अध्यायः 072

xxxxxxxxxxxxx तेन तन्निवेदनम् ॥ 1 ॥ कृष्णेन वधप्रतिनिधित्वेन युधिष्ठिराधिक्षेपxxxxxxx ॥ 2 ॥

सञ्जय उवाच ।
युधिष्ठिरेणैxxxxक्तः कौन्तेयः श्वेतवाहनः ।
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ॥
तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा ।
उवाच किमिदं खङ्गं गृह्णास्यर्जुन शंम मे ॥
नेह पश्यामि योद्धव्यं त्वया किञ्चिद्वनञ्जय ।
नेहागता धार्तराष्ट्राः सर्वे भीमेन वारिताः ॥
उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ ।
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।
हर्षकाले च सम्प्राप्ते कस्मात्त्वां मन्युराविशत् ॥
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह ।
प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः ॥
कस्माद्भवान्महाखङ्गं परिगृह्णात्यकारणात् ।
तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ।
परामृशसि यत्क्रुद्धः खङ्गमद्भुतविक्रम ॥
एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम् ।
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥
अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत् । भिन्द्यामहं तस्य शिर इत्युपांशु व्रतं मम ।
युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन ॥
यदुक्तोऽहमदीनार्थं राज्ञाऽनेन यशस्विना ।
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥
तस्मादेनं विधिष्यामि राजानं धर्मचारिणाम् ।
प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम् ॥
एतदर्थं मया खह्गो गृहीतो यदुनन्दन । सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः ।
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥
किं वा त्वं मन्यसे प्राप्तमस्मिन्कार्य उपस्थिते ।
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ॥
`जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः' ।
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥
सञ्जय उवाच ।
धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः ॥
कृष्ण उवाच ।
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।
अकाले पुरुषव्याघ्र संरम्भं यद्भवानगात् ॥
न हि धर्मविगज्ञैरेवं कार्यं धनञ्जय ।
यथा त्वं पाण्डवाद्येह धर्मभीरुरण्डितः ॥
योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते ।
कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः ॥
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।
एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि ॥
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन ।
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावहुध्यसे ॥
अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित् ।
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे ॥
प्राणिनां हि वधात्तात वृथा धर्मो मतो मम ।
अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन ॥
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥
अयुध्यमानस्य गुरोस्तथाऽशत्रोश्च मानद ।
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः ॥
कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च ।
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव ॥
त्वया चैतद्व्रतं पार्थ बालेनेव कृतं पुरा ।
तस्मादधर्मसंयुक्तं मौर्ख्यादेव व्यवस्यसि ॥
स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि ।
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम् ॥
इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव ।
यद्ब्रूयात्तव भीष्मो वा राजा वापि युधिष्ठिरः ॥
विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी । कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी ।
तत्ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय ॥
सत्यस्यं वचनं साधु न सत्याद्विद्यते परम् ।
सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे सतिः ॥
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥
विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वत्रनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ॥
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥
तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥
तादृशो हन्यते बालो यस्य सत्यमनिश्चितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥
किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः ।
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः ॥
अर्जुन उवाच ।
आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा ।
वलाकस्यानुसम्बद्धं नदीनां कौशिकस्य च ॥
वासुदेव उवाच ।
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।
यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः ॥
वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।
स्वधर्मनिरतो नित्यं संविभज्यानसूयकः ॥
स कदाचिन्मृगप्रेप्सुर्नान्वविन्दन्मृगं क्वचित् ।
अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम् ॥
अदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा ।
अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च ॥
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् ।
विमानमगमत्स्वर्गान्मृगव्याधनिनीषया ॥
तद्भूतं सर्वभूतानामभावाय किलार्जुन ।
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ॥
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।
बलाकोऽगात्स्वर्गलोकमेवं धर्मः सुदुर्विदः ॥
कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः ।
नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ॥
सत्यं मया सदा वाच्यमिति तस्याभवद्द्वतम् ।
सत्यवादीति विख्यातः स तदासीद्धनञ्जय ॥
अथ दस्युभयात्केचित्तदा तद्वनमाविशन् ।
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः ॥
अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम् । कतरेण पथा याता भगवन्निति वै जनाः ।
सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्थ शंस नः ॥
श्रीकृष्ण उवाच ।
सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस ह । बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः ।
इति तान्ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः ॥
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ।
ततोऽधर्मेण महता वाग्दुरुक्तेन कौशिकः ॥
गतः सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित् ।
दृष्टपूर्वश्रुतो मूढो धर्माणामविशारदः ॥
वृद्धानपृच्छन्सन्देहानन्धः श्वभ्रमिवर्च्छति ॥
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ।
दुष्करं प्रतिसंख्यानं कार्त्स्न्येनात्र व्यवस्थितिः ॥
सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः ।
न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते ॥
श्रुतिस्तु धार्या इत्येके वदन्ति बहवो जनाः ।
न त्वेतत्प्रत्यसूयामि तत्र सर्वं विधीयते ॥
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः । अहिंसार्थाय हिंस्राणां धर्मप्रवचनं कृतम् ।
धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः ॥
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यस्मात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥
येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः ।
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ॥
अवश्यं कूजितव्ये ह शङ्केरन्वाप्यकूजनात् । येऽन्यायेन जिहीर्षन्तो धर्मं पृच्छन्ति कस्यचित् ।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चित्म् ॥
प्राणात्यये विवाहे वा सर्वजात्या महाभये ।
सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत् ॥
अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः ।
सर्वथाऽभिवदेत्तत्तु नानृतं स्याद्विचक्षणः ॥
यः स्तेनैः सह सम्बन्धो मुच्यते शपथादपि ।
भवेत्तत्रानृतं श्रेयः सत्यादिति विचारितम् ॥
न च तेभ्यो धनं देयं सत्यादिति कथञ्चन । पापेभ्योऽपि धनं दत्तं दातारमपि पीडयेत् ।
तस्माद्धर्मार्थमनृतमुक्त््वा नानृतवाग्भवेत् ॥
एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि ।
एतज्ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥
अर्जुन उवाच ।
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः ॥
सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया । भवान्मातृसमोऽस्माकं भवान्पितृसमोऽपि च ।
गतिश्च परमा कृष्ण त्वमेव च परायणम् ॥
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ।
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ।
अधर्मयुक्ते संयोगे ब्रूहि किञ्चिदनुग्रहम् ॥
इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम् ॥
जानासि दाशार्ह मम व्रतं तु यो मां ब्रूयात्कश्चन मानुषेषु ।
अन्यस्मै त्वं गाण्डिवं देहि पार्थ यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः ॥
हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूवरकेति चोक्तः ।
वन्मां राजा ह्युक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिवीरे ॥
तं हन्यां चेत्केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम् ।
ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः ॥
यथा प्रतिज्ञा मम लोकबुद्धौ भवेत्सत्या धर्मभृतां वरिष्ठ ।
यथा जीवत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमप्यर्हसि त्वम् ॥
वासुदेव उवाच ।
राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन सह्ख्ये निशितैर्बाणसङ्घैः ।
यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितो युध्यमानः ॥
अतस्त्वमेतेन सरोषमुक्तो दुःखान्वितेनेदमयुक्तरूपम् ।
अकोपितो ह्येष यदि स्म सङ्ख्ये कर्णं न हन्यादिति चाब्रवीत्सः ॥
जानाति तं पाण्डव एष चापि पापं लोके कर्णमसह्यमन्यैः ।
ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ ॥
नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम् ।
तस्मिन्हते कुरवो निर्जिताः स्यु-- रेवं बुद्धिः पार्थिवे धर्मपुत्रे ॥
ततो बधं नार्हति धर्मपुत्र-- स्त्वया प्रतिज्ञाऽर्जुन पालनीया ।
जीवन्नयं येन मृतो भवेद्धि तन्मे निबोधेह तवानुरूपम् ॥
यदा मानं लभते माननार्ह-- स्तदा स वै जीवति जीवलोके ।
यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥
सम्मानितः पार्थिवोऽयं सदैव त्वया च भीमेन तथा यमाभ्याम् ।
वृद्धैश्च लोके पुरुषैश्च शूरै-- स्तस्यापमानं कलया प्रयुङ्क्ष्व ॥
त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम् ।
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह ॥
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।
अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा ॥
अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः ।
तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित् ॥
यदा ह्यं पाण्डव धर्मराज-- सत्वत्तोऽयुक्तं लप्स्यते चैव साधु ।
ततोऽस्य पादावभिवाद्य पश्चा-- च्छ्रेयो ब्रूयात्सान्त्वयुक्तं हितं च ॥
भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा धर्ममार्गानुसारी ।
मुक्तोऽनृताद्वातृवधाच्च पापा-- द्धृष्टः कर्णं त्वं जहि पार्थ पश्चात् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥ 72 ॥

8-72-22 सुखं अनधीत्येत्यर्थः । श्रुतेन शास्त्रेण ॥ 8-72-26 अशत्रोः अशातनीयस्य अवध्यस्य ॥ 8-72-47 तपस्वीनः तपस्विनामिनः श्रेष्ठः ॥ 8-72-52 यथा चाल्पश्रुतो मूढो धर्माणामविभागवित् । वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिहार्हति । इति ङ. पाठः ॥ 8-72-57 तत्र ते लक्षणोद्वेशात्कश्चिदत्र भविष्यति इति क.ड.पाठः । दुष्करं परमं ज्ञानं तर्केणानुव्यवस्याति इति ड.पाठः । दुष्करं प्रतिसङ्ख्यानं कार्त्स्न्येनास्य व्यवस्यति इति व.घ.ड.पाठः । श्रुतेर्धर्म इति ह्येके इति ड.पाठः ॥ 8-72-62 प्राणात्यये विधाहे वा सर्वज्ञातिवधात्यये । नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत् इति झ.ङ.पाठः ॥ 8-72-63 अधर्मं नात्र पश्यन्ति धर्मतत्वार्थदर्शिनः इति ङ.पाठः ॥ 8-72-64 यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि । श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् । इति ङ. पाठः ॥ 8-72-65 शक्ये सति कथञ्चन इति ङ. पाठः ॥ 8-72-70 अनुग्रहं अवधेन प्रतिज्ञारक्षणम् ॥ 8-72-74 तं हन्यामिति स्थाता न न स्थास्ये । एनसा मुक्तोपि कृतप्रायश्चित्तोऽपि न स्थास्ये इत्यर्थः । किं कृत्वा राज्ञो वधं ध्यात्वा ॥ 8-72-78 समक्षं आवयोरिति शेषः ॥ 8-72-79 कर्णे पणीकृते । द्युतं युद्धरूपम् ॥ 8-72-83 अत्र भवन्तं मान्यं त्वमिति ब्रूहि ॥ 8-72-84 एवं पूज्यावमानरूपं संयोगं आत्मनानुष्ठितं कुरुष्व ॥ 8-72-86 यत् गुरुस्त्वमिति प्रोक्तस्तत् अवधेन शंस्त्रपातनमन्तरेणैव वधः वधकरं भवतीत्यर्थः ॥ 8-72-72 द्विसप्ततितमोऽध्यायः ॥

श्रीः