक्तः क्रियते त्वबान्धवः ॥
आपद्ग्रतं यश्च नरो विमोक्षये-- त्स बान्धवः स्नेहयुतः सुहृच्च ।
एवं पुराणा ऋषयो वदन्ति धर्मः सदा सद्भिरनुष्ठितश्च ॥
खङ्गं विभ्रज्जातरूपत्सरुं च धनुर्वेदं गाण्डिवं तालमात्रम् ।
स केशवेनोह्यमानः कथं नु कर्णात्पार्थस्त्वमपैतुं समैषीः ॥
स गाण्डीवं केशवाय प्रदाय यन्ता भवेस्त्वं यदि केशवस्य ।
ततस्तरेत्केशवः कर्णमुग्रं मरुत्सस्वो वृत्रमिवात्तवज्रः ॥
मासेऽपतिष्यो यदि पञ्चमे त्वं न वा गर्भो यद्यभवः पृथायाः ।
मत्तः श्रेयान्राजपुत्रोऽभविष्य-- न्न ते यशः फल्गुन इत्यपेयात् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकसप्ततितमोऽध्यायः ॥ 71 ॥

श्रीः